SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ NYAYAVATARAḤ अत्रोच्यते । भावांशादभावांशस्तर्हि अभिन्नो भिन्नो वा ? अभिन्नश्चेत्, कथमग्रहणम्, भावांशादव्यतिरिक्तत्वादेव, तत्स्वरूपवत् । भिन्नश्चेत्, घटाद्यभावविनिर्लुठितं भूतलमाद्यदर्शनेन गृह्यते इति घटादयो गृह्यन्ते इति प्राप्तम्, तदभावाग्रहणस्य तद्भावग्रहणानान्तरीयकत्वात् । तथा च अभावेऽपि पश्चात् - प्रवर्तमानस्तानुत्सारयितुमपटिष्ठः स्यात्, अन्यथा प्रत्यक्षमसंकीर्णस्य संकीर्णताग्रहणात् भ्रान्तमापनीपद्येत । किं च । प्रमाणाभावादर्थाभावोऽभावप्रमाणेन साध्यते इति भवतोऽभिप्रायः प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥१॥ Jain Education International इति वचनात् । तद्युक्तम् । यतः प्रमाणाभावः कथं ग्राह्यः ? तद् ग्राहकप्रमाणान्तराभावादिति चेत्, तस्याप्यभावग्रहणे तद्ग्राहक प्रमाणान्तराभावो ग्राह्य इत्यनवस्था । श्रथ अर्थाभावात्प्रमाणस्य प्रमाणाभावाच्चार्थस्याभावः प्रतिपद्यत इति मन्येथाः, तदेतदितरेतराश्रयं दुर्घटमापद्येत । न यावदर्थाभावो गृहीतः तावत्प्रमाणाभावः सिध्यति, अर्थाभावः प्रमाणाभावात्सेत्स्यतीत्यावर्तनात् । अथेन्द्रियवत् स्वयमविज्ञातोऽपि प्रमाणाभावोऽर्थाभावं ज्ञापयिष्यतीत्यभिदधीथाः, तदयुक्तम्, तस्य तुच्छतया सकलशक्तिविरहलक्षणत्वात् इन्द्रियस्य तु तद्विपर्यस्त - तयाँ ज्ञानोत्पादनक्षमत्वात् । तस्मात् प्रत्यक्षमेव भूतलादिप्रतिनियतवस्तुग्राहितां 21 ( श्लो० वा० पृ० ४७३ ) वस्त्वसंकरसिद्धिश्च तत्प्रामाण्य समाश्रिता । क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ||२|| नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ||३|| शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवजिताः । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ||४|| क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः । शशशृङ्गं पृथिव्यादी चैतन्यं मूर्तिरात्मनि ||५|| प्रप्सु गंधो रसश्चाग्नो वायौ रूपेण तौ सह । व्योम्नि संस्पर्शिता ते च न चेदस्य प्रमाणता ॥ ६ ॥ For Private & Personal Use Only ततोऽभावस्य वस्तुत्वे तद्ग्राहकं षष्ठं प्रमाणमभ्युपगन्तव्यमिति । विनिर्लुठितम् रहितम् । तदभावेत्यादि । घटाभावपरिच्छेदस्य घटसद्भावज्ञानपरतन्त्रत्वात् । तान् घटादीन् । असंकीर्णस्य केवलभूतस्य । संकीर्णता घटादिसाहित्यम् । प्रमाणपश्वकमित्यादि । वस्तुनो भावरूपस्य सत्तावबोधार्थं प्रमाणपञ्चकं यत्र वस्तुमात्रे नोत्पद्यते, तत्र घटादिविषयेऽभावस्य प्रामाण्यम् । क्वचिद् 'वस्त्वसत्तेति पाठः, सत्वभावप्रमाणतेत्यनेन संबन्धनीयः । (इलो० वा० पृ० ४७३-४७४) www.jainelibrary.org
SR No.522601
Book TitleVaishali Institute Research Bulletin 1
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherResearch Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
Publication Year1971
Total Pages414
LanguageEnglish, Hindi
ClassificationMagazine, India_Vaishali Institute Research Bulletin, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy