________________
श्रीसिद्धसेनदिवाकरविरचितः
न्यायावतारः
श्री देवभवसूरिकृतटिप्पनसंवलितश्रीसिद्धर्षिगरिणकृतटीकासहितः ।
अवियुतसामान्यविशेषदेशिनं वर्धमानमानम्य । न्यायावतारविवृतिः स्मृतिवीजविवृद्धये क्रियते ॥१॥ नत्वा श्रीवरमेकान्तध्वान्तविध्वंशभास्करम् ।
वृत्तौ न्यायावतारस्य स्मृत्य किमपि टिप्यते ॥१॥ इहाभीष्टदेवतानमस्कारपुरःसरमनुष्ठीयानं समस्तमपि प्राय: प्रयोजनं निर्विघ्नां सिद्धिमध्यास्त इति मन्यमानो व्याख्यातेति प्रसिद्धः सिद्धः पूर्वार्धन भगवतो वर्धमानस्वामिनो नमस्कारं तथाभिधेयादिप्रतिपत्तिमन्तरेण क्वचिदपि प्रेक्षावतां प्रवृत्तिर्नोपपद्यत इत्युत्तरार्धनाभिधेयप्रयोजने च प्रतिपादयन्नाह --अवियुतेत्यादि । संबन्धस्तूपायोपेयलक्षणः सामदिवसेयः । तत्र समुदायार्थस्य पातनिकयैव व्याख्यातत्वादवयवार्थोऽभिधीयते । यु मिश्रणे, विशेषेणकान्तेन युती मिश्रीभूतो वियुतौ, न तथा एवंविधौ सामान्यविशेषी दिशतीत्येवंशीलस्तम्। अनेन सामान्यादत्यन्ताभिन्नविशेषवादिनां सांख्यानां तथा विशेषेभ्योऽत्यन्ताभिन्नसामान्याभिधायिनां सौगतानां च निरासः कथंचिदभिन्नयोरेव सामान्य विशेषयोविविक्तयुक्त्या पुरः प्रतिपादयिष्यमाणत्वात् । तथा केचिद् धातुपारायणकृतो यु अमिश्रणे इति पठन्ति, तथा च अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः स समवायः इति वैशेषिकीयसूत्रे अयुतसिद्धानामपृथक् सिद्धामामिति व्याख्यातम् । तथा लोकेऽपि भेदाभिधायी युतशब्दः प्रयुज्यमानो दृश्यते । यथा 'द्वावपि भ्रातरावेती युतौ जातो' इत्यादि । ततो विशेषेण कान्तेन युतौ पृथग्भूतौ, न वियुतौ कथंचिद्भिन्नावित्यर्थः। अस्मिश्च व्याख्याने नैयायिकवैशेषिकयोरत्यन्त भिन्नसामान्यविशेषवादिनोः प्रतिक्षेपः। एवं समस्ताद्वैतवादिनामप्यनेन विशेषणेन निरासोऽवसेयः तदेकत्वाभ्युपगमस्य प्रत्यक्षाधुपलभ्यमानाभ्यां सामान्यविशेषाभ्यां बाधितत्वात् । वर्ष छेदनपूरणयोः, चौरादिकत्वादिनि वध्यते छिद्यतेऽसाविति स्वरान्तत्वातकर्मण्यल्, ततो वर्षश्छिन्नो मानोऽहंकारो येन स तथा तम् । निपूर्वादिणः सर्वे गत्यर्था ज्ञानार्था इति न्यायतो ज्ञानादि नितरामीयन्ते यथास्थितस्वरूपेण परिच्छिद्यन्ते जीवाजीवादयो भावा अनेनेति "परिन्योर्नीणोधूताभ्रेषयोः" (पा० ३-३-३७) इत्यनेन घमि न्यायः प्रमाणमार्ग: । अवतरन्ति प्राणिनोऽनेनास्मिन्निति वा "अवे तुस्त्रोर्घङ' (पा० ३-३-१२०) अवतारयतीति वा कर्तयंचि अवतारस्तीर्थ, न्यायस्येति कर्मणि षष्ठी, ततो न्यायस्यावतारो न्यायावतार इति षष्ठीतत्पुरुषः। अयमभिप्रायः । यथा तीर्थापरनाम्नावतारेण नद्यादिरुत्तीर्यते, एवमनेनाप्यवतारकल्पेन शास्त्रेण न्यायाम्भोधिरुत्तीर्यत इति । तस्य विवृतिः विवरणं क्रियते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org