________________
NYAYAVATARAH
23
इतरथान्धकारनर्तनकल्पमनुमानमासज्येत निर्विषयत्वात् । किं च। तत्प्रामाण्य निर्णायकमनुमानं प्रमाणमप्रमाणं वा। न तावदप्रमाणम्, ततः प्रामाण्यासिद्धे।। नापि प्रमाणम्, तत्प्रामाण्यसाधकाभावात् । न हि प्रत्यक्षात् तसिद्धिः, विकल्पशून्यतयाकिंचित्करत्वात्, इत्युक्तम् । अनुमानात्तु तत्साधने विकल्पयुगलं तदवस्थमेवावतिष्ठते तत्प्रामाण्यसाधनेऽप्यनुमानकल्पना इत्यनवस्था । किं च । गृहीतसंबन्धस्यानुमानं प्रवर्तेत, संबन्धस्त्रिकालगोचरो ग्राह्यः, न च प्रत्यक्षं तं लक्षयितुं क्षमते, पूर्वापरक्षणत्रुटितरूपवार्तमानिकक्षणतदुत्तरकालभाविनो विकल्पस्यापि व्यावहारिकाभिप्रायेण तन्निष्ठताभ्युपगमात् । अनुमानाद् ग्रहीष्यति इति चेत्, ननु तदपि संबन्धपूर्वकं, प्रवर्तते. तद्ग्रहणेऽपीयं वार्ता इति अनवस्था । तस्मादनुमानमभिलषता गत्यन्तराभावात् तत्संबन्धग्रहरणप्रवणस्त्रिकालगोचरोऽव्यभिचारी वितर्कोऽभ्युपगन्तव्यः । तथा च प्रस्तुतद्वैविध्यस्य विघटितत्वात्, अन्यदपि यदेवंविधमविसंवादि ज्ञानं तत्प्रमाणमस्तु इत्यलं शुष्काभिमानेनेति । यदि पुनः साध्यार्थान्यथानुपपन्नहेतुसंपादितमनुमानमिष्येत, तदा प्रत्यक्षमनुमानं चेत्यपि द्वैविध्यं धटामटेदेव ; प्रत्यक्षव्यतिरिक्तज्ञानस्य सामस्त्येनानुमानेऽन्तर्भावसंभवात्, अन्यथानुपपन्नार्थान्तरमन्तरेण परोक्षार्थविषयप्रतीतेरभावादिति ।।
सांप्रतमन्यथा सूत्रावयवेनैव प्रकृतनियमकारणमाह-मेयविनिश्चयादिति । द्विधैवेति च काकाक्षिगोलकन्यायेनात्रापि संबन्धनीयम् । ततश्चायमर्थःद्वाभ्यामेव प्रकाराभ्यां मेयस्य ग्राह्यार्थस्य निश्चयात् स्वरूपनिर्णयात्, द्वे एव प्रमाणे न न्यूनमधिकं चेति । अयमत्राभिप्रायः-स्वसंवेदनं प्रति निखिलज्ञानानामेकरूपतया साक्षात्करणचतुरत्वात् नास्त्येव भेदः, बहिरर्थं पुनरपेक्ष्य कश्चिच्चक्षुरादिसामग्रीवललब्धसत्ताकः स्वावयवव्यापिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्तमलक्षितपरमाणुपारिमाण्डल्यं संनिहितं विशदनिर्भासं सामान्यमाकारं साक्षात्कुर्वाण: प्रकाशः प्रथते, तत्र प्रत्यक्षव्यवहारः प्रवर्तते । यः पुनलिङ्गशब्दादि
इतरेति । प्रतिषेध्यस्य शीतादेः। स्वाभावानुपलब्धिरिति दृश्यानुपलब्धिः । एकेत्यादि । एकस्य चक्षुरादिज्ञानस्य ग्राह्यं चक्षुरादिप्रणिधानाभिमुखं भूघटादिवस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसगि कथ्यते, तयोहि सतो कनियता प्रतिपत्तिः स्यात्, परिच्छेदयोग्यताया द्वयोरप्यविशेषात् । ज्ञाने वस्तुद्वयसंसर्गश्च तदाकारयोरेकस्मिन् ज्ञाने संसर्गाद् वस्तुनोरप्युपचारेण संसर्गव्यपदेशात् । तत एकस्मिन् ज्ञाने संसर्गः संबन्धो विद्यते यस्य भूतलादेर्घटादिनेति प्रकरणात् स्वयमूह्यम्, स चासौ पदार्थश्च तस्योपलम्भपरिच्छेदो रूपं यस्याः स्वाभावानुपलब्धेः सा तथा: केवलभूतलोपलम्भरूप इति यावत् । तद्देश एवेति । भूतलदेश एव । प्रतिद्वन्द्विनो घटादेः । स्वलक्षणाम्भोधीति । स्वलक्षणं प्रत्यक्षानुमाने, ते एव विकल्पस्य सामान्य विषयत्वेनाविषयत्वाद् अम्भोधिः । तत्स्वरूपं प्रत्यक्षानुमानस्वरूपम् । तदिति । तयोः प्रत्यक्षानुमानयोः। तत्प्रामाण्येति । तस्य प्रत्यक्षानुमानप्रामाण्य निर्णायकानुमानस्य । तत्साधन इति । प्रामाण्यनिर्णायकानुमानप्रामाण्यसाधने । तदवस्थमिति । तदप्यनुमानं प्रमाणमप्रमाणं चेति । पारिमाण्डल्यमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org