________________
NYAYAVATARAḤ
विनिर्लुठितक्षणक्षयपरमाणुलक्षणानि स्वलक्षणानि प्रमाणगोचरस्तात्त्विक इति बौद्धाः । सामान्यविशेषात्मकं वस्त्विति मीमांसकाः परस्परविभक्तौ सामान्यविशेषाविति नैयायिकवैशेषिकाः । त्रैगुण्यरूपं सामान्यमिति सांख्याः । भूतचतुष्टयं प्रमाणभूमीति चार्वाकाः । तथा फलेऽपि विप्रतिपद्यन्ते, अर्थाधिगतिः प्रमाणफलमिति सौगताः । पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं तु फलमिति मीमांसकादयः ।
तत्र तावल्लक्षणसंख्याविप्रतिपत्ती निराचिकीर्षुराह
प्रमाणं स्वपराभाति ज्ञानं, बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा, मेयविनिश्चयात् ॥ १ ॥
तत्रापि पूर्वार्धन लक्षणविप्रतिपत्तिमुत्तरार्धेन तु संख्याविप्रतिपत्ति निराचष्टे । लक्षणं च पररूपेभ्यो व्यावर्तनक्षमोऽसाधारणधर्मः । लक्ष्यते परिच्छिद्यते विजातीयेभ्यो व्यावृत्तं लक्ष्यं येन तल्लक्षणमित्युच्यते । तच्चेह द्वये प्रत्याय्याः स्वदर्शनानुरक्तान्तःकरणास्तीर्थान्तरीयाः विप्रतिपन्नाः, तथा मुग्धबुद्धयो लौकिका अव्युत्पन्नाश्चेति । ततश्च यदादौ विप्रतिपन्नान् प्रति लक्षणं तदैवं लक्ष्यलक्षणभावो द्रष्टव्यः । यदिदं भवतामस्माकं च प्रमाणमिति प्रसिद्धम्, तत्स्वपराभासि ज्ञानं बाधविवर्जितम् मन्तव्यम् ; प्रसिद्ध प्रमाणमनूद्याप्रसिद्ध स्वपराभासित्वादि विधीयते । यदा तु अव्युत्पन्नमतीन् प्रतीदं लक्षणम्, तदा प्रतिप्राणि स्वपरप्रकाशिनो ज्ञानस्य बाधारहितस्य कस्यचित् सिद्धत्वात्, अन्यथा प्रतिनियतव्यवहारोच्छेदप्रसङ्गात्, एवं ते बोध्यन्ते यददो भवतां क्वचिन्नियतार्थग्राहि स्वपरप्रकाशकं बाधरहितं ज्ञानं प्रसिद्ध तत् प्रमाणमिति बुध्यन्ताम् । अत्रापि सिद्धस्यानुवादोऽसिद्धस्य विधानं योज्यम् ।।
-
--
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ १ ॥ तां विदन्त्यधीयते वा सांख्याः; पूर्ववदण् । तालव्यादिरपि शाङ्खयध्वनिरस्तीति वृद्धाम्नाय : । तथाहि - शङ्खनामा कश्चिदाद्य: पुरुषविशेषः तस्यापत्यं पौत्रादिरिति गर्गादित्वाद्यप्रत्ययः । प्रत्यक्षमेवैकं प्रमाणमिति चार्वाका इति । चर्व प्रदने चर्वन्ति भक्षयन्ति तत्वतो न मन्यन्ते पुण्यपापादिकं परोक्षं वस्तुजातमिति चार्वाका:; मवाकश्यामाकेत्यादि सिद्धमोगादिदण्डकेन ( सू० ३७) निपातनात् ॥ प्रमाण संख्या संग्रहाय श्लोकश्चात्र
Jain Education International
चार्वाकोsध्यक्षमेकं सुगतकणभुजो सानुमानं, सशाब्दं । तद्वैतं पारमर्षः, सहितमुपमया तत्त्रयं चाक्षपादः ॥ अर्थापत्या प्रभाकृद् वदति स निखिलं मन्यते भट्ट एतत् । साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥
त्रैगुण्यरूपं सामान्यमिति । यो गुणाः सत्त्वरजस्तमांसि ततः स्वार्थे
" ण्योऽनन्तादेः " इति ण्यः, त्रयो लोकास्त्रैलोक्यं षड् गुणाः षाड्गुण्यम्, ततस्त्रैगुण्यं रूपं स्वभावो यस्य सामान्यस्य तत् त्रैगुण्यरूपम् । भूतचतुष्टयमिति । पृथ्व्यप्तेजोवायुलक्षणम् ।
For Private & Personal Use Only
www.jainelibrary.org