________________
NYAYAVATÁRAŤ अनन्तरं व्यवहितं च । तत्र श्रोतुरनन्तरप्रयोजनं प्रमाणविषया व्युत्पत्तिः, कर्तुlत्पद्यमानस्य प्राज्ञत्वात् शिष्यस्य व्युत्पादनम् । तत्रात्मप्रयोजनं दर्शयन्नारभ्यते इति अस्य मयेतिपदसव्यपेक्षत्वात् । शिष्यप्रयोजनं तु व्युत्पदित्यनेनोपसर्गधातुसमुदायेनैव तदन्तर्गतं लप्स्यते इत्यभिप्रायवान् कर्ता आत्मव्यापारं णिजन्तेन निर्दिशति-प्रमाणव्युत्पादनार्थमिति । व्यवहितप्रयोजनं द्वधा, व्यावहारिकं पारमार्थिकं च । व्यावहारिकं हेयोपादेयोपेक्षणीयेष्वर्थेषु हानोपादानोपेक्षालक्षणम् । पारमार्थिक अभ्युदयनिःश्रेयसावाप्तिरिति । एतत्तु साक्षादनुक्तमप्यनन्तरप्रयोजनफलत्वात् तद्वचनेनैवाक्षिप्तमवगन्तव्यम्। संबन्धस्तूपायोपेयलक्षणः, तत्रोपेयं प्रकरणार्थपरिज्ञानम्, प्रकरणमुपायः, ततस्तदभिलषता प्रकरणमिदमारम्भणीयमिति अनुक्तोऽपि वचनेन संवन्धोऽर्थाद् गम्यते इति तात्पर्यार्थः।
अधुनाक्षरार्थो विवियते -- तत्र यद्यपि प्रमाणशब्दस्य सर्वकारकैर्भावेन च व्युत्पत्तेः सुकरत्वात् “कृत्यल्युटो बहुलम्" (पा० ३-३-११३) अन्यत्रापि (पा० ३-३-१३०) इति वचनाद् यथाक्रमममी कत्रादिकारकभावव्युत्पत्त्या प्रमाणशब्दवाच्याः, तद् यथा-आत्मार्थज्ञानार्थक्रियाकारणकलापक्षयोपशमक्रियारूपाः, तथापीह ज्ञानमेवाधिक्रियते, तस्यैव परीक्षाक्षमत्वात्, इतरेषां परीक्षायाः तत्पुरःसरत्वात्, वैयर्थ्याच्च । तथा हि-नार्थस्तावदात्मनः परीक्षया, तस्य भ्रान्ताभ्रान्तज्ञानेषु समानत्वात् । नाप्यर्थस्य, तस्योपेयत्वात्, उपायभूतज्ञानपरोक्षणेनैव गतत्वात् । नार्थक्रियायाः तदवगतौ परीक्षावैयर्थ्यात् । नापि कारणकलापस्य, ज्ञानोत्पत्तेः प्राक् स्वरूपानवगतेः, पश्चात् तत्स्वरूपनिर्णयादेव तत्साद्गुण्यवैगुण्यावगते रर्थक्यात । नापि क्षपोपशमस्य, तस्य ज्ञानोत्पादोन्नीयमानरूपत्वात । नापि प्रमितिमात्रस्य तस्य प्रमाणसाध्यतया, तच्चारुताद्वारेणैव समीचीनता सिद्धेरिति । तदयमभिप्रायः - यद्यपि अनन्तधर्माध्यासिते वस्तुनि सर्व एव शब्दार्था निरुपचरिता घटन्ते, तथापि येनार्थं परिच्छिद्यार्थक्रियासमर्थार्थप्रार्थनया प्रवर्तन्ते
वाच्यमिति नाम पर्याय इति यावत् । तत्रैवं स्थिते अभिधेयं वाच्यं-प्रतिपादनीयमिति । प्रात्मप्रयोजनमित्यादि । प्रात्मप्रयोजनं दर्शयन् कर्ता, आत्मनो व्यापारं यथाकथंचिद् व्युत्पत्स्यन्ते शिष्याः, परं मया व्युत्पाद्यमाना व्युत्पद्यन्तामिति प्रयोजकत्वमिनन्तेन कथयतीति सम्बन्धः । ननु प्रमाणव्युत्पादमिदनार्थमारभ्यते इत्युक्ते प्रयोजनमात्रं दर्शितं नात्मन इति चेत्, आह-आरभ्यते इत्यस्य मयेतिपदसव्यपेक्षत्वादिति । ननु तथापि पूर्व कर्तुः श्रोतुश्च प्रयोजनमभिहितम्, अत्र कतु रेवेति तत्कथमित्याह-अभिप्रायवान् । केनोल्लेखेन योऽभिप्रायः । आह-शिष्यप्रयोजनमित्यादि। तदन्तर्गतमिति । व्युत्पादनान्तर्गत् । अभ्युदयनिःश्रेयसावाप्तिरिति । अभ्युदयोऽपवर्गप्राप्तरेर्वाग् देवलोकसुकुललाभादिकं सांसारिक कल्याणम्, निश्चितं केवलपरमानन्दमयत्वात् श्रेयः कल्याणं समासान्ते अति निःश्रेयसं मुक्तिस्तयोः प्राप्तिः । यद्यपि चेहाभ्युदयसामान्य ग्रहणेन तद्विशेषस्वरूपस्य निःश्रेयसस्यापि ग्रहः सिद्धः, तथापि गोबलीवर्दन्यायेनोभयोरभिधानमिति ।
___ नार्थ इति । न प्रजोजनम् । नाप्यर्थस्येति । अत्राग्रिमेषु च स्थानेषु परीक्षया प्रयोजनमिति संबन्धनीयम् । उन्नीयमानरूपत्वादिति । उत्पूर्वान्नयतेः कर्मणि यण,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org