________________
22
VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1
बर्भा । यदि तद्विपरीतघटादिप्रतियोगिवस्त्वन्तरवैविक्त्यं तस्याकलयति नान्यथा, विजातीयव्यवच्छेदाभावे तस्यैव प्रतिनियतत्वासिद्धेः सकलसंकीर्णतया ग्रहणप्रसङ्गात्, अतोऽधिग्राह्याभावान्निर्विषयतयाभावाख्यं प्रमाणं यत् परैः पर्यकल्पि तदप्रमाणमिति स्थितम् ।
"
द्विधेत्यस्मिन् सत्यपि 'प्रत्यक्षं च परोक्षं च' इति नियतद्वैविध्यप्रदर्शनेन सौगतपरिकल्पितं ‘प्रत्यक्षमनुमानं चेति' द्वैविध्यमपक्षिपति, तदाकूतेन तस्यायोगात् । प्रत्यक्षातिरिक्त हि तादात्म्यतदुत्पत्तिलक्षण संबन्धोपलक्षितकार्यस्वभावानुपलब्धिरूपलिङ्गत्रयसंपादितजन्मकमनुमानमेव प्रमाणं न शब्दोहादिकमू, संबन्धविकलत्वादिति तदाकूतम् । अयुक्तं चैतत्, प्रत्यक्षानुमानातिरिक्तप्रमाणान्तराभावग्रहणोपायाभावात् । न तावत्प्रत्यक्षात् प्रमाणान्तराभावावगतिः, तस्य स्वलक्षणविषय - त्वेनाभावग्राहिताविरोधात् । नापि स्वभावकार्यानुमानाभ्याम्, तयोर्वस्तुसाधनत्वात् । नाप्यनुपलब्धेः, तस्या अप्यत्यन्ताभावसाधनविरोधात् । सा हि चतुर्विधा वर्ण्यते मूलभेदापेक्षया, तद् यथा - विरुद्धोपलब्धिविरुद्धकार्योपलब्धिः कारणानुपलब्धिः स्वभावानुपलब्धिश्चेति । न तावद्विरुद्धोपलब्धेः प्रमाणान्तरस्यात्यन्ताभावः । दृश्यात्मनो विरुद्धस्य विधानेन इतराभावसाधनात्, संनिहितदेश एव प्रतियोग्यभावसिद्धेः । एतेन विरुद्ध कार्यानुपलब्धिरपि व्याख्याता, तस्या अपि प्रतिषेध्यविरोधिसंनिधापनद्व । रेणाभावसाधकत्वात् । कार्यानुपलब्धिरपि तद्देशाशङ्कितकार्यस्यैवाभावं साधयति न सर्वत्र, स्वयमसिद्धत्वात् । स्वभावानुपलब्धिरप्येकज्ञानसंसगिपदार्थोपलम्भरूपा तद्देश एव प्रतिद्वन्द्व्यभावं गमयति । अतः प्रमाणान्तरस्यापि क्वचिन्निषेधः स्यात् न सर्वत्र । तन्न प्रमाणान्तरबाधकं समस्ति । प्रत्यक्षानुमानयोश्च प्रामाण्यं कुत इति चिन्त्यम् । न तावत्प्रत्यक्षात् निर्विकल्पकतया सतोऽप्यसत्कल्पत्वात् । तत्पृष्ठभावी विकल्पस्तु न स्वलक्षणाम्भोधिमध्यमवगाहते, तत्कथं तत्राप्रविष्टस्तत्स्वरूपं निश्चिनुयात् । अप्रमाणभूताच्च तस्मात्प्रामाण्यनिर्णय इति निबिडजडिमाविष्करणं भवताम् । अनुमानात्प्रामाण्यनिर्णय इति चेत्, न तस्यापि स्वलक्षणाद् बहिः प्लवनात् । अप्रामाण्यव्यवच्छेदस्तेन साध्यते इति चेत्, न, व्यवच्छेदस्य व्यवच्छिन्नाव्यतिरेकात्,
तस्य
तदिति । प्रमाणस्य । तस्यापि प्रमाणान्तरस्य । एवमिति । श्रमुना यदित्यादिना वक्ष्यमाणप्रकारेण तद्विपरीतेति । ततो भूताद्विलक्षणम् । वैविक्त्यं राहित्यम् । तस्य भूतलस्य ।
तद्यथेत्यादि । विरुद्धोपलब्धिर्यथा - नात्र शीतस्पर्शः, अग्नेरिति १ । विरुद्धकार्योपलब्धिर्यथा — नात्र शीतस्पर्शः, धूमादिति २ । कारणानुपलब्धिर्यथा - नात्र धूमः, अग्न्यभावादिति ३ । स्वाभावानुपलब्धिर्यथा - नात्र धूमः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ४ । शेषास्तु सप्तादि अनुपलब्धयो धर्मबिन्दुप्रभृतिशास्त्रप्रतिपादिता एष्वेव चतुर्षु भेदेष्वन्तर्भवन्ति इति प्रतिभेदरूपत्वान्न न पृथगभिहिताः । दृश्यात्मन इति । दृश्यस्वरूपस्य विरुद्धस्य वह्नयादेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org