________________
18 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 पिण्डं पिण्डविशिष्टं सादृश्यं गोचरयत्संवेदनमुदीयते तदुपमानमिति । यदाहुस्तद्वादिनः
तस्माद्यदृश्यते' तत्स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम्॥१।। इति ।
(श्लोकवातिके ४४४ पृष्ठे) ततश्च पूर्वापरदर्शनयोः पुरोवर्तिगोगवयपिण्डग्रहणपर्यवसितसत्ताकत्वात् पूर्वापरपरामर्शशून्यत्वाद् विशदनिर्भासितया शब्दोल्लेखरहितत्वात् तदधिकमव्यभिचरितं व्यवहारकारि सादृश्यमवस्यदुपमानं स्वपरप्रकाशितया निर्बाधकत्वाच्च प्रमाणम् । पूर्वापरपिण्डातिरिक्तमपरं सादृश्यं नोपलभ्यते इति चेत्, कोऽयमुपालम्भो यदि प्रत्यक्षं तत् । यदि प्रत्यक्षे सादृश्यमुपमानगोचरत्वान्न प्रतिभाति, कोऽस्यापराधः । न हि ज्ञानान्तरे तद्गोचरो न प्रतिभातीति निर्गोचरं तदिति वक्तं शक्यम्, इतरथोपमानेऽपि प्रत्यक्षनि ह्या व्यक्तिर्न भातीति निर्गोचरमध्यक्षमनुषज्येत । तद् यथा स्वविषयेऽध्यक्षं प्रमाणं तथोपमानमपि । न हि द्वयोः प्रथमानयोरेकं प्रति विशेषाभावे पक्षपातः कर्तुं युक्तः । एतेन प्रत्यभिज्ञाज्ञानस्मत्यहादीनामविसंवादकानां परोक्षविशेषाणां प्रामाण्यं व्याख्यातमवगन्तव्यम्, समानन्यायानुपातित्वात् । तथा हि-प्रथममर्थदर्शनमात्मनि संस्कारमाधत्ते, तादृशदर्शनादसौ संस्कारः प्रबुध्यते, प्रबुद्धः पूर्वार्थविषयं स एवायं तज्जातीयो वेत्युल्लेखेन प्रत्यभिज्ञानमुत्थापयति, तस्योर्ध्वतिरश्चीनभेदसामान्यव्यवस्थापकत्वाद असंजातपूर्थिगोचरदर्शनस्य तदुदयाभावात्, तथा स एव संस्कारस्तादृशार्थ दर्शनेनाभोगादिना वा प्रबुद्धोऽनुभूतविषया संप्रमोषलक्षणं स्मरणमुपजनयति, अदृष्टार्थस्य
पिण्डमिति । पिण्डशब्दः शरीरवृत्तिः पुनपुंसकः । यदुक्तम्-'मधुपिण्डौ सुरातन्वोरिति' । यदिति । गवयपिण्डम् । दृश्यते इति । अटव्यामटता पुसेति शेषः । सादृश्यं चेति । गोगवयगतम् । तदन्वितमिति । गोगवयपिण्डसंबद्धम् । तदधिकं गोगवयप्रत्यक्षमाह्यादुत्कलितम् । अवस्यत् निश्चिन्वत् । ज्ञानान्तर इति । प्रत्यक्षे । तद्गोचरः उपमानविषयः । ददिति । उपमानम् । व्यक्तिः स्वलक्षणम् । तत् तस्मात् । एतेनेति । उपमानप्रामाण्यव्यवस्थापनेन । तस्येत्यादि । ननु किमिति संस्कारः स एवायं तज्जातीयो वेति द्वध प्रत्यभिज्ञाज्ञानं जनयति ? पाह-तस्य प्रत्यभिज्ञाज्ञानस्य परापरविवर्तव्यापि द्रव्यमूर्वसामान्य मृदिव स्थासकोशादिषु सदृशपरिणामः, तिरश्चीनसामान्यं खण्डमुण्डादिषु गोत्ववत्, तयोद्वंयोरपि निर्णायकत्वात् । यदि पुन, प्रत्यभिज्ञाज्ञानं नोज्जम्भते, तदोर्ध्वतिरश्चीनभेदभिन्नसामान्यव्यवस्था न स्यादिति । अथ पूर्वमर्थदर्शनम्, ततः संस्कारः, ततस्तस्य प्रबोधः, तदनु प्रत्यभिज्ञाज्ञानमिति परंपराश्रयणनिबन्धनाभावात् प्रथमाक्षसंनिपाते एव प्रत्यभिज्ञाज्ञानं कि नोत्पद्यते इत्याह-न संजातं पूर्वार्थगोचरं दर्शनं यस्य तस्य पुंसः प्रत्यभिज्ञाज्ञानोदयाभावात, प्रत्यभिज्ञाज्ञानं हि तादृशदर्शनत: संस्कारप्रबोधे, स च सति संस्कार, संस्कारश्च पूर्वमर्थदर्शने एवेति । आभोगादीत्यादि । प्राभोगः प्रणिधानमवधानमिति यावत्, प्रादिशब्दा
[१ मुद्रितपुस्तके "स्मर्यते” इति पठ्यते ।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org