________________
12
VAISHALI INSTITUTE RESEARCH BULLETIN NO. I
'ज्ञानम्' इत्यनेन तु यन्नैयायिकादिभिः पर्यकल्पि संनिकर्षः प्रमाणमिति, तस्य प्रामाण्यं निरस्यति । यतः स्नानपानावगाहनाद्यर्थ क्रियानिर्वर्तनक्षममर्थं निश्चित्याव्यवधानेन प्रवर्तन्ते प्रमातारस्तदेव ज्ञानं प्रमाणं न संनिकर्षो जडतयास्ति, अव्यवहितनिर्णयाभावादित्याकूतम् । अर्थोपलब्धिहेतुत्वात्तस्य प्रामाण्यमिति चेत्, विशीर्णेदानीं प्रमाणेयत्ता, देहादेरपि तत्कारणतया प्रामाण्यापत्तेरित्यास्तां
तावत् ।
'बाधविवजितम्'
इत्यमुना तु यत्तिमिरादितिरस्कृतनयनदीधितिप्रसरादिना नभस्तलावम्विनिशीथिनीनाथद्वयादिप्रतिभासम्, यच्च कुतर्क भ्रान्तचेतसां निजदर्शनाकर्णनप्रभवं क्षणक्षयिसामान्यविशेषैकान्तेश्वरादिकृतभुवनप्रतिभासं ज्ञानं तत्प्रत्यनीकार्थप्रत्यायकप्रमाणान्त रोपनिपातप्लावितत्वात् प्रतिक्षिपति । विशेषार्थविशब्दोपादानात्तु यः खलु बहुलका मलावलेपलुप्तलोचनबलानां धवले जलजे पीतिमानमादधानो बोधः समुल्लसति, स यद्यपि सकलं कालं तद्दोषाव्युपरमे प्रमातुर्निदर्शनेन बाध्यते, तथापि तज्जलजधवलताग्राहिरणा जनान्तरदर्शनेन वाधितत्वान्न प्रमाणमित्युक्तं भवति ।
समस्तलक्षणेन तु यत्परे प्रत्यपीपदन् अनधिगतार्थाधिगन्तृ प्रमाणम् अविसंवादकं प्रमाणम्, अर्थोपलब्धिहेतुः प्रमाणम् इत्यादि तन्निरास्थत्, तथा हिअनधिगतार्थाधिगन्तृत्वं किमभिधीयते ? ज्ञानान्तरेणानधिगतमर्थं यदधिगच्छति तत्प्रमाणमिति चेत्, तर्हि तज्ज्ञानान्तरं परकीयं स्वकीयं वा । तद्यदि परकीयम्, तदयुक्तम्, सर्वज्ञज्ञानस्य सकलार्थगोचरतया सर्वप्राकृतं लोकज्ञानानामधिगतार्थाधिगन्तृत्वेनाप्रामाण्यप्रसङ्गात्, तदर्थग्राहिजनान्तरदर्शनसंभवाच्च । अथ स्वकीयं, तत्रापि सोऽधिगम्योऽर्थः किं द्रव्यमुत पर्यायो वा ? द्रव्यविशिष्टपर्यायः, पर्यायविशिष्टं वा द्रव्यमिति ? तथा किं सामान्यमुत विशेषः ? आहोस्वित् सामान्यविशिष्टो विशेषः विशेषविशिष्टं वा सामान्यम् ? इत्यष्टौ पक्षाः । तत्र यद्याद्यतदप्यनुमानमत्रादिशब्दाद् गृह्यते । तच्चानुमानं द्वेधा, दृष्टं सामान्यतोदृष्टं च । तत्र प्रत्यक्षपरिच्छेदार्थानुमापकं दृष्टम्, यथा धूमो धूमध्वजस्य । स्वरूपविप्रकृष्टार्थं तु सामान्यतोदृष्टं यथा गन्धादिज्ञानं घ्राणादेः । तथा हि-गन्धाद्युपलब्धिः करण कार्या, क्रियात्वात्, या क्रिया सा करणकार्या यथा छिदिक्रिया, क्रिया चेयम्, तस्मात्करणकार्या; तथात्रत्यमप्यनुमानं स्वरूप विप्रकृष्टार्थमिति सामान्यतोदृष्टम् । तथा हि-अर्थं प्राकट्यं विशिष्टकारणजन्यम्, विशिष्टकार्यत्वात् यद् यद् विशिष्टकार्यं तद् तद् विशिष्टकारणजन्यं यथा चित्रादि, विशिष्टकायं चेदम्, तस्माद्विशिष्टकारणजन्यम् । ततश्च यद्यपि परप्रकाश्येव ज्ञानं तथापि अर्थापत्त्यादिना प्रमाणेन ज्ञानं मे समुत्पन्नमिति निश्चीयते ।
गत इति । ज्ञानात् । आकूतम् अभिप्रायः ।
क्षरणक्षयीत्यादि । क्षणेन क्षयः स यस्य वस्तुनोऽस्ति तच्च समान्य विशेषयोरेकान्तश्च ईश्वर प्रादिर्यस्य प्रकृत्यात्मस्वभावादेस्तेन कृतं भुवनं च तेषां प्रतिभासो यत्र ज्ञाने तत्तथा । प्लावितत्वादिति । बाधितत्वात् । जलजे शङ्ख । अथ द्वितीयमिति । उररीकुरुषे इति पाश्चात्य विकल्पसंबद्ध क्रियापदमिहापि
संबध्यते,
एवमुत्तर विकल्पेष्वपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org