________________
24 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 द्वारेण नियतानियतसामान्याकारावलोकी परिस्फुटतारहितः खल्वात्मनोऽर्थग्रहणपरिणामः समुल्लसति स परोक्षतां स्वीकरोति । न चेतौ प्रकारौ विहाय प्रकारान्तरेण ज्ञानप्रवृत्ति पश्यामः, न चापश्यन्तः प्रमाणान्तरपरिकल्पनं क्षमामहे, न च द्वयोः प्रथमानयोरेकं निह नुवानमुपेक्षामहे, विशेषाभावात्; तस्मादेतदेव द्वैविध्यमुररीकर्तव्यमिति स्थितम् ॥१॥
____ सांप्रतं यदस्माभिः प्राग् विवृण्वद्भिर्युदपादि, यदुत विप्रतिपन्नाव्युत्पन्नव्यामोहापोहसहमिहेदं प्रमाणलक्षणमिति तत्सूत्रदर्शनादेव विमलबुद्धयोऽवगच्छेयुः। मन्दमतयस्तु तावता न भोत्स्यन्त इति तद्धितविधित्सया व्यक्तं प्रमाणलक्षणाभिधानफलं प्रतिपिपादयिषुरपि सपूर्वपक्षं निराकाङ्क्ष लक्षयेयुस्ते इति तावत् पूर्वपक्षमुत्थापयन्नाह
प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः।
प्रमारणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥२॥ इह वचनमुच्चारयता विमृश्यभाषिणा प्रत्यवमृश्यम्-किमिदं मामकं वचनं श्रोतृसंस्काराधायकमुत नेति । इतरथा पर्यालोचितकारितास्य हीयते । श्रोतसंस्काराधायकं चेत्, उच्चारयति अन्यथा विपर्यय इति । एतत्तु प्रमाणलक्षणवाक्यं सकलजनानादिप्ररूढार्थप्रत्यायकत्वादश्रोतृसंस्काराधायकम् । अत आह-प्रसिद्धानि प्ररूढानि, नाधुना साध्यानीत्यर्थः । प्रमाणानि प्रत्यक्षादीनि, परोक्षगतभेदापेक्षया बहुवचनं व्यक्तिभेदे सामान्यमपि कथंचिद् भिद्यते इति दर्शनार्थम् । तथा हि। तदविवक्षितव्यक्तिकमेकरूपतां बिभर्ति प्रमाणमिति; व्यक्त्यवच्छेदेन पुनरवच्छिद्यमानं नानाकारतामादत्ते प्रत्यक्षानुमानशाब्दानि प्रमाणानीति, व्यक्तिव्यतिरिक्ताव्यतिरिक्तरूपत्वात्तस्य । तथा हि-शब्दाच्चक्षुरादेर्वा दूराद् वृक्ष इति प्रत्यये धवखदिरपलाशादिविशेषानपेक्षया साधारणं वृक्षत्वमेव चकास्ति, तस्मात् तेभ्यो भिन्नं तद्, व्यतिरेकिणाकारेण ज्ञाने प्रतिभासनाद् घटादिवत् । परिस्फुटद्धवखदिरपलाशादिविशेषावलोकनवेलायां तु न तदतिरेकिणा रूपेण प्रकाशते इत्यभिन्नम्, तदव्यतिरिक्तस्य संवेदनात्, तत्स्वरूपवत् । विशेषाभिन्नमेव रूपं तात्त्विकं सामान्यस्य, तस्यैव दाहपाकाद्यर्थक्रियाक्षमत्वात् । भिन्नं पुनः कल्पनाबुद्धिविठपितत्वादवस्तुरूपमिति चेत्, न, द्वयोः प्रकाशमानयोरेकस्य निह्नोतुमशक्यत्वात् । अन्यथा भिन्नमेव रूपं स्वभाविकमितरत्तु कल्पनाबुद्धिदर्शितमित्यपि वदतां न वदनभङ्गः स्यात् ।
परिमण्डलाः परमाणवः, तेषां भावः, यणि अनुशतिकादित्वात् उभयपदवृद्धौ पारिमाण्डल्यं वर्तु लत्वम्, न्यायकुमुदचन्द्र प्रभाचन्द्रेणाप्येवं व्याख्यातत्वात् । अन्ये तु पारिमाण्डल्यं परमाणुपरिमाणमेव इत्याहुः। नियतानियतेत्यादि । विजातीयेभ्यो व्यावृत्तत्वात् नियतः, सजातीयेभ्यश्चाव्यावृत्तत्वात् सर्व एवानियतः, ततो नियतानियतश्चासौ सामान्याकारश्चेति विग्रहः । एतौ प्रत्यक्षपरोक्षरूपौ । १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org