________________
8
VAISHALI INŠTITUTE RÉSEARCH BULLETIN NO. I प्रमातारस्तदेवेह ज्ञानमात्मना सह धर्मिरूपतया तादात्म्येऽपि धर्मरूपतया व्यतिरिक्त प्रमीयतेऽनेनेति प्रमाणमित्युच्यते । तस्य व्युत्पादनम् परपरिकल्पितलक्षणादिव्युदासेन स्वाभिप्रेतलक्षणादिस्वरूपप्रकाशनम् । तदर्थ-अर्थशब्दः प्रयोजनपर्यायः इदम् इति अर्थरूपतया स्वचेतसि विवर्तमानप्रकरणशरीरं परामृशति। द्विविधं हि प्रकरणशरीरम्, शब्दोऽर्थश्चेति, बहिः शब्दरूपतया प्रकाशयिष्यमाणत्वेऽप्यन्तस्तत्त्वार्थाकारेण प्रत्यक्षत्वाद् । प्रारभ्यते इति पदवाक्यश्लोकादिरचनया प्रक्रियते इति यावत् ।
. इह च लक्षणसंख्यागोचरफलेषु प्रमाणं प्रति विप्रतिपद्यन्ते परे । तथा हि लक्षणे तावत्, प्रमाणमविसंवादि ज्ञानमिति सौगताः । अनधिगतार्थाधिगन्तृ प्रमाणमिति मीमांसकाः । अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकादयः । तथा संख्यायां, प्रत्यक्षानुमाने द्वे एव प्रमाणे इति सौगताः । प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः प्रमाणानीति मीमांसकाः। प्रत्यक्षानुमानशब्दोपमानानि प्रमाणानीति नैयायिकाः। प्रत्यक्षानुमानशब्दानि प्रमाणानीति वैशेषिकाः । एतान्येव सांख्याः । प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः ।। तथा गोचरे, परस्पर
नियमानत्वादित्यर्थः । प्रकरणशरीरमिति । प्रकरणस्य स्वरूपम् । पवेत्यादि । पदं प्रसिद्धम्, वाक्यं विशिष्टपदसमुदायः । यदाह--
पदानां संहतिर्वाक्यं सापेक्षाणां परस्परम् ।
साख्याताः कल्पनास्तत्र पश्चात्सन्तु यथायथम् ।। श्लोकश्छन्दोमात्रम् । प्रादिग्रहणात् प्रत्यक्षानुमानप्रकरणादिग्रहः ।।
सौगता इति । सुष्ठु अपुनरावृत्त्या गतं गमनं, सर्वे गत्यर्था ज्ञानार्था इति न्यायात् शोभनं ज्ञानं वा यस्य स तथा, स देवता येषां “सास्य देवता" (पा० ४-२-२४) इति अरण; यद्वा सुगतस्य इमे सौगताः, "तस्येदम्” (पा० ४-३-१२०) इति अण् । मीमांसका इति। मीमांसाशब्दः पूजितविचारवचनस्तां विदन्त्यधीयते वा, क्रमादिभ्यो वुन् (पा० ४-२-६१) इत्यकप्रत्ययः। यता मीमांसयन्ति विचारयन्ति यथावस्थितस्वरूपेण प्रमाणप्रमेयादिवस्तुजातमिति मीमांसकाः कर्तरि वुण् । नैयायिकादय इति । न्यायं विदन्त्यधीयते वा "ऋतूक्थादेष्ठण्" इति विश्रान्तसूत्रेण ठण् 'ठस्येकः" इतीकादेशः । प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः प्रमाणानीति । यदाहुस्तद्वादिदनः --
प्रत्यक्षमनुमानं च शाब्द चोपमया सह ।
अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ इति । प्रभाकरस्य वा अभावप्रमाणं प्रत्यक्षविशेष वदतः पञ्च प्रमाणानीति । प्रत्यक्षानुमानशब्दानि प्रमाणानीति वैशेषिका इति । व्योमशिबाभिप्रायेणैतत्प्रमाणत्रितयमवोचदाचार्यः । कन्दलीकारस्तु प्रत्यक्षानुमाने द्वे एव प्रमाणे प्राह । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, विशेषा एव वैशेषिकम्; "विनयादेः" (पा० ५-४-३४) इति स्वार्थे ठण; ततो वैशेषिकं विदन्त्यधीयते वा वैशेषिकाः, 'तद्वेत्यधीते" ( सिद्ध० हे० ६-२-११७) इत्यण् ।। एतान्येव सांख्या इति । संख्या पञ्चविंशतितत्त्वानि; यदाहुः सांख्या: -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org