________________
28 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 तत्त्वसाधनेनानुकूलमाचरसीति चेत्, स्यादेतत्, यदि भवतः प्रमाणपरिदृष्टसकलव्यवहारोच्छेदनकुदर्शनवासनाहितादृष्टाद्वयतत्त्वपरिकल्पनात्, प्रतिकूलं न स्यात् । तन्नार्थविरहेण बहिः प्रमाणभूतज्ञानोल्लासोऽस्ति, निर्हेतुकत्वप्रसङ्गादिति । ग्राहकमिति च निर्णायकं द्रष्टव्यम्, निर्णयाभावेऽर्थग्रहणायोगात् । तेन यत् ताथागतैः प्रत्यपादि।
प्रत्यक्षं कल्पनापोढमभ्रान्तम् [न्या० वि० ४] इति
तदपास्तं भवति, तस्य युक्तिरिक्तत्वात । तथा हि-ते निर्विकल्पकत्वेऽध्यक्षस्यायुक्तीः खेटयन्ति-किलेदमर्थसामथुनोदीयते, संनिहितार्थक्रियासमर्थार्थग्राहकत्वात न चार्थे ध्वनयः सन्ति, तद्धेतुविलक्षणकारणान्तरजन्यत्वात ततश्चासावुपनिपत्य स्वगोचरसंवेदनमुत्थापयन् स्वाकारमनुकारयति । तन्न तद्ग्राहिणि विज्ञाने शब्दसंश्लेषो युक्तः । किं च यद्युत्पादकार्थोपयोगेऽपि तं तावन्न गृह्णीयात, संवेदनमपि तु स्मरणसंपादितं तदमिधायकध्वनिसंयोजनं प्रतीक्ष्यमाणं तावदासीत, तहि दत्तो जलाञ्जलिरर्थग्रहणस्य । तथाहि-तमर्थमपश्यंस्तस्मिन् गृहीतसंकेतं तदभिधायकं ध्वनि नानुस्मरति, उपायाभावाद्, अननुस्मरंश्च पुरोवर्तिन्यर्थेन न योजयति, स्मृत्युपस्थापनव्यतिरेकेण तद्योजनाशक्तेः अयोजयंश्च भवदभिप्रायेण न पश्यतीति धान्ध्यादान्ध्यमापद्येत। यदि वेन्द्रियजमपि ज्ञानं विकल्पकलुषितमिष्येत, तदा तदपि मनोराज्यादिविकल्पवद् विकल्पान्तराविर्भावे सति निवर्तेत; नचैतदस्ति, संनिहितगोपिण्डगोचरस्य चक्षुर्जसंवेदनस्याश्वादिविषयविकल्पोदयेप्यनिवर्तनात, संहृतसकलविकल्पस्यापि च परिस्फुटसंनिहितार्थविषयदर्शनसिद्धेः । तन्नाक्षजं ज्ञानं शब्दसंपर्कमनुभवति । अत्र प्रतिविधीयते यत्तावदुक्तम्, अशब्दकार्थसामोद्भवत्वाद् ध्वनिरहितमध्यक्षमिति, तदयुक्तम्, न हि शब्दासंपृक्तार्थजमित्येतावतैवाभिलापविनाकृतमिति वक्तुं शक्यम्, अन्यथा जडार्थजनितमिति जडमपि तत् स्यात् । अथ वोधरूपमनस्कारसाहित्याद् न जडमिति ब्रषे, तथा सत्यभिलापसंसृष्टमनस्कारसंनियोगात साभिलापमपि स्यात । किं च विविक्ताः परमाणवः स्वाकारार्पणद्वारेण स्वगोचरं ज्ञानमुत्पादयन्तः कथमसन्तमात्मनि स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं तत्र
दीनि कारणानि तज्जन्यत्वाद् असावित्यर्थः। उपनिपत्येति । निकटीभूय । स्वाकारम् अर्थाकारम् । तद्ग्राहिणि अर्थग्राहिणि । तमिति अर्थम् । धान्ध्यादिति । धन्ध्यो जडः तस्य भावो धान्ध्यं जाड्यम् । विनिश्चयटीकायाम्--धन्ध्यो जड इति । क्वचित् धान्ध्यादिति पाठस्तदैवं व्याख्या--धियो बुद्धे रान्ध्यं ध्यान्ध्यं जाड्यम्, परं नायं पौराणिकः । संहृतेत्यादि । संहृतविकल्पावस्थायां संनिहितार्थविषयविशददर्शनाभिधानेनेन्द्रियजबोधस्य विकल्परूपतां निरस्यति, तथा हि--इन्द्रियजो घटादिबोधो विकल्परूपो न भवति, संहृतसकल विकल्पस्यापि पुसो जायमानत्वात्, य: पुनर्विकल्परूपो नासो संहृतसकलविकल्पस्य जायते, यथा मनोराज्यादिविकल्पः, न चायं संहृतसकलविकल्पस्य न जायते, तस्माद् विकल्परूपो न भवतीत्यत्रानुमानम् । विकल्परूपताभ्युपगमे संहृतसकल विकल्पस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org