________________
6 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I साहित्यम् । तथा हि-अध्यवसायो वासनाप्रबोधवशादुत्पन्नः सामान्यमनर्थरूपं विकल्पयति । प्रत्यक्षं बहिराल्लब्ध्वात्मलाभं तदाकारं तमेव साक्षात्करोतिइति भवतां दर्शनम्, तन्न विकल्पसाहित्यं प्रत्यक्षस्य कंचन विशेष पुष्णाति । तदिदं ग्राह्यग्राहकभावकारणं प्रत्यक्षेऽपि यद् भवद्भिरभ्यधायि, तद् यथा यथा विचार्यते तथा तथा विशीर्यत इत्यनपेक्षणीयम् । तद् यथाकथंचित् प्रत्यक्षस्य प्रतिपादितग्राह्यग्राहकभावलक्षणवैकल्येऽपि ग्राहकत्वम् अर्थस्य ग्राह्यत्वम्, तथा दृष्टत्वात्, अन्यथा निखिलव्यवहारोच्छेदप्रसङ्गात् भवद्भिरपि प्रत्यपादि । तथा शब्दस्य वाचकत्वमर्थस्य वाच्यत्वं प्रतिपद्यध्वं यूयम्, अत्रापि दृष्टहानेः व्यवहारोच्छेस्य समानत्वात् । अथ इत्थमाचक्षीथाः, यथा-नद्यास्तीरे गुडशकटं पर्यस्तं, धावत धावत डिम्भकाः - इत्यादिविप्रतारकपुरुषवचनश्रवणात् प्रवर्तमाना विप्रलम्भताभाजो जायन्ते, अतः सकलवचनेष्वनाश्वास इति । एवं तर्हि चिकिचिकायमानमरुमरीचिकाचक्रचुम्बि यज्जलोल्लेखि विशददर्शनमुदयपदवीं समासादयति तदलीकमवलोकितमिति, सकलाध्यक्षेष्वनाश्वास इत्यभिदध्महे । पाश्चात्यविपरीतार्थोपस्थापकप्रमाणवाधितत्वाद् मरीचिकासु जलज्ञानमप्रमाणं न शेषसत्यस्तम्भादिज्ञानानि, बाधारहितत्वादिति चेत् ; तर्हि ध्वनावप्ययं न्यायः कि काकैर्भक्षितः । न हि वयं सर्वशब्दानां प्रामाण्यं प्रतिपद्येमहि, किं तहि सुनिश्चिताप्तप्रणेतृकाणामेव । तन्न प्रामाण्यं प्रति प्रत्यक्षशब्दयोविशेषमुपलभामहे । एष तु विशेषः स्यात्, प्रत्यक्षं चक्षुरादिसामग्रीविशेषजन्यत्वात् संनिहितनियतार्थग्राहि स्पष्टप्रतिभासम्, शाब्दं तु तथाविधकारणविकलत्वाद् नियतानियतार्थग्राहि अस्पष्टप्रतिभासम् । न च एष विशेषः प्रामाण्यक्षतिकारी, इतरथानुमानस्याप्यप्रामाण्यमासज्येत, तस्याप्यविशदानियतार्थग्राहित्वात् । परमार्थतस्तु त्रिकालव्यापिनः सर्वार्थग्रहणस्वभावत्वेऽपि आवरणतिरस्कृतस्य जीवद्रव्यस्य चक्षुरादिसामग्रीसापेक्षावरणक्षयोपशमवशात् संनिहितस्पष्टार्थग्रहणपरिणामः प्रत्यक्षमि त्युच्यते । शब्दसापेक्षक्षयोपशमात्त नियतानियताविशदार्थग्रहणपरिणामस्तु शाब्दमिति । तन्न तदुत्पत्तितदाकारते प्रत्यक्षे शाब्देऽन्यस्मिन् वा ज्ञाने वास्तव्यौ स्तः । तस्मात्पारमार्थिकाभिधेयप्रयोजनसंबन्धप्रतिपादकमेतदादिवाक्य मिति स्थितम् ।।
तत्राभिधेयं वाच्यं, तच्चेह प्रमाणम्, तस्यैव प्रकरणेन प्रतिपाद्यत्वात्, तत्प्रमाण इत्यवयवेन लक्षयति । प्रयोजनं द्विधा, श्रोतुः कर्तुश्च । पुनरपि द्विविधं
ध्यवसायो विकल्पनम् । चिकिचिकायमानेति । चिकिचिकाशब्दो देदिप्यमानार्थः; स चानुकरणे पटपटाशब्दवद् डाजन्तः तद्वदाचरति । वास्तव्याविति । वस्तुशब्दात् वस्तुनि परमार्थे "भवे" (सि० हे० ६-३-१२३) इति भवार्थाणप्रत्ययान्तादीप्रत्ययः, पारमार्थिक्यावित्यर्थः । वास्तव्यशब्दात्तु स्त्रियामाप्रत्यये वास्तव्ये इति स्यात् ।
तत्रेत्यादि । तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते, तच्चाभिधेयत्वगुणेन । दयमर्थ:--तेषामभिधेयादीन मध्येऽभिधेयं किमुच्यते । पाह-वाच्यमिति । अभिधेयशब्दस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org