________________
26
VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1
एतदभ्यधायि भवता यथा - प्रसिद्धानि प्रमाणानि ततस्तेषां लक्षणोक्तौ असाधारणधर्मकथनविषये प्रयोजनं फलं किमिति शेषः । तदेतदयुक्तम् । यतो यद्यपि प्रतिप्राणि प्रसिद्धानि प्रमाणानि, अन्यथा तत्कृतनिखिलव्यवहारोच्छेदप्रसङ्गात्, तदुच्छेदे च दृष्टहान्याद्यापत्तेः, तथापि केचिद् विततमोहावष्टब्धान्तः करणास्तत्स्वरूपमनुभवन्तोऽपि न लक्षयन्ति ततस्तानवलोकयतामस्माकं तद्विषये कृपापरीतचेतसां यथावस्थितप्रमाणलक्षणाविर्भावनद्वारेण व्यामोहमेतेषामपसारयाम इति प्रमाणलक्षणाभिधानं प्रति प्रवर्तते चेतः । तदिदं प्रयोजनम् - तद्व्यामोह - निवृत्तिः स्याद् इति तस्मिन् प्रमाणलक्षणे व्यामोहो विसरीताभ्युपगमवतां विपर्यासलक्षणस्तीर्थ्यानां प्रमाणाप्रमाणविवेकविकलानाम्, अनध्यवसायात्मकस्तु मुग्धबुद्धीनां लौकिकानाम्, तस्य निवृत्तिरविपरीतलक्षणावगमादपगम इत्यर्थः । सा स्याद् भवेत् । केषामित्याह-व्यामूढं विपरीतग्रहस्तं विचित्ततां गतं मनोऽन्तःकरणं येषां ते तथा तेषाम् । इहेति लोके । तदयं तात्पर्यार्थः-यद्यनादिप्रसिद्ध प्रमाणलक्षणं प्रति केचिदपि न व्यामुह्येयुस्तदा यद् भवद्भिः प्रागुदग्राहि निरर्थकं प्रमाणलक्षणाभिधानमिति, तत् युक्तमेव स्यात् । न चैतदेवम्, तत्र व्यामूढानां दर्शनात् । एतेन यददायि दूषणं प्रमाणलक्षणमनिश्चितं निश्चितं वा अभिधीयेत इत्यादि तदपि सिद्धसाध्यतामध्यप्रतिवद्धत्वान्न बाधाविधायि अस्माकमिति मन्तव्यम् । व्यामूढमनसोऽपि प्रति प्रमाणलक्षणप्रकाशने तल्लगतीति चेत्, न स्वसंवेदनसिद्धस्य वचनेन प्रकाशनात् तस्य व्यामोहापोह एव व्यापारात् । यथा विविक्तभूतलावलोकनेऽपि अध्यक्षाद् यो घटादिवैविवत्यं न प्रतिपद्यते, कुदर्शनव्यामोहात्, तं प्रत्युच्येत नास्त्यत्र घटः, उपलम्भकारण समग्रतायामप्यनुपलम्भात् । वैविॠत्यं हि तत्राध्यक्षसिद्धम्, वचनाद् व्यामोहो निवर्त्येत; तथेहापि विद्वद्भिर्द्रष्टव्यम् । निर्णीतं तल्लक्षणमध्यक्षेण, तस्य व्यवसायरूपत्वात्; वचनं पुनर्विपरीतारोपनिराकरणे व्याप्रियत इति स्थितम् । तदेवं प्रमाणलक्षणं सामान्येन प्रतिपाद्य तद्गतकुचोद्यं पर्यहार्याचार्येण ||३||
अधुना तद्विषयामेव संख्याविप्रतिपत्ति निराचिकीर्षता ये प्रत्यक्ष परोक्ष - लक्षणे प्रमाणव्यक्ती प्राक् प्रक्रान्ते, तयोरपि लक्षणं प्रति विप्रतिपद्यन्तेऽपरे । अतस्तल्लक्षणमपि वक्तव्यम्, इति तावत् प्रत्यक्षलक्षणमभिधातुकाम आह
ततो नव्योगादि, निराकृत्येत्यर्थ । तीर्थ्यानामिति । यद्यपि सम्यक् संसारसागरोत्तरणीपायभूतत्वात् तीर्थं जिनशासनमेवोच्यते, तथापि तीर्थमिव तीर्थम्, तत्र साधवः तीर्थ्याः, साध्वर्थे यः । एतेनेति । व्यामूढमनसः प्रतिलक्षणाभिधानेन ।
सिद्धसाध्यतामध्यप्रतिबद्धत्वादिति । श्रयमभिप्रायः -- यदि न प्रमाणलक्षणाभिधीयतेऽस्माभिस्तदा यदुक्तं -- प्रमाणलक्षरणमनिश्चितं विधानं वाभिधीयेत इत्यादि तत्समस्तमपि दूषणमस्माकं लगेदपि, यदा तु स्वतः सतो व्यवसायरूपत्वात् स्वसंवेदनेन निर्णीतस्य च प्रमाणलक्षणस्य व्यामूढान् प्रति प्रकाशः, कस्तदा दोषांवकाशः ? एतच्च व्यामूढमनसोऽपि प्रतीत्यादि पूर्वपक्षमुत्थाप्य स्वत एवातिस्पष्टमाचार्योऽभिधास्यति, ततः सिद्धमेतत् न बाधाविधायीति ||३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org