________________
10 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I
अधुनाक्षरार्थः - तत्र प्रमाणमिति पूर्ववत् । स्व आत्मा स्वरूपं, परोऽर्थः, तावाभासयितुं प्रकाशयितुं शीलमस्य तत्तथा । ज्ञायते निर्णीयते तत्त्वं येन तद ज्ञानम् । बाध्यतेऽनेनेति बाधः, विपरीतार्थोपस्थापकप्रमाणप्रवृत्तिरिति यावत् । तेन विशेषेण वर्जितं रहितं यज्ज्ञानं तत् प्रमाणमिति संटङ्कः ।।
इह च व्यवच्छेद्यापेक्षया लक्षणे विशेषणप्रवृत्तेः स्वपराभासि इत्यनेन ये स्वाभास्येव ज्ञानं मन्यन्ते ज्ञानवादिनो बौद्धविशेषाः, ये च पराभास्येव मीमांसकनैयायिकादयस्ते निरस्ताः । ते हि बहिरर्थाभावात् ज्ञानं स्वांशपर्यवसितसत्ताकमित्त्याचक्षीरन्, तदयुक्तम्, ज्ञेयार्थाभावे ज्ञानाभावप्रसङ्गात् । अथार्थाभावेऽपि स्वप्नदशायां वनदेवकुलादिनानाप्रतिभासं ज्ञानमवलोकितमिति तथाभूतं सकलं ब्रूषे, तन्न, तस्यापि जाग्रदवस्थाभाविसद्भूतार्थदर्शनसंपादितात्मसंस्कारमिद्धादिकारणकलापसंनिधानप्रबोधव्यपेक्षत्वात, इतरथात्यन्तानुभूतभूतपञ्चकातिरिक्तषष्ठभूतप्रतिभासः स्यात् । किं च । कथमेकं ज्ञानं सितपीताद्यनेकाकारविवर्तमिति प्रष्टव्यो भवान् । अनाद्यविद्यावासनात इति चेत् , अत्रापि विकल्पयुगलममलमवतरति, ततो ज्ञानात् सा वासना ब्यभत्सीद् न वा। व्यत्यरक्षीच्चेद्, एवं सति तद्ग्राहकप्रमाणमभिधानीयम्, ज्ञानव्यतिरिक्तायाः संवेदनाभावात्, तत्संवेदने चार्थस्यापि व्यतिरिक्तस्य संवेदनमिति स दुष्प्रतिषेधः स्यात् । वेद्यवेदकाकारकलुषिताज्ज्ञानादेव व्यतिरिक्ता तत्कारणभूता ज्ञानरूपैव सानुमीयते इति चेन्न, तया सह संबन्धकेचिदेव तु चार्वाकैकदेशीया आकाशलक्षणं पञ्चमं भूतमभिमन्यमानाः पञ्चभूतात्मक जगदाचक्षते इति ।
तीर्थान्तरीयेत्यादि । तीर्यते भवाब्धिरनेनेति तीर्थ द्वादशाङ्गतदाधारो वा संघः, तस्मादन्यत्तीर्थान्तरं तत्र भवास्तीर्थान्तरीयाः। लौकिका इति । लोके भवा अध्यात्मादेराकृतिगणत्वात् “अध्यात्मादेः” इति शैशिकष्ठञ् ।।
तस्यापीत्यादि । स्वप्नदशाज्ञानस्यापि जाग्रदवस्थायां भवनशीलं यत्सदभूतार्थदर्शनं तेन संपादितो य आत्मनः संस्कारस्तस्य मिद्धादिकारणकलापसंनिधानेन यः प्रबोधस्तं व्यपेक्षते, “कर्मण्यण" (पा० ३-२-१) तद्भावस्तस्मात् । मिद्धावीति । मिद्धशब्दो निद्राभिधायी नपुंसकः। यविनिश्चयटीकायां धर्मोत्तरः--मिद्धं निद्रेति । प्रादिशब्दाददृष्टं दध्यादिभोजनं सजलादिदेशो निशीथादिकालो वातादिः प्रकृतिर्वातादिषितत्वं चेत्यादि गृह्यते । तथा चात्रार्थे आगम:--
अणुहूयदिचितियसुयपयइविचारदेवपाणया । सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥१॥
(विशे० भा० १७०३) [अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदेवतानूपाः ।
स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥१॥] अत्र 'अणूयेति' अनूपः सजलदेशः ॥ वेद्य त्यादि। एवशब्दो भिन्नक्रमे, ततोऽयमर्थ:--वेद्यवेदकाकारकलुषितादेव ज्ञानाद् व्यतिरिक्ता न तु ज्ञानमात्रादपीति, अत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org