________________
NYAYAVATĀRAŇ
25 अर्थक्रियाकारिताविशेषस्तु भिन्नेऽपि रूपे न दुरुपपादः, तस्यापि ज्ञानसाधारणव्यवहारकरणदक्षत्वात् । न चार्थक्रिया वस्तुलक्षणमिति निवेदयिष्यामः, तस्मात् सर्वत्र भिन्नाभिन्नौ सामान्यविशेषाविति दर्शनार्थो बहुवचननिर्देशः। आसतां तावत्प्रमारणानि, व्यवहारश्च तत्कृतः प्रसिद्ध इति संबन्धः । चशब्दोऽपिशब्दार्थः। तेनायमर्थः- यदर्थं प्रमाणपरीक्षणमसावपि जलपानशीतत्राणादिळवहारोऽनादिरूढः, तन्निरर्थकं प्रमाणलक्षणाभिधानमित्यभिप्रायवानपि पर: परुषतापरिजिहीर्षयात्मनोऽन्यथा प्राह--प्रमाणलक्षणस्योक्तौ पररूपव्यावर्तनक्षमासाधारणप्रमाणधर्मकथनरूपायां ज्ञायते निर्णीयतेऽस्माभिर्न प्रयोजनं तत्फलम्, अतिसूक्ष्मत्वात्तावकाभिसंधेरिति काक्वा प्रश्नयत्युल्लुण्ठयति चेति । किं च प्रमाणलक्षणमनिश्चितं वाभिधीयते, निश्चितं वा स्वरूपेणेति पक्षद्वयम् । न तावदनिश्चितम्, अनिश्चितस्य लक्षणत्वायोगात्, उन्मत्तकविरुतवत् । अथ निश्चितम्, तत्किमप्रमाणात्प्रमाणाद्वा । न तावदप्रमाणात्, अप्रमाणस्य निश्चायकत्वायोगात् । यदि पुनरप्रमाणमपि निश्चायकमिति संगीर्येत, तदा प्रमाणपर्येषणं विशीर्यत, नैरर्थक्यापत्तेः, अप्रमाणादपि निश्चायकत्वाभ्युपगमात् । अथ प्रमाणात , तत्किमलक्षणम्, लक्षणोपेतं वा । अलक्षणं चेन्निश्चायकं प्रमाणम्, तहि सर्वप्रमाणानां लक्षणाभिधानमनर्थकम्, तद्व्यतिरेकेणाप्यर्थनिश्चयसिद्धेः, भवदभिप्रेतलक्षणनिश्चायकप्रमाणवत् । अथ लक्षणोपेतम्, तत्रापि विकल्पयुगलमनिवारितप्रसरमनुधावति, तल्लक्षणं निश्चितमनिश्चितं वा । न तावदनिश्चितं लक्षणं लक्ष्यं लक्षयति । निश्चयोऽपि प्रमाणादप्रमाणाद्वा। अप्रमाणान्निश्चयासिद्ध : प्रमाणादिति वक्तव्यम् । तदप्यलक्षणं सलक्षणं वा । अलक्षणत्वे पूर्वस्यार्थग्रहणे किं खूणम् । सलक्षणत्वे त्वेतल्लक्षणं निर्णीतमनिर्णीतं चेति तदेवावर्तते । तन्न प्रमाणलक्षणाभिधानोपायोऽस्ति, तस्मात्प्रसिद्धानि प्रमाणानि इत्यङ्गीकर्तव्यमिति ॥२॥
अधुना चार्यागृहीतस्तावकीनोऽभिप्रायोऽस्माभिरिति परं प्रत्याययंस्तन्मतमनुद्राव्य तदेवानुमन्यमानस्तथापि लक्षणोक्त : साफल्यमावेदयन्नाह
प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् ।
तव्यामोहनिवृत्तिः स्याद्व्यामूढमनसामिह ॥३॥ विठपित्वादिति । उपार्जने विपूर्वः ठप् सोत्रो धातुः । तस्यापीत्यादि । तस्य विशेषभिन्नसामान्यस्य ज्ञानं च साधारणव्यवहारश्च तयोविधाने कुशलत्वात्, तथा हि-- सामान्यं दूराद् धवलधावलेयादिविशेषाप्रतिभासेऽपि सामान्येन गौगौरिति ज्ञानं जनयति, तथा अयं गौरयं गौरिति साधारणव्यवहारं चेति । यदि पुनविशेषेभ्यो भिन्नं नाभ्युपगम्येत सामान्यम्, तदा तन्निबन्धनं ज्ञानं सादृश्यव्यवहारश्च प्रलयं यायादिति ॥२॥
तन्मतमनुव्राव्येति । षु सु द्र ह ऋच्छ गम सृ प गती अनुद्रवत्यनुगच्छति तन्मतम् सिद्धान्ती प्रयुङ्क्ते, हेतौ इति क्त्वाप्रत्यये अनुगमय्येति शब्दार्थः; तन्मतस्य चानुगमनमनुवादमन्तरेण न संभवतीत्यनूद्येति तात्पर्यम् । यद्वा उत्प्राबल्येन द्रावणं स्फेटनं पूर्वमुद्दाव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org