________________
VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1
नुमानान्तर्भावसंभवेऽपि यं यं प्रति परेषां विप्रतिपत्तिस्तं तं परोक्षान्निष्कृष्य विविक्तयुक्त्युपन्यासेन तस्य तस्य प्रामाण्यमावेदनीयम् । तथा च शास्त्रान्तरे यहादीनां लक्षणं अकारि आचार्यैस्तद् युक्तमेवेत्युक्तम् भवति । कथं तहि मीमांसकपरिकल्पितोऽभावो न प्रमाणम् ? निर्गोचरत्वादिति ब्रूमः । तथा हिप्रत्यक्षमेवान्वयव्यतिरेकद्वारेण भूतलमेवेदं घटादिर्नास्तीति वस्तुपरिच्छेदप्रावीयमाविभ्राणं तदधिकग्राह्यार्थाभावात् प्रमाणान्तरं परिकल्प्यमानं निरस्यतीति किं नश्चिन्तया ? तस्य सदसद्रूपवस्तुग्राहिणः प्रतिप्रारिण प्रसिद्धत्वात् । अथ कदाचिदभिदध्यात्, अध्यक्षं भावांशमेवाकलयति, इन्द्रियद्वारेणोत्पत्तेः, तस्य च भावांशे एव व्यापारात्, नास्तिताज्ञानं तु वस्तुग्रहणोत्तरकालं प्रतियोगिस्मरणसद्भावे मानसमक्षव्यापारनिरपेक्ष मुन्मज्जति ।
तदुक्तम्—
20
न तावदिन्द्रियेणैषा' नास्तीत्युत्पाद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥
Jain Education International
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ १ ॥ इति
( श्लो० वा०, पृ० ४७६ )
स्यादिति । एवं यथाबुद्धि संप्रदायमुपमानादिष्वन्यथानुपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थवेदनचतुरत्वं भावितम् श्रन्यथापि कुशल रैभ्यूह्यमिति । आहत्येति । पूर्वपक्षादिभिनिष्टङ्कय । ऊहादीनां लक्षणमकारीति । यथा - उपालम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः, यथेदमस्मिन् सत्येव भवति प्रसति न भवत्येवेति च । श्रादिशब्दात्संस्कारोद्बोधनिबन्धना तदित्याकारा स्मृतिः, यथा स देवदत्त इति । दर्शनस्मरणकारणकं संकलनं प्रत्यभिज्ञानम्, यथा तदेवेदमिति । मीमांसककल्पित इत्यादि । ते ह्येवमाहुः - प्रत्यक्षादिप्रमाणपञ्चकग्राह्याद् भावाद् भिन्नत्वादभावस्य ग्राहकं पृथगेवाभावप्रमारणम् । न चाभावस्यावस्तुत्वेन तद्ग्राहक प्रमाणाभावः, अभावस्यावस्तुत्वे प्रागभावादिभेदानुपपत्तेः, यदवस्तु न तस्य भेदः, यथा खपुष्पादेः, प्रस्तित्वाभावस्य भेदः प्रागभावः प्रध्वंसाभावोऽन्योन्याभावोऽत्यन्ताभावश्चेति । कि च अभावस्यावस्तुत्वेऽर्थानामसांकर्यं न स्यात् श्रसांकर्यहेतोः प्रागभावादेरवस्तुतयासत्त्वात्, तथा च प्रतिनियतव्यवहाराभावः ।
तदुक्तम्—
१. मुद्रित पुस्तके "इन्द्रियरेषा" इति पठ्यते ।
( श्लो० वा०, पृ० ४८२ )
न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता । कार्यादीनामभाव: को भावोः कारणादिनः || १||
(श्लो० वा० पृ०, ४७४)
For Private & Personal Use Only
www.jainelibrary.org