________________
16 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I तिरस्कुरुते, तस्य युक्तिबाधितत्वात् । तथा हि-प्रत्यक्षमेवैकं प्रमाणमित्यसत्, परोक्षाभावे तस्यैव प्रामाण्यायोगात्। स हि काश्चित्प्रत्यक्षव्यक्तीरर्थक्रियासमर्थार्थप्रापकत्वेनाव्यभिचारिणीरुपलभ्यान्यास्तविपरीततया व्यभिचारिणीश्च, ततः कालान्तरे पुनरपि तादृशेतराणां प्रत्यक्षव्यक्तीनां प्रमाणतेतरते समाचक्षीत । न च पूर्वापरपरामर्शशन्यं पुरोवर्त्यर्थग्रहणपर्यवसितसत्ताकं प्रत्यक्षं पूर्वापरकालभाविनीनां प्रत्यक्षव्यक्तीनां सादृश्यनिवन्धनं प्रामाण्यमुपलक्षयितुं क्षमते । न चायं स्वप्रतीतिगोचराणामपि प्रत्यक्षव्यक्तीनां प्रामाण्यं परं प्रतिपादयितुमीशः । तस्मादवश्यंतया यथादृष्टप्रत्यक्षव्यक्तिसाधर्म्यद्वारेणाधुनातनप्रत्यक्षव्यक्तीनां प्रामाण्यप्रत्यायकं परप्रतिपादकं च परोक्षान्तर्गतमनुमानरूपं प्रमाणान्तरमुररीकर्तव्यम्। परावबोधार्थं च प्रत्यक्षमेवेकं प्रमाणंनान्यदस्ती त्युल्लपन उन्मत्ततामात्मनो लक्षयति । प्रत्यक्षेण परचेतोवत्तिसाक्षातकरणाभावाद व्यापारव्याहारचेष्टा
प्रमोणमाहुः अतो नियतद्वैविध्यप्रदर्शनेन एकत्वबहुत्वे प्रमाणस्य प्रतिक्षिपति। एवं चायमेवकारस्त्रिधा, प्रयोगान्ययोगात्यन्तायोगव्यवच्छेदकारित्वात् । यद् विनिश्चयः
अयोगं योगमपरैरत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥१॥ इति । निपात एवकारः, व्यतिरेचको निवर्तकः।
विशेषणविशेष्याभ्यां क्रियया च सहोदितः । विवक्षातोऽप्रयोगेऽपि तस्यार्थोऽयं प्रतीयते ॥२॥ व्यवच्छे दफलं वाक्यं यतश्चैत्रो धनुर्धरः ।
पार्थो धनुर्धरो नीलं सरोजमिति वा यथा ॥३॥ इति । स होत्यादि । स प्रत्यक्षकप्रमाणवादी चार्वाकः । तादृशेतराणामिति । तादृश्यश्चेतराश्चेति द्वन्द्व पुंवद्भावाभावात् कथमिदमिति न वाच्यम्, सामान्यविशेषभावेन संबन्धात्, यथा-भूतमियं ब्राह्मणीति । तथा च माघः
तदवितथमवादीर्यन्मम त्वं प्रियेति
प्रियतमपरिभुक्तं यदुकूलं दधानः । मदधिवसतिमागाः कामिनां मण्डनश्रीव्रजति हि सफलत्वं वल्लभालोकनेन ॥इति।।
(शिशु० ११-३३) प्रत्र हि सफलस्य भावः सफलत्वम्, ततः किं सफलत्वं याति इत्याकाक्षायां मण्डनश्रीरिति संबन्धः । तथात्रापि समाचक्षीत चार्वाक:-के प्रमाणेतरते । केषां तादृशेतराणाम् । इति जिज्ञासायामभिधीयते-प्रत्यक्षव्यक्तीनाम् । क्वचित्ताशीतराणामित्यपि पाठो दृश्यते । अयम् चार्वाकः ।
परावबोधार्य चेत्यादि । प्रत्यक्षमेवैकं प्रमाणं नान्यदस्तीत्येतत् प्रतिपाद्यावबोधार्थमुल्लपन उन्मत्ततामात्मनो लक्षयतीति संबन्धः। कुत इति । एतस्माद् न्यायात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org