________________
NYAYAVATĀRAH
11 ग्रहणाभावात्, दृष्टहान्यदष्टपरिकल्पनाप्रसङ्गाच्च । किं च। यथा व्यतिरिक्तवासनावशादेवमपि ज्ञानं नानाकारम्, तथा जडमपि तद्वशादेव बोधरूपं प्रकाशत इति विपरीतापत्तेरर्थ एव सिद्धिमास्कन्देद् न ज्ञानम् । अथाव्यतिरिक्ता, हन्त ज्ञानमेव तन्न वासना तदव्यतिरिक्तत्वात् तत्स्वरूपवदित्यास्तां तावत् । पराभास्यपि स्वप्रकाशाभावादभिदधीरन्, तदप्यसंबद्धम् । स्वप्रकाशाभावे परप्रकाशायोगात् । न हि प्रदीपः स्वरूपमनुद्द्योतयन् घटाधुढ्योतने व्याप्रियते । स्वयं चाप्रतीतमपि यद्यर्थं ग्राहयति ज्ञानम्, देवदत्तस्योत्पन्नं (ज्ञानं) यज्ञदत्त ग्राहयेत् , विशेषाभावात् । अन्यच्च । परप्रकाशनमात्रेऽपि दूरासन्नादिभेदः प्रथमानानामर्थानां किमपेक्षश्चकास्ति, शरीरापेक्ष इति चेत्, न, तस्यापि प्रकाश्यताविशेषात्, तस्मादन्तर्मुखाकारस्य बहिरर्थग्रहणे सति अयं घटामाटीकते नान्यथा । अथार्थापत्त्यादिना प्रमाणान्तरेण तदन्निविष्टं गृह्यते, ततस्तदपेक्षया योक्ष्यते दूरासन्नादिभेद इति चेत्, न, तत्रापि विकल्पयुगलकानतिवृत्तेः । तथा हितत्प्रमाणान्तरं स्वप्रकाशमन्यप्रकाशं वा। स्वप्रकाशं चेत्, प्रथमस्य किं क्षणम् । अन्यप्रकाशं चेत्, तत्रापीयमेव वार्ता इत्यनवस्था, तस्मात् स्वरूपमवभासयदेव ज्ञानमर्थग्रहणाय व्याप्रियते इति स्थितम् ॥ एव पाह--तत्कारणभूता वेद्यवेदकाकारकलुषज्ञानस्य हेतुभूता। ज्ञानरूपैवेति । अयमभिप्राय:-ज्ञानरूपा वासना पूर्वक्षणवर्तिनी वेद्यवेदकाकारकलुषमुत्त रक्षणवति विज्ञानं जनयतीति । तयेत्यादि । तया वासनया सह वेद्यवेदकाकारकलुषज्ञानस्य कार्यकारणभावलक्षणसम्बन्धग्रहणाभावात् तदभावश्च भवदभिप्रायेण पूर्वापरक्षणवतिज्ञानव्यतिरिक्तस्य ग्राहकस्यात्मनोऽसत्वात् । दृष्टहानीत्यादि । घटादिसहितचक्षुरादिसामग्रीतोऽन्वय व्यतिरेकाभ्यां ज्ञानमुत्पद्यते इति दृष्टस्य प्रत्यक्षाद्यनिराकृतस्य व्यवहारस्य हानिः, तथा प्रत्यक्षादिभिः प्रमागैरसंवेद्यमानायाः वासनायाः सकाशात् सितपीतादिनानाकारकलितमध्यक्षमुत्पद्यते इत्यदृष्टं तस्य परिकल्पना तयोः प्रसंगात् । जडमपीति । अचिद्रूपमपि ज्ञानम् । नहीति । यदुक्तम्
दीपवन्नोपपद्येत बाह्यवस्तुप्रकाशनम् ।
अनात्मवेदने ज्ञाने जगदान्ध्यं प्रसज्यते ॥१॥ विशेषाभावादिति । देवदत्तोत्पन्नज्ञानस्य देवदत्तयज्ञदत्ताभ्यामसंवेद्यमानत्वेनाविशेषात् । प्रथमानानामिति । प्रकाशमानानाम् । अन्तर्मुखेत्यादि । अन्तर्मुखोऽन्तःप्रकाशक आकारो यस्य ज्ञानस्य तस्यैव बाह्यार्थपरिच्छेदे सति अयं दूरासन्नादिभेदः संगच्छते । अर्थापत्त्यादिनेति । यदि ज्ञानं मयि उत्पन्न न स्यात् तहि अर्थप्रकटता मे न स्यात् तस्मादर्थप्राकट्यान्यथानुपपत्त्या ज्ञानं शरीरान्त निविष्टमिति व्यवस्थाप्यते । यदुक्तम्--
नान्यथेहार्थसद्भावो दृष्टः सन्नुपपद्यते ।
ज्ञानं चेन्नेत्यतः पश्चात्प्रमाणमिति कल्प्यते ॥१।। इति । पादिशब्दान्नैयायिकमताभिप्रायेण प्रत्यक्षं गृह्यते । तथा हि तेषां मते घटादिविषयं प्रत्यक्षं घटमेव परिच्छिनत्ति, यदा च घटप्रत्यक्षविषयं मानसाभिधानं प्रत्यक्षान्तरमुत्पद्यते तदा तेन घटादिविषयं प्रत्यक्षं मम उदपद्यतेति निश्चीयेत । तथा येषा मतेऽनुमानात्पृथगपत्तिर्नेष्यते, तन्मतेऽनुमानेन ज्ञानं ममोदपादीति व्यवस्थाप्यते इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org