Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 348
________________ NYAYAVATARAḤ भ्रान्तत्वम्, तन्न_संभवत्येव, विविक्तक्षणक्षयिपरमाणूनां कदाचिदप्यप्रतिभासात,, तेषां च पारमार्थिकत्वात् । अथ व्यावहारिकाभिप्रायेण यदिदं घटादिकं स्वलक्षणमर्थक्रियाक्षमम्, तत्र यन्न भ्राम्यति तदभ्रान्तमित्यभिप्रेतम्, तहि कल्पनापोढपदमुत्सारणीयम्, इदानीमनेन सहावस्थानाभावात् । व्यवहारावतारिणो घटादिस्वलक्षणस्य निर्णयेनैव ग्रहणात, अन्यथा व्यवहाराप्रवृत्तेः, दृष्टस्याप्यदृष्टानतिशयिनात् । तस्मात् व्यवसायात्मकमध्यक्षमित्येतदेव चाविति स्थितम् ॥ अपरोक्षतया - इत्यनेन तु परोक्षलक्षणसंकीर्णतामध्यक्षस्य परिहरति, तस्य साक्षात्कारितया अर्थग्रहरणरूपत्वादिति । ईदृशम् - इत्यमुना तु पूर्वोक्तन्यायात् सावधारणेन विशेषणकदम्बकसचिवज्ञानोपदर्शनात् परपरिकल्पितलक्षणयुक्तस्य प्रत्यक्षतां प्रतिक्षिपति । एवं च यदाहुः - इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्, तथा, सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् इत्यादि, तदयुक्तमित्युक्तं भवति, अपूर्वप्रादुर्भावस्य प्रमाणबाधितत्वात्, अत्यन्तासतां शशविषाणादीनामप्युत्पत्तिप्रसङ्गात् । तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसंनिधानात साक्षादर्थग्रहण परिणामरूपतया विवर्तेत, तथा चोत्पन्नजन्मादिविशेषणं न संभवेत् । अथैवंविधार्थसूचकमेवैतद् — इत्याचक्षीथाः, तथा सत्यविगानमेवेत्यास्तां तावत् । अधुना परोक्षलक्षणं दर्शयति- इतरदित्यादि । अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षमित्युक्तम्, तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तब्यम् । एतदपि स्वसंवेदनापेक्षया प्रत्यक्षमेव, बहिरर्थापेक्षया तु परोक्षव्यपदेशमश्नुत इति दर्शयन्नाह - ग्रहणेक्षया इति, इह ग्रहणं प्रक्रमाद् बहिः प्रवर्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यं स्यात्, तस्येक्षा अपेक्षा तया, वहिः प्रवृत्तिपर्यालोचनयेति यावत् । तदयमर्थः - यद्यपि स्वयं प्रत्यक्षम्, तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणेऽसाक्षात्कारितया व्याप्रियते इति परोक्षमित्युच्यते । एतच्च बुभुत्सितार्थान्यथानुपपन्नार्थान्तरप्रतीतिवशादुभयधर्मकमिति । सामान्यलक्षणसद्भावादेकाकारमपि विप्रतिपत्तिनिराकरणार्थं द्विधा भिद्यते । तद्यथा अनुमानं शाब्दं चेति । यतोऽद्यापि शब्दस्यार्थान्यथनुपपन्नमेव परे न प्रतिपद्यन्ते, न चापृथक्कृतस्य तद्विविक्तं वक्तुं शक्यम्, अतो भेदेनोप " न्यासः || ४ | अन्यथेत्यादि । निर्णयेन ग्रहणाभावे व्यवहाराप्रवृत्तेः, दृष्टस्यापि क्षणिकस्वलक्षणस्य अष्टादतिशायनं प्रविशेषः प्रदृष्टादनतिशायनं तस्मात् । घञ्युपसर्गस्य बहुलम् ( सिद्ध० ३-२-८६ ) इति बहुलग्रहणात् क्वचिदुत्तरपदस्य वा दीर्घत्वेन नरकनारकादिवदतिशयनमतिशायनं वेति संभवति । इन्द्रियार्थ संनिकर्षेत्यादि । अत्र सूत्रे यत इत्यध्याहार्यम्, ततोऽयमर्थः - इन्द्रियार्थं संनिकर्षोत्पन्नत्वादिविशेषणं ज्ञानं यत इन्द्रियार्थसंनिकर्षादिर्भवति तत्प्रत्यक्षम् ; ज्ञानं तु प्रत्यक्षप्रमाणफलम् हानोपादानादिबुद्धयपेक्षया तु तदपि ज्ञानं प्रमाणमेव । अव्यपदेश्यं व्यवसायात्मकमिति पदद्वयेन निर्विकल्पसविकल्पकभेदेन प्रत्यक्षस्य द्वैविध्यमाह शेषाणि तु ज्ञानविशेषरणानि । सत्संप्रयोगेत्यादि । सता विद्यमानेन वस्तुना इन्द्रियाणां संप्रयोगे संबन्धे सति पुरुषस्य यो ज्ञानोत्पादस्तत्प्रत्यक्षम् श्रादिशब्दात् साक्षात् - कारिप्रमासाधनं प्रत्यक्षमित्यादि गृह्यते ॥ ४॥ Jain Education International 31 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414