________________
NYAYĀVATĀRAN तद्वत्ताप्रकाशकेन वचसा तद्धेतूनामसिद्धतोद्भाव्यत इति । तदयुक्ततरम्, यतो यदीदमप्रमाणमिति नाभिधेयादीनि साक्षाल्लक्षयत् प्रवर्तयति, ततः परोपन्यस्तहेत्वसिद्धतां कथयतीति युक्तिरिक्त पश्यामः, अप्रमाणस्याकिंचित्करत्वात्, अन्यथा प्रमाणविचारणमानर्थक्यमश्नुवीत । तस्मादिदं प्रमाणभूतं सदभिधेयादीनि प्रतिपादयत् प्रेक्षावतः प्रवर्तयतीति प्रकरणादावुपन्यस्तम् ।
संबन्धशून्यत्वादस्य कथमर्थे प्रमाणतेति चेत्, प्रत्यक्षेऽपि कथं तहि सेति वाच्यम् । ग्राह्यग्राहकभावसंबन्धबलादिति चेत्, अत्रापि वाच्यवाचकभावादिति ब्रमः । स एव कथमिति चेत्, अध्यक्षेऽपि वेद्यवेदकभावः कथमिति वाच्यम् । तदुत्पत्तितदाकारताभ्यामिति चेत्, केयं तदुत्पत्तिर्नाम। तज्जन्यतेति चेत । प्रतिक्षणं भङ्गुरत्वे सैव दुरुपपादेत्याचक्ष्महे । तथा हि क्षणनश्वरोऽर्थः स्वक्षणे-पूर्व पश्चाद् वा कार्यं कुर्यादिति त्रयी गतिः । तत्र न तावदाद्यः पक्षः कक्षीकरणीयः, समकालभाविनिव्यापाराभावात्, इतरथैकक्षणवर्तिनां समस्तार्थक्षणानामितरतरं कार्यकारणभावः प्रसज्येत, तथा च तत्प्रयुक्तो ग्राह्यग्राहकभावश्चेत्यसमञ्जसमापनीपद्येत । अथ स्वक्षणात्पूर्वम्, अचारु एतदपि, स्वयमसतो भविष्यच्छङ्खचक्रवादेरिव पूर्वकालवर्तिनि कार्ये व्यापाराभावात् । अथ स्वक्षणादूर्ध्वं कार्य विधत्त इति मन्येथाः, एतदप्यसाधीयः, विनष्टस्य कार्यकरणाक्षमत्वात्, अन्यथा मतस्य शिखिन: केकायितं स्यात् ।। तदाकारतापि किमर्थाकारसंक्रान्त्या, अथ तत्सदशतयोत्पत्तेर्ज्ञानस्येति । यद्याद्यः कल्पः, तदयुक्तम, ज्ञाने स्वाकारार्पणादर्थस्य निराकारतानुषङ्गात्, स्वदेहे पृथुतरार्थदर्शनप्रसङ्गात्, शिरःस्फोटनप्लावनाद्यनर्थप्रसक्तेश्च । अथ द्वितीयः, तथा सति सादृश्यवशादर्थव्यवस्थेत्यायातम् । न च
अभिधेयादिसूचने इति । प्रास्तामभिधेयादीनां प्रतिपादने। एवंवादीति । एवं वक्ष्यमाणप्रकारेण वादवान् एवं वदनशीलो वा । तदिति तस्मादर्थे अव्ययम् । अनेनादिवाक्येनास्य शास्त्रस्य तद्वत्ता अभिधेयादिमत्ता॥ संबन्धशून्यत्वादित्यादि। इह यद्यपि परमार्थतो जनानां कथंचित्तादात्म्यलक्षण: शब्दार्थयोः संबन्धः। यदाह भगवान् भद्रबाहुस्वामी--
अभिहाणं अभिहेयाउ होइ भिन्नं अभिन्नं च। खुरपग्गिमोयगुच्चारण म्मि जम्हा उ वयणसवणाणं ॥१॥ विच्छेदो न वि दाहो न पूरणं तेण भिन्नं तु । जम्हा य मोयगुच्चारणम्मि तत्थेव पच्चो होइ ।।२।। न य होइ स अन्नत्थे तेण अभिन्नं तदत्थाम्रो ॥ इति । [अभिधानमभिधेयाद् भवति भिन्नमभिन्न च । खुराग्निमोदकोच्चारणे यस्मात्तु वदनश्रवणयोः ॥१॥ विच्छेदो नापि दाहो न पूरणं तेन भिन्नं तु । यस्माद् मोदकोच्चारणे तत्रैव प्रत्ययो भवति ।।२।। न च भवति स प्रन्यार्थे तेनाभिन्नं तदर्थात् । (छाया) ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org