________________
NYĀYĀVATARAḤ
स ह्येवं व्युत्पादितोऽपि साक्षाद् ग्राह्यग्राहकं ज्ञानविशेषं लक्षयति, तत्रैव रूढत्वात्, यथा गमनक्रियायां व्युत्पादितोऽपि गोशब्दः ककुदादिमन्तं पिण्डविशेषं गच्छन्तमगच्छन्तं वा गोचरयति, तत्रैव तस्य प्रसिद्धत्वात्, न गमन क्रियायुक्तमपि पुरुषादिकं विपर्ययादिति । ततश्च सर्वज्ञज्ञानानां यत्स्वरूप संवेदनं तदपि प्रत्यक्षमित्युक्त भवति । तत्रापि स्वरूपस्य ग्राह्यस्य साक्षात्करणसद्भावादिति । अक्षेभ्यः परतो वर्तते इति परोक्षम्, अक्षव्यापारनिरपेक्षमव्यापारेणासाक्षादर्थपरिच्छेदकं यज्ज्ञानं तत्परोक्षमिति भावः । चशब्दौ प्रत्यक्ष परोक्षयोस्तुल्यकक्षतां लक्षयतः । तेन यत्परे प्राहुः प्रत्यक्षं सकलप्रमाणज्येष्ठमित्यादि तदपास्तं भवति, द्वयोरपि प्रामाण्यं प्रत्यविशेषात्, विशदाविशदप्रतिभासविशेषस्य सतोऽपि ज्येष्ठतां प्रत्यनङ्गत्वात् । प्रत्यक्षस्य पुरःसरत्वात्परोक्षस्य कनिष्ठतेति चेत्, नायमेकान्तः, सर्वत्रान्यथानुपपन्नतावधारितोच्छ्वासनिःश्वासादिजीवलिङ्गसद्भावासद्भावाभ्यां जीवसाक्षात्कारिप्रत्यक्षक्षूणेऽपि जीवन्मृत्तप्रतीतिदर्शनात्, अन्यथा लोकव्यवहाराभावप्रसङ्गात् । क्वचित् प्रत्यक्षगृहीतसंबन्धवलात्परोक्षं प्रवर्तत इति प्रत्यक्षस्य ज्येष्ठत्वकल्पने पश्य मृगो धावतीत्य) दिशब्दवलात्कृका टिकामोटनद्वारेण मृगविषयं तथा स्मरणात्संकेतग्रहणाद्वा अपूर्वा पूर्वार्थदर्शनकुतूहलादिना वनदेवकुलादिगोचरं परोक्षपूर्वं प्रत्यक्षं दृष्टमिति परोक्षस्य ज्येष्ठता सज्येत ।
द्विधेति । सर्वं वाक्यं सावधारणं प्रवर्तते इति न्यायात्, अन्यथानियतार्था प्रदर्शकत्वेन तदुच्चारणवैयर्थ्यप्रसङ्गात् विपरीताकारनिराकरणचातुर्यायोगेन निरा काङ्क्ष प्रवृत्त्यसिद्ध ेः द्विधैव इत्यवधारणेन परपरिकल्पितविपरीत संख्यान्तरं
15
प्रक्षं प्रतिगतं प्रत्यक्षमिति । श्रक्षशब्दस्य नपुंसकत्वात् तत्पुरुषस्य चोत्तरपदप्रधानत्वात् नपुंसकत्वमेव प्राप्तमिति न वाच्यम्, परलिङ्गोद्वन्द्व - इत्यधिकारे प्रशीति सिद्धमलिङ्गानुशासन सूत्रेण श्रंश्येव तत्पुरुष उत्तरपदलिङ्गभाक् यथा - पिप्पल्या अर्धपिप्पलीयम् श्रर्धी जरत्या श्रधंजरतीयम् । तेनान्यत्र वाच्यलिङ्ग एव तत्पुरुषः । तत्र प्रत्यक्षो बोधः प्रत्यक्षा बुद्धिः प्रत्यक्षं ज्ञानम् ।। उज्जिहीते उत्पद्यते । विपर्ययात् पुरुषादौ गोशब्दस्यासिद्धत्वात् । तथा स्मरणादित्यादि । अपूर्वा पूर्वार्थदर्शनविषये कुतूहलेन श्रादिशब्दात्प्रयोजनादिना कृत्वा हेतुना वा वनविषयं देवकुलादिविषयं वा परोक्षपूर्वमध्यक्षमीक्षितम्, कुतूहलाद्यपि कुत इत्याह- स्मरणात्, अनुभूतमर्थं हि स्मृत्वोत्पन्न कुतूहल: पुमान् प्रवर्तते इति तथा संकेतग्रहणात्, गृहीतसंकेतो हि संकेतिते स्थाने जातदिदृक्षो
द्रष्टुं प्रवर्तते ॥
द्विषेति । सवं वाक्यं सावधारणमित्यादि । श्रत्र केचिदाहुः - यथा श्रत्र द्विषेत्युक्ते द्विषैव न त्वेकधा त्रिधा वेत्येवमन्ययोगव्यवच्छेद:, तथा चैत्रो धनुर्धर इत्यादिष्वपि चैत्रस्य धनुषं रत्वमेव स्यात् न शौयौदार्यधैर्यादयः । तदयुक्तम्, यतः सर्वं वाक्यं सावधारणमिति न्यायेऽप्याशङ्कितस्यैव व्यवच्छेदः । परार्थं वाक्यमभिधीयते, यदेव च परेण व्यामोहादाशङ्कितं तस्यैव व्यवच्छेदः, चैत्रो धनुर्धर इत्यादौ चैत्रस्य धनुर्धरत्वायोग एव परेराशङ्कित इति तस्यैव व्यवच्छेदो नान्यधर्मस्य । इह तु चार्वाकनैयायिकादय ऐकध्यमनेकधा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org