________________
17
NYAYAVATĀRAŇ विशेषदर्शनाद बोधविशेषावगतौ परोक्षस्य प्रामाण्यं बलादापततीति न्यायात् । स्वर्गादृष्टदेवतादिप्रतिषेधं न प्रत्यक्षेण कर्तुमर्हति, तस्य संनिहितमात्रविषयत्वात् । न चायं तदप्रतिषेधेन खरखरकचार्वाकतामाप्नोति, प्रमाणान्तरं च तत्प्रतिषेधार्थ च नेच्छतीति विषममेतत्कथं कुर्यादिति सविस्मयं नश्चेतः । किं च । प्रत्यक्षमपि कथं प्रमाणतां स्वीकरोतीति वक्तव्यम्, गृह्यमाणपदार्थान्वयव्यतिरेकानुकरणात् । तथा हि-तत्समग्रसामग्रीकपदार्थवलेनोन्मज्जति, तदभावे विस्फारितेक्षणयुगलस्यापि प्रमातुर्नोदीयते इति ब्रूष, परोक्षेऽपि तर्हि समानमेवैतत्, तदपि बहिरर्थसामर्थ्यादेवोल्लसति, तत्संबद्धलिङ्गशब्दद्वारेण तस्योत्पत्तेः, अन्यथा परोक्षाभासताप्रसङ्गात् । तस्य चालीकत्वे पारमार्थिकपरोक्षप्रामाण्यक्षतेरयोगात्, अन्यथा प्रत्यक्षमपि गगनतलावलम्बिशशधरयुगलावलोकनचतुरमलीकमवलोकितमिति । सकलविशददर्शनानि सत्यताभिमतान्यप्यलीकतामश्नुवीरन् । तन्न प्रमाणभूतं परोक्षं कदाचन गृह्यमाणपदार्थसत्तां विहायोत्पत्तुमुत्सहेत, इति प्रत्यक्षवत्प्रमाण कोटिमारोहति बलादिति स्थितम् ॥ तथा यदपि परैरुक्तद्वयातिरिक्तं प्रमाणसंख्यानन्तरं प्रत्यज्ञायि, तत्रापि यत्पर्यालोच्यमानमुपमानार्थापत्तिवत्प्रमाणतामात्मसाक्षात्करोति, तदनयोरेव प्रत्यक्षपरोक्षयोरन्तर्भावनीयम् । यत्पुनर्विचार्यमाणं मीमांसक परिकल्पिताभाववत्प्रामाण्यमेव नास्कन्दति, न तेन बहिर्भूतेन वा किंचिन्नः प्रयोजनम् अवस्तुत्वादित्यपकर्णनीयम् । अथ कथमुपमानस्य प्रामाण्यमिति ब्रूषे । तदुच्यते। प्रथमं हि विशददर्शनाधिगतोपिण्डविशेषस्य 'यथा गौस्तथा गवयः' इति वाक्याकर्णनाहितात्मसंस्कारस्य पुंसोऽटव्यां पर्यटतो गवयपिण्डविशेषविषयविविक्तदर्शनपुरःसरं यत्पूर्वापरगोगवयपिण्डगोचरदर्शनव्यापारसंपादितजन्मकम् 'अयं तेन सदृशोऽनयोर्वा सादृश्यमिति' सादृश्यविशिष्ट एनमेव च न्यायमाह-प्रत्यक्षेणेत्यादि । अध्यक्षेण प्रतिपाद्यचेतोवृत्तेः प्रत्यक्षीकरणाभावात् गोबलीवर्दन्यायेन व्यापारशब्देन चेष्टाविशेषादन्यैव क्रिया गृह्यते, अन्यथा चेष्टाविशेष इति पुनरुक्तं स्यात् । व्याहारशब्द: चेष्टाविशेषोऽक्षिपक्ष्मसंकोचादिविशिष्टकायिको व्यापारः, तेषां दर्शनात् । बोधविशेषस्य प्रतिपाद्याभिप्रायस्यावगतावभ्युपगम्यमानायां हठात्परोक्षस्य प्रामाण्यमागच्छति । अयमभिप्रायः-प्रतिपाद्यस्यावबोधो भवतु, एतदथं चार्वाको वचनमुच्चारयति; परस्य च सचेतनतया स्तम्भाम्भोरुहादिभ्यो वैलक्षण्य मिदं च बोद्धमभिप्रेतमिति नाध्यक्षेण लक्षयितुं क्षमते, व्यापारादिदर्शनात् प्रतिपाद्यस्य चैतन्याभिप्रायविशेषयोरवगतावङ्गीक्रियमाणायां परोक्षस्य प्रामाण्यं बलादायातीति । अदृष्टेति । पुण्यपापे । उन्मज्जति उत्पद्यते । उदीयते । ईङ् गती देवादिकः उदेतीत्यर्थः । तत्संबद्धेति । अनुमेयवाच्यरूपेण बाह्यार्थेन संबद्धौ लिङ्गशब्दो। यथा गौरित्यादि । यदुक्तम्
कीडग्गवय इत्येवं पृष्टो नागरकैर्यदा । ब्रवीत्यारण्यको वाच्यं यथा गौवयस्तथा । इति ।
(श्लोकवार्तिके ४३३ पृष्ठे)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org