________________
NYAYAVATARAḤ
तत् किमिदं शपथैः प्रत्येयं यदुत मोहाद् विकल्पेन स्वलक्षणमध्यवस्यति न पुनविंशदनिर्भासेन साक्षात्करोति । एवं चाध्यक्षमपि सकलार्थव्यक्तीर्गोचरयति, विकल्पमोहात्तु संनिहितविषयं लक्ष्यते इति परोऽनुषञ्जयन् दुर्निवारः स्यात् । उत तद्ग्रहणमध्यवसायः, तदा स्वलक्षणनिष्ठता विकल्पस्य स्ववाचा भवद्भिः प्रतिपन्ना स्यात् । एवं च विकल्पयुगलेऽप्यर्थं क्रियासमर्थार्थपर्यवसितसत्ताकता विकल्पस्याढकते । यदा च विकल्पः स्वलक्षणसौधमध्यमध्यास्त इति अभिदध्याः, तथा सति ध्वनेरपि तदन्तः प्रवेशो दुर्निवारः स्यात्, तत्सहचरत्वात् । यदाह भवदाचार्यः- एव शब्दानां विषयो यो विकल्पानामिति । न च विकल्पं व्यतिरिच्य सादृश्यव्यवस्थापकमन्यदस्ति प्रत्यक्षस्य सकलजगद्विलक्षणस्वलक्षणग्रहणप्रवणत्वात् । तद् यदि तत्सदृशतयोत्पत्तिस्तदाकारता, तदा प्रतिपादितन्यायाद् विकल्पस्य संनिहितार्थगोचरतोररीकर्तव्या, तथा च ध्वनिरपि तद्विविषयः सिध्यतीति सिद्धं नः समीहितम् । अन्यथा तदाकारता न समस्ति, गत्यन्तराभावात् । तन्न तदुत्पत्तितदाकारते ग्राह्यग्राहकभावहेतु संस्तः । संस्तां वा, तथापि विकल्पत: पर्यनुयोज्यो भवान् । किमेते ग्रहणकारणं प्रार्थक्येन उत सामस्त्येन । तद् यद्याद्यः पक्षः, कपालक्षणो घटान्त्यक्षरणस्य ग्राहकः प्राप्नोति तज्जन्यत्वात्, जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः स्यात् तदाकारत्वात् । अथ द्वितीयः, तथा सति घटोत्तरक्षणः पूर्णक्षरणस्य ग्राहक: प्रसजति, तदुत्पत्तेस्तदाकारत्वाच्च । जडत्वादर्थस्य न ग्राहकत्वमपि तु ज्ञानस्य तदुत्पत्तितदाकारतयोः सत्योरिति चेत्, इदमिदानीं विदितमस्माभिः, एतदपि समानार्थग्राहिप्राचीनसंवेदनक्षणलक्षणमनस्कारोत्पाद्यज्ञाने ग्राहक लक्षणं व्यभिचरति, उत्पादकप्राक्तनक्षणवर्तिमनस्काराग्राहकत्वात् तदध्यवसाय साहित्येन तदुत्पत्तितदाकारतयोर्ग्रहणकारणत्वं संपूर्णं मनस्कारे तन्नास्तीति चेत् किमिदं भिन्नगोचरेण सह
5
मनसोरित्यादि । मन्यते ज्ञायते वस्तु ग्राभ्यामिति सर्वधातुभ्योऽसुन (पा० उणादि ) इति श्रसुनि मनसी ज्ञाने तयोः सविकल्पाविकल्पयोरेकत्वं विकल्पयति भ्रान्तः प्रमातेति संबन्धः । कुत इत्याह, युगपदवृत्तेः गवादिस्वलक्षणविषय निर्विकल्पाध्यक्षानन्तरं पुनर्निविकल्पकेन स्वलक्षणस्य तत्समकालमेव विकल्पेन गकारादिवर्णानां च ग्रहणात् । यद् बौद्धालङ्कारः -- कथं तहि क्रमेण ग्रहणं न भवति, युगपद्विषयसंनिधानात्, न हि वर्णविकल्पकाले प्रत्यक्ष प्रत्ययार्थो न संनिहित इति । लघुवृत्तेर्वेति । यथा भवतो लघुवृत्तेः शाखाचन्द्रादिविषयसंनिधौ न क्रमेण ग्रहणाध्यवसायस्तथा ममापि निर्विकल्पकसमनन्तरं भगित्येव विकल्पोत्पादात् तयोरैक्यव्यवसायः, न पुनस्तत्त्वतस्तयोरैक्यम् । विशेषतस्त्वेतस्कारिकार्थी बोद्धालङ्कारादेरवसेयः ॥
तदन्त इति । तस्य स्वलक्षणस्यान्तर्मध्यं तत्र प्रवेशस्तद्विषयतेति यावत् ।
जलचन्द्रो वेति । यद्यपि कथंचिन्नभश्चन्द्रेणा म्भश्चन्द्रस्य जन्यमानत्वात्तदुत्पत्तिरप्यत्र विद्यते, तथापि तदाकारतेव प्राधान्येन विवक्षिता । तदध्यवसायेति । तस्योत्पादकस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org