________________
VAISHALI INSTITUTE RESEARCH BULLETIN NO, I सादृश्यं भवतां दर्शने तात्त्विकमस्ति, विविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणानां पारमार्थिकत्वाभ्युपगमात् । अनादिकालालीनवासनाप्रबोधसंपादितसत्ताकनिर्विकल्पकविविक्तदर्शनोत्तरकालभाविविकल्पव्यवस्थापितसादृश्यवशादर्थ ग्रहणनियमे सत्येकनीलस्वलक्षणे क्षणे सकलकालकलापव्यापिकाककुवलयादिगतनीलताया व्यवस्थिति रविशेषेणानुषज्येत, तथा च प्रतिनियतो ग्राह्यग्राहकभावो न घटामटाट्येत । अगुल्यग्रनिर्दिश्यमानपुरोवर्तिनीलस्वलक्षणदर्शनबलायातत्वात् नैल्यविकल्पस्य तदेवाध्यवस्यति न भूतं भावि काककुवलयादिगतं वा इति चेत्, तर्हि विकल्पः स्वलक्षणनिष्ठः प्राप्तः, नियतदेशदशावच्छिन्नार्थक्रियासमर्थार्थग्रहणात् । तथा हितदध्यवसायः किं तद्विकल्पनं उत तद्ग्रहणम् न तावत् तद्विकल्पनम् विकल्पानां भवदभिप्रायेण स्वलक्षणान्तःप्रवेशाभावात् । तदुक्तम् -
तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः।
शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसंभवात् ॥१॥ इति ।
अथ ब्र यात्-यद्यपि विकल्पाः सामान्यं गोचरयन्ति तत्त्वतः, तथापि प्रत्यक्षविकल्पयोयोगपद्येन प्रवृत्तेविमूढः प्रतिपत्ता विकल्पस्यापि स्वलक्षणनिष्ठतां व्यवस्यति । तथा चोक्तम्
मनसोर्यगपवत्तेः सविकल्पाविकल्पयोः । विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ।।१।। इति ।
तथापि शठः शाठ्येन निर्लोठनीय इत्यभिप्रायवान् प्राचार्यस्तत्प्रसिद्धप्रत्यक्षद्वारेण शब्देऽपि प्रामाण्यमाह -- प्रत्यक्षेऽपीत्यादि । त्रयीति । त्रयोऽवयवा रूपाणि यस्यां गतौ । गतिरिति प्रकारः । असाधीय इति । एतदनयोः प्रकर्षणासाधु, गुणाङ्गाद्वेष्ठेयसू (सि०हे. ७-३-६)।
विविक्तेति । विविक्ताः परस्परमत्यन्तभिन्नाः, न पुनरवयव्यादिरूपेण कथंचिदेकरूपाः । अनादीत्यादि । अनादिकालादालीना संबद्धा या वासना तस्याः प्रबोधस्तेन संपादिता सत्ता यस्य स चासो, निर्विकल्पक व्यवसायशून्यं विविक्तं स्फुटं यद्दर्शनं प्रत्यक्षं तदुत्तरकालं भवनशीलो विकल्पश्च तेन व्यवस्थापितं यत्सादृशं तस्य वशः सामर्थ्यम्; यदुक्तंप्रायत्ततायामायत्ते प्रभुत्वे च वशं विदुः । तस्मात् ।
तेनेत्यादि । यत एवं वस्तुनि शब्दार्थे दोषस्तेन कारणेन, अन्यापोहविषया विकल्पबुद्धिपतिभासविषया: शब्दा बुद्धयश्च प्रोक्ता प्राचार्यदिग्नागेन । किंभूता बुद्धयः ? सामान्यगोचराः सविकल्पिकाः न सर्वाः, निर्विकल्पाध्यक्षबुद्धीनां वस्तुविषयाभ्युपगमात् । बुद्धीनामेवैतद् विशेषणं न शब्दानाम्, तेषां सामान्यविषयत्वाव्यभिचारात्; किं कारणं, वस्तुन्येषां शब्दानां विकल्पानां चासंभवादिति । एतदर्थश्च विस्तराथिना प्रमाणवार्तिके कल्याणचन्द्रकृतटीकातोऽवसेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org