Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 344
________________ NYAYAVAJARAN अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहरणेक्षया ॥४॥ तत्र प्रत्यक्षमिति लक्ष्य निर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानमिति लक्षणनिर्देशः परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया, साक्षात्कृततयेति यावत् । अर्यत इत्यर्थः अवगम्यते इति हृदयम् । अर्थ्यत इत्यर्थो वा, दाहपाकाद्यर्थक्रियार्थिभिरभिलष्यते इति यावत् । तस्य ग्राहकं व्यवसायात्मकतया साक्षात् परिच्छेदकं ज्ञानं तदीदशमिति, ईदगेव प्रत्यक्षमिति संटङ्कः । तत्र ज्ञानग्रहणेन यत् सांख्याः प्राहः-श्रोत्रादिवत्तिःप्रत्यक्षमिति, तत् तिरस्करोति । श्रोत्रादीनां प्रकृतिविकारतया तद्वत्तेापारलक्षणाया जडतया प्रत्यक्षत्वायोगात्, अर्थपरिच्छित्तिहेतुतया प्रत्यक्षत्वे आलोकादिजडकारणकलापव्यापारस्यापि प्रत्यक्षतापद्येत, विशे भावादिति । अर्थस्य ग्राहकमित्यस्य ग्रहणेक्षया इति वक्ष्यमाणपदसापेक्षत्वात्। अमुना बहिरपि येऽर्थकलाकलनविकलं सकलमपि ज्ञानं प्रलपन्ति तानिरस्यति। स्वांशग्रहणे ह्यन्तःसंवेदनं व्याप्रियते यथा तथा बहिरपि, इतरथा अर्थवज्ज्ञानसंतानान्तराण्यपि विशीर्येरन्, स्वप्नदृष्टान्तेन तदनुमानस्योपप्लवमात्रतापत्तेः, स्वविज्ञानस्यैव तथा तथा विजृम्भणात् । तथा च प्रमाणप्रमेयप्रतिपाद्यप्रतिपादककार्यकारणभावादयः प्रलीयेरन्, आत्मव्यतिरेकेणात्मीयपूर्वोत्तरक्षणयोरपि ज्ञानस्य प्रवृत्तिनिरोधापत्तेः। अद्वयविज्ञान श्रोत्रादीति । श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चेति पञ्चमी-इति श्रोत्रादीनीन्द्रियाणि तेषां वृत्तिर्वर्तनं परिणाम इति यावत् । इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां सिद्धान्तः । अर्थस्य ग्राहकमित्यादि । ग्रहणेक्षयेत्यनेन बाह्यार्थापेक्षया यद् ग्राहकं तत्प्रत्यक्षमिति दर्शयति । न चार्थस्य ग्राहकमित्येतावतैवैतत् सिद्धमिति वाच्यम्, यत प्रात्मस्वरूपस्यार्थस्य ग्राहकमित्येतावताप्यर्थस्य ग्राहकं भवत्येव । न चैवं केवलस्वांशग्राहिण: स्वसंवेदनस्य प्रत्यक्षाव्यवच्छेदः, बहिरर्थनिराकरणपरान् योगाचारादीनधिकृत्यैव ग्रहणेक्षयेति वक्ष्यमाणपदस्यायोजनात् । बहिरपीति । न केवलमन्तर्मुखाकारेण ज्ञानमर्थग्रहणशून्यम्, चिद्रूपस्यैव तथा प्रतिभासनात्, अपि तु बहिर्मुखाकारेणापि। ये इति । योगाचारादयः । इतरथेत्यादि । संतानो ज्ञानप्रवाहः, तस्मात् विवक्षितादन्ये संतानान्तराणि । तवनुमानस्य संतानान्तरसाधकानुमानस्य, तथा हि-विवक्षितदेवदत्तादेरन्यत्र यज्ञदत्तादौ व्यापारव्याहारी बुद्धिपूर्वको, व्यापारव्याहारत्वात्, संप्रतिपन्नव्यापारव्याहारवद्, इति संतानान्तरसाधकानुमानम् । तस्मिन् व्यापारव्याहारयोनिकार्यत्वेन प्रतिबन्धनिश्चयात् । एतस्य चानुमानस्य स्वप्नदृष्टान्तेनोपप्लवो भ्रान्तत्वम् । तथा हि-यथा सर्वे प्रत्यया निरालम्बमानाः, प्रत्ययत्वात्, स्वप्नप्रत्यवदिति भवदभिप्रायेण बहिरर्थसाधनस्य निरालम्बनतया बाह्यार्थाभावः, तथा संतानान्तरसाधनस्यापि निरालम्बनतया संतानान्तराभावः । व्यवहारेति । व्यवहारोऽबलाबालगोपालहालिकादिप्रसिद्धः । न चायं भ्रान्तः, क्रियाविरोधप्रसङ्गात् । तथा हि-भ्रमाद् बहलामोदमोदकादनमिव सौगतानामुपलशकलभक्षणं सुगतपदद्वयाराधनवद्वा खरोष्ट्र दासीपदपर्युपास्तिश्च प्रसजति; न चैतद् युगान्तेऽपि दृश्यते, तन्नायं भ्रान्तः । तद्धस्विति । तस्य घटादेरर्थस्य ये हेतवो मृदादयस्तेभ्योऽन्यानि यानि ताल्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414