________________
NYAYAVAJARAN अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् ।
प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहरणेक्षया ॥४॥ तत्र प्रत्यक्षमिति लक्ष्य निर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानमिति लक्षणनिर्देशः परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया, साक्षात्कृततयेति यावत् । अर्यत इत्यर्थः अवगम्यते इति हृदयम् । अर्थ्यत इत्यर्थो वा, दाहपाकाद्यर्थक्रियार्थिभिरभिलष्यते इति यावत् । तस्य ग्राहकं व्यवसायात्मकतया साक्षात् परिच्छेदकं ज्ञानं तदीदशमिति, ईदगेव प्रत्यक्षमिति संटङ्कः । तत्र ज्ञानग्रहणेन यत् सांख्याः प्राहः-श्रोत्रादिवत्तिःप्रत्यक्षमिति, तत् तिरस्करोति । श्रोत्रादीनां प्रकृतिविकारतया तद्वत्तेापारलक्षणाया जडतया प्रत्यक्षत्वायोगात्, अर्थपरिच्छित्तिहेतुतया प्रत्यक्षत्वे आलोकादिजडकारणकलापव्यापारस्यापि प्रत्यक्षतापद्येत, विशे भावादिति । अर्थस्य ग्राहकमित्यस्य ग्रहणेक्षया इति वक्ष्यमाणपदसापेक्षत्वात्। अमुना बहिरपि येऽर्थकलाकलनविकलं सकलमपि ज्ञानं प्रलपन्ति तानिरस्यति। स्वांशग्रहणे ह्यन्तःसंवेदनं व्याप्रियते यथा तथा बहिरपि, इतरथा अर्थवज्ज्ञानसंतानान्तराण्यपि विशीर्येरन्, स्वप्नदृष्टान्तेन तदनुमानस्योपप्लवमात्रतापत्तेः, स्वविज्ञानस्यैव तथा तथा विजृम्भणात् । तथा च प्रमाणप्रमेयप्रतिपाद्यप्रतिपादककार्यकारणभावादयः प्रलीयेरन्, आत्मव्यतिरेकेणात्मीयपूर्वोत्तरक्षणयोरपि ज्ञानस्य प्रवृत्तिनिरोधापत्तेः। अद्वयविज्ञान
श्रोत्रादीति । श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चेति पञ्चमी-इति श्रोत्रादीनीन्द्रियाणि तेषां वृत्तिर्वर्तनं परिणाम इति यावत् । इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां सिद्धान्तः । अर्थस्य ग्राहकमित्यादि । ग्रहणेक्षयेत्यनेन बाह्यार्थापेक्षया यद् ग्राहकं तत्प्रत्यक्षमिति दर्शयति । न चार्थस्य ग्राहकमित्येतावतैवैतत् सिद्धमिति वाच्यम्, यत प्रात्मस्वरूपस्यार्थस्य ग्राहकमित्येतावताप्यर्थस्य ग्राहकं भवत्येव । न चैवं केवलस्वांशग्राहिण: स्वसंवेदनस्य प्रत्यक्षाव्यवच्छेदः, बहिरर्थनिराकरणपरान् योगाचारादीनधिकृत्यैव ग्रहणेक्षयेति वक्ष्यमाणपदस्यायोजनात् । बहिरपीति । न केवलमन्तर्मुखाकारेण ज्ञानमर्थग्रहणशून्यम्, चिद्रूपस्यैव तथा प्रतिभासनात्, अपि तु बहिर्मुखाकारेणापि। ये इति । योगाचारादयः । इतरथेत्यादि । संतानो ज्ञानप्रवाहः, तस्मात् विवक्षितादन्ये संतानान्तराणि । तवनुमानस्य संतानान्तरसाधकानुमानस्य, तथा हि-विवक्षितदेवदत्तादेरन्यत्र यज्ञदत्तादौ व्यापारव्याहारी बुद्धिपूर्वको, व्यापारव्याहारत्वात्, संप्रतिपन्नव्यापारव्याहारवद्, इति संतानान्तरसाधकानुमानम् । तस्मिन् व्यापारव्याहारयोनिकार्यत्वेन प्रतिबन्धनिश्चयात् । एतस्य चानुमानस्य स्वप्नदृष्टान्तेनोपप्लवो भ्रान्तत्वम् । तथा हि-यथा सर्वे प्रत्यया निरालम्बमानाः, प्रत्ययत्वात्, स्वप्नप्रत्यवदिति भवदभिप्रायेण बहिरर्थसाधनस्य निरालम्बनतया बाह्यार्थाभावः, तथा संतानान्तरसाधनस्यापि निरालम्बनतया संतानान्तराभावः । व्यवहारेति । व्यवहारोऽबलाबालगोपालहालिकादिप्रसिद्धः । न चायं भ्रान्तः, क्रियाविरोधप्रसङ्गात् । तथा हि-भ्रमाद् बहलामोदमोदकादनमिव सौगतानामुपलशकलभक्षणं सुगतपदद्वयाराधनवद्वा खरोष्ट्र दासीपदपर्युपास्तिश्च प्रसजति; न चैतद् युगान्तेऽपि दृश्यते, तन्नायं भ्रान्तः । तद्धस्विति । तस्य घटादेरर्थस्य ये हेतवो मृदादयस्तेभ्योऽन्यानि यानि ताल्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org