________________
NYAYĀVATĀRAH
19 पुंसः स्मरणानुपपत्तेरिति । ऊहोऽपि प्रत्यक्षानुमानासंवेद्यसाध्यार्थान्यथानुपपन्नत्वलक्षणलिङ्गसंबन्धग्रहणप्रवणः प्रमाणान्तरमिति कथयिष्यते। अर्थापत्तिस्तु प्रत्यक्षादिगोचरीकृते स्फोटादिपदार्थान्यथानुपपत्त्या दहनशक्त्यादिकं पावका देरर्थान्तरं पूर्वदर्शनगोचरात् समधिकमव्यभिचरितं परिकल्पयतीति प्रमाणतां स्वीकरोत्येव तल्लक्षणयोगात् । एवमन्यदपि प्रत्यक्षगोचराधिक्यसंपादकं निराकाङ्क्षतया व्यवहारकारि यत्संवेदनं तत्तत्प्रमाणमिति समर्थनीयम्, स्वपरप्रकाशिनिधित्वात्, पूर्वापरसोपानपद्धतिदर्शनोत्तरकालभावि तत्संख्यासंवेदनवत् । सर्वेषां चैतेषांपरोक्षेऽन्तर्भावः, अन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थसंवेदनचतुरत्वादिति । किंचिद्विशेषात्तु प्रमाणान्तरपरिकल्पने प्रमाणेयत्ता विशीर्येत, आनन्त्यप्राप्तेः, आवरणक्षयोपशमविचित्रतया ज्ञानप्रवृत्तेविचित्रत्वादिति । ननु चैवं सति यत्परोक्षस्य द्वैविध्यं वक्ष्यमाणमनुमानशाब्दभेदेन तदपि कथमुपपत्स्यते, तत्रापि ह्याप्तप्रणीतवचनप्रभवज्ञानस्यार्थान्यथानुपपन्नत्वेनानुमानान्तभावो न दुरुपपादः । ततश्चानुमानमेवैकमवशिष्यते तदेव परोक्षशब्देन यद्युच्येत युक्तमास्ते, विदुषामभिधानं प्रत्यनादरात्; सत्यमेतत्, एवं तु मन्यते तद् यद्यपि कयाचित्प्रकिययानुमानान्तभवयितुं शक्यं शाब्दम्, तथापि तत्प्रति विप्रतिपद्यन्ते परे। अतस्तस्याहत्य प्रामाण्यं समर्थनीयम् । न चापृथग्भूतस्य तद्विविक्त वक्तुं शक्यम्, अतः पार्थक्येनोपन्यासः । अनेन चैतदुपलक्षयति-अन्येषामपि परोक्षविशेषाणाम
दभ्यासादिपरिग्रहः । तथा च न्यायशास्त्रम्-प्रणिधाननिबन्धाभ्यासलिङ्गसादृश्यपरिग्रहाश्रयाश्रितसंबन्धानन्तर्यवियोगककार्याविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषक्रियाथित्वरागधर्माधर्मनिमित्तेभ्य (गौ० ३-२-४३) इति । एतद्व्याख्या च तत एव न्यायशास्त्रादवगन्तव्या, इह तु नोच्यते, सुगमत्वात् ग्रन्थगौरवभयाच्च । अनुभूतो विषयो येन तदनुभूतविषयं ज्ञानं तस्यासंप्रमोषोऽभ्रंशो ज्ञानानुवृत्तिरिति यावत्, स एव लक्षणं यस्य तत्तथा। ऊहोपीत्यादि । प्रत्यक्षानुमानाभ्यामसंवेद्यः साध्यार्थान्यथानुपपन्नत्वस्वरूपो यो लिङ्गस्य साध्येन सार्ध संबन्धस्तस्यादाने सज्जस्तत्पर इति यावत् । तल्लक्षरणयोगादिति । प्रमारणलक्षणोपपत्तेः । सर्वेषामित्यादि । एतेषामुपमानादीनाम् । तथा हि-एवमुपमानेऽन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थवेदनचतुरत्वं स्मर्य माणदृश्यमानयोर्गोगवयपिण्डयोरविलक्षणविषाणाद्यवयवयोगित्वमन्यथा नोपपद्यते, यदि तयोः किंचित्सारूप्यं न स्यात् । एवं प्रत्यभिज्ञाने इदानीं दृश्यमानः पर्यायोऽन्यथा नोपपद्यते, यदि पूर्वानुभूतः परंपरया एतस्य कारणभूतो द्रव्यरूपतयतदात्मा पर्यायो न स्यात् तथा स्मरणेऽपि संस्कारोऽन्यथा नोपपद्यते, यदि पूर्वानुभवो न भवति । संस्कारप्रबोधश्च पूर्वानुभवस्मारकः क्वचित्तादृशदर्शनेन, क्वचिच्चाभोगादिभिरिति प्रागेवाभिहितम् । एवमूहेऽपि कतिपयधूमधूमध्वजव्यक्तीनामव्यभिचरितं साहचर्य प्रत्यक्षेणोपलभ्यमानमन्यथा न जाघटीति, यदि सर्वत्र धूमाग्निव्यक्त्योरन्यथानुपपन्नत्वलक्षण: संबन्धो न स्यात् । अर्थापत्तौ तु वह्निसंयोगात्करतलगतं स्फोटलक्षणं कार्य प्रत्यक्षेणोपलक्ष्यमाणमन्यथा नोपपद्यते, यदि वह्नः काचिद्दाहिका शक्तिर्न स्यात् । पूर्वापरसोपानपद्धतिदर्शनोत्तरकालभाविशतादिसंख्यासंवेदने तु पर्यन्तसोपानानुभवः पूर्वानुभूतनवनवत्यादिसोपानसंस्मरणसंवलितोऽन्यथा न संगच्छते, यदि शतादिसंख्या सोपानानां न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org