________________
14 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I निर्बाधकं च प्रमाणं न संनिकर्षादि, तत्सद्भावेऽप्यर्थपरिच्छेदाभावात् । तस्मा. देतदेव चारु प्रमाणलक्षणमिति ।।
अधुना तत्संख्यामाह-प्रत्यक्ष चेत्यादि । तत्र सिद्धान्तप्रसिद्धपारमार्थिकप्रत्यक्षापेक्षयाक्षशब्दो जीवपर्यायतया प्रसिद्धः, इह तु व्यावहारिकप्रत्यक्षप्रस्तावादक्षध्वनिरिन्द्रियवचनो गृह्यते ।
ततश्चाक्षं प्रतिगतं प्रत्यक्षम् । यदिन्द्रियमाश्रित्योज्जिहीतेऽर्थसाक्षात्कारि ज्ञानं तत्प्रत्यक्षमित्यर्थः । एतच्च प्रत्यक्षशब्दव्युत्पत्तिनिमित्तं न तु प्रवृत्तिनिमित्तम् ।
सामान्यमिति । अनधिगतः सन्नधिगम्योऽर्थोऽभिधीयत इति शेषः। एवमुत्तरत्रापि सिद्धान्तप्रसिद्धेत्यादि । तथा च भगवान् भद्रबाहुः--
जीवो अक्खो तं पइ जं वट्टइ तं तु होइ पच्चक्खं । परमो पुण अक्खस्स वट्टन्तं होइ पारोक्खं ॥१॥ केसिंचि इंदियाइं अक्खाई तदुवलद्धि पच्चक्खं । तं तु न जुज्जइ जम्हा अग्गाहगमिंदियं विसए ॥२॥ नवि इंदियाइं उवलद्धिमंति विगएसु विसयसंभरणा । जह गेहगवक्खाइं जो अणुसरिया स उवलद्धा ॥३॥ धूमनिमित्तं नाणं अग्गिम्मि लिगियं जहा होइ ।। तह इंदियाई लिंगं तं नाणं लिंगियं न कहं ॥४॥ इति । [जीवोऽक्षः तं प्रति यद् वर्तते तत्तु भवति प्रत्यक्षम् । परत: पुनरक्षस्य वर्तमानं । भवति परोक्षम् ॥१॥ केषांचिदिन्द्रियाणि अक्षाणि तदुपलब्धि प्रत्यक्षम् ।। तत्तु न युज्यते यस्मात् अग्नाहकमिन्द्रियं विषये ॥२॥ नापीन्द्रियाणि उपलब्धिमन्ति विगतेषु विषयसंस्मरणात् । यथा गेहगवाक्षा योऽनुस्पर्ता स उपलब्धा ॥३।। धूमनिमित्तं ज्ञानमग्नौ लैङ्गिकं यथा भवति ।
तथेन्द्रियाणि लिङ्ग तज्ज्ञानं लैङ्गिक न कथम् ॥४॥] लौकिका अध्यक्षशब्देन जीवमाहुः । यदाह गौडः--
ज्ञानात्मचक्रशकटे पाशकव्यवहारयोः । तुषे करे पुमानक्षं तुच्छे सौवर्चलेन्द्रिये ।।
बिभीतकबूतचक्रनाभि गतावयवेष्वपि । पुंसि--इति । इदमिह सिद्धान्त रहस्यम
एगन्तेण परोक्खं लिंगियमोहाइयं च पच्चक्खं । इंदियमणोभवं जं तं संववहारपच्चक्खं ॥१॥ (विशे० भा० ६५) [एकान्तेन परोक्षं लैङ्गिकमवध्यादि च प्रत्यक्षम् ।
इन्द्रियमनोभवं यत् तत् संव्यवहारप्रत्यक्षम् ॥] अत्र 'पोहाइयं' इति अवधिमनःपर्यवकेवलरूपं ज्ञानत्रयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org