________________
2
VAISHALI INSTITUTE RESEARCH BULLETIN NO. I तस्य चेदमादिवाक्यम्
प्रमाणव्युत्पादनार्थमिदमारभ्यते । प्रमाणेत्यादि। अनेन चतादात्म्यतदुत्पत्तिलक्षणसंबन्धविकलतया ध्वनेबहिर) प्रति प्रामाण्यायोगादभिधेयादिसूचनद्वारोत्पन्नार्थसंशयमुखेन श्रोतारः श्रवणं प्रति प्रोत्साह्यन्ते इति धर्मोत्तरो मन्यते । तदयुक्तम् । यदि हि शब्दस्यार्थप्रकाशनं प्रति सामर्थ्यं न समस्ति, तत् कथमसावभिधेयादिसूचने पटिष्ठः स्यात् । न च तस्याप्रामाण्ये एतच्छवणादर्थसंशयं कुर्वन्ति प्रेक्षावन्तः, तद्वत्ताहानेः मिथ्याज्ञानादपि प्रवृत्त्यविरामप्रसङ्गाश्च । अर्चटस्त्वाह-न श्रावकोत्साहकमेतत्, प्रामाण्याभावात्, तेषां चाप्रामाण्यादप्रवृत्तेः, अन्यथा प्रेक्षावत्ताक्षतेः, किं तहि प्रकरणार्थकथनावसरोपस्थितपरोपन्यस्तहेत्वसिद्धतोद्भावनार्थम् । तथा हि-संभवत्येवंवादीनारब्धव्यमिदम्, अभिधेयादिशून्यत्वात्, काकदन्तपरीक्षादिवदिति, तदनेनास्य इति संबन्धः । स्मृते/ज-संस्कारः स्मरणाकुरोत्पादकत्वेन बीजमिव बीजमिति लक्षणया बीजशब्देन संस्काराभिधानात, तस्य विवर्धनाय ! अन्यत्र किल क्षेत्रादौ बीजस्य विशेषतो वृद्धये विशिष्टा वृतिरावरणं विधीयत इति प्रतीयमानमर्थान्तरम् ॥ निरतिशयदेवतास्तवस्याभिप्रेतार्थसाधकत्वाभावादवियुतसामान्यविशेषदेशिनमित्यनेन भगवतो वचनातिशयमाह । वचनातिशयश्च ज्ञानातिशयमन्तरेण नोपपद्यत इति ज्ञानातिशयोऽप्यभिहितो द्रष्टव्यः। वर्धमानमित्यनेन तु अपायापगमातिशयः सूचितः, सर्वानर्थहेतोरहंकारस्य भगवता निर्मूलकाषं कषितत्वात् । एवमतिशयत्रयान्यथानुपपत्त्या पूजातिशयोऽप्याक्षिप्त एव । यद्वा वर्धते अशोकाद्यष्टमहाप्रातिहार्यसंपदा वृद्धिमान् भवतीति वर्धमानः । अस्यां च व्युत्पत्तावनेनापि विशेषणेन प्रजातिशयः प्रादुरभावि ।।
अनेन चेत्यादि । न तावच्छब्दार्थयोस्तादात्म्यलक्षण : संबन्धः, तथा प्रतीतेरभावात । यदि चाप्रतीयमानमपि तयोस्तादात्म्यं कल्प्येत, तदाग्निमोदकादिध्वनिध्वननानन्तरं वदनदहनपूरणादयः स्युः, न च दृश्यन्ते, तन्न तयोस्तादात्म्यम् । नापि तदुत्पत्तिलक्षण: सम्बन्धो विचारभारसहः, यत: शब्देनार्थोऽर्थेन वा शब्दो जन्यते इति विकल्पद्वयम् । तत्र न तावदाद्यः पक्षः, यतः शब्दादर्थोत्पत्त्यभ्युपगमे न कश्चिदप्यसंपूर्णकामः स्यात्, सुवर्णकोटिमें भूयादित्यादिध्वनितोऽत्यन्तदारिद्रयोपद्रुतस्यापि पुंसः सुवर्णकोटयादिलाभप्रसङ्गात् । नाप्यर्थेन शब्दो जन्यते इति द्वितीयः पक्षः, अकृतसंकेतस्यापि पुंसः प्रथमपनसदर्शने तच्छब्दोत्पत्तिप्रसङ्गात्, तथा अगुल्यने करिशतमित्यादिध्वनीनामर्थाभावेऽप्युत्पत्तेश्च । किं च । अर्थाद् ध्वनीनामुत्पादे अर्थेषु यथास्वं पुरुषबुद्धिनिरपेक्षाणा शब्दानां श्रवणं स्यात् । न चार्थमात्रात् पुरुषबुद्धिनिरपेक्षाद् ध्वनयः समुत्पद्यमाना विलोक्यन्ते घटन्ते वा । तथा हि-प्रथममर्थदर्शनम्, ततस्तत्प्रतिपादनाभिप्रायः, ततो विवक्षा, ततः स्थानकरणाभिघातः, ततः शब्दनिष्पत्तिः, तन्न शब्दानामर्थजन्यता। इत्थं संबन्धद्वयवैकल्यतो बहिरर्थे शब्दानां प्रामाण्याभाव: । अभिधेयादिसूचनेति । यदाह धर्मकीतिविनिश्चये-वक्तुरभिप्रेतं तु सूचयेयुः शब्दा इति । अर्थसंशयमुखेन इति च वदन् अर्थसंशयोऽपि हि प्रवृत्त्यङ्गमिति दर्शयन् अनर्थसंशयस्य प्रवृत्त्यङ्गतां निषेधयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org