________________
10
NYAYAVATARAH
13 मुररीकुरुषे, तद्युक्तम्, द्रव्यस्य नित्यत्वैकत्वाभ्यामनधिगतत्वांशाभावात् । अथ द्वितीयम्, तदप्यचारु, पर्यायस्य प्राचीनसंवेदनोदयसमयध्वस्तस्य संवेदनान्तरप्रभवकालं यावत्प्रतीक्षणासंभवेन विशेषणानर्थक्यात् । उत तृतीयम्, तदप्यसाधीयः, विकल्पद्वयानतिक्रमात् । स हि द्रव्यविशिष्टः पर्यायः समकालभाविना ज्ञानेनानधिगतोऽतिगम्यते, यद्वा कालान्तर भाविनेति । न तावत्समकालभाविना, तत्संभवाभावेनविशेषणवैफल्यात् । न हि संभवोऽस्त्येकस्य प्रमातुरेककालं द्रव्यक्रोडीकृतकपर्यायविषयसंवेदनद्वयप्रवृत्त: तथानुभवाभावात्, परस्परमधिगतार्थाधिगन्तृत्वेनाप्रामाण्य प्रसङ्गाच्च । नापि कालान्तरभाविना, गृह्यमाणपर्यायस्य कालान्तरानास्कन्दनात्, पूर्वोत्तरक्षणत्रुटितवर्तमानक्षणमात्रसंबन्धत्वात्तस्य। एतेन पर्यायविशिष्टद्रव्यपक्षोऽपि प्रतिव्यूढः, समानयोगक्षेमत्वात् । अथ सामान्यं, तदप्यसंबद्धम्, तदेकतया प्रथमज्ञानेन साकल्यग्रहणादुत्तरेषां सामान्यज्ञानानामधिगतार्थगोचरतयाप्रामाण्यप्रसङ्गात् । अथ विशेषः, स नित्योऽनित्यो वेति वक्तव्यम् । नित्यश्चेत्, एवं सत्याद्यसंवेदनेनैव तस्य सामस्त्यग्रहणादुत्तरेषां तद्विषयाणामधिगतगोचरत्वेनाप्रामाण्यप्रसक्तिः । अनित्यश्चेत्, पर्यायदूषणेन प्रतिक्षिप्तः । अथ सामान्यविशिष्टो विशेषः, कास्य विशिष्टता, किं तादात्म्यमुत तत्संनिधिमात्रम् ? तादात्म्यं चेत्, प्रथमज्ञानेन सामान्यवत्तस्यापि ग्रहणात्, अन्यथा तादात्म्यक्षतेः, तद्विषयान्यज्ञानानामप्रामाण्यं प्रसज्येत । तत्सांनिध्यपक्षेऽपि द्वयोरपि परस्परं विशकलितरूपत्वात् पक्षद्वयोदितं दूषणं पश्चालग्नं धावति । विशेषविशिष्टसामान्यपक्षे पुनरेतदेव विपरीतं योज्यम् । तन्न अनधिगतार्थाधिगन्तत्वं ज्ञानस्य कथंचिद् विचारभारगौरवं सहत इत्यलक्षणमिति स्थितम् ।। अवि संवादकत्वमधुना विचार्यते - तत्किं प्रदर्शितार्थप्राप्त्या उत प्राप्तियोग्यार्थोपदर्शकत्वेन पाहोस्विदविचलितार्थविषयत्वेन भवान् ज्ञानस्य प्रामाण्यं कथयति ? यदि प्रथमः कल्पः, तदयुक्तम्, जलबुदबुदादिमुमूर्षुपदार्थोत्पादितसंवेदनस्याप्रमाणतोत्पत्तेः, प्राप्तिकाले तस्य ध्वस्तत्वात् । अथ द्वितीयः, तदप्यचारु, प्राप्त्ययोग्यदेशस्थितग्रहनक्षत्रादिगोचरज्ञानस्याप्रामाण्यप्रसक्तेः, अनुचितदेशावस्थानेनैव प्राप्त्यनहत्वात्तेषाम् । अथ तृतीयः पक्षः, तत्राप्यविचलितविषयतां कथमवैषि ? ज्ञानान्तरेण तद्विषयनिराकरणाभावादिति चेत् एतदेवास्माभिरुदितं किं भवतः परुषमाभाति ? न हि स्वपरप्रकाशि ज्ञानं बाधारहितं विमुच्यान्यस्य विषयानिराकरणं ज्ञानान्तरेण प्रेक्षामहे । तत्तदेव न्यायातप्रमारणं भवद्भिरभ्युपगतमिति । अर्थोपलब्धिहेतुः प्रमाणमित्येतदपि न परीक्षा क्षमते, शरीरादेरपि तत्कारणातया प्रामाण्यप्रसङ्गात् । अव्यवहितमर्थोपलम्भकारणं प्रमाणं न देहादिकमिति चेत्, एवं तर्हि ज्ञानमेव स्वपराविर्भावकं
समानयोगक्षेमत्वाविति । अलब्धस्य लाभो योगः, लब्धस्य परिपालनं क्षेमः, तथा समानौ द्रव्यविशिष्टपर्यायपक्षण तुल्यौ दुषणलाभलक्षणो योगश्च दूषणस्य दुरुत्तरत्वात् परिपालनरूपः क्षेमश्च यस्य पर्यायविशिष्टद्रव्यपक्षस्य तस्य भावस्तत्वं तस्मात् । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org