Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 339
________________ 22 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 बर्भा । यदि तद्विपरीतघटादिप्रतियोगिवस्त्वन्तरवैविक्त्यं तस्याकलयति नान्यथा, विजातीयव्यवच्छेदाभावे तस्यैव प्रतिनियतत्वासिद्धेः सकलसंकीर्णतया ग्रहणप्रसङ्गात्, अतोऽधिग्राह्याभावान्निर्विषयतयाभावाख्यं प्रमाणं यत् परैः पर्यकल्पि तदप्रमाणमिति स्थितम् । " द्विधेत्यस्मिन् सत्यपि 'प्रत्यक्षं च परोक्षं च' इति नियतद्वैविध्यप्रदर्शनेन सौगतपरिकल्पितं ‘प्रत्यक्षमनुमानं चेति' द्वैविध्यमपक्षिपति, तदाकूतेन तस्यायोगात् । प्रत्यक्षातिरिक्त हि तादात्म्यतदुत्पत्तिलक्षण संबन्धोपलक्षितकार्यस्वभावानुपलब्धिरूपलिङ्गत्रयसंपादितजन्मकमनुमानमेव प्रमाणं न शब्दोहादिकमू, संबन्धविकलत्वादिति तदाकूतम् । अयुक्तं चैतत्, प्रत्यक्षानुमानातिरिक्तप्रमाणान्तराभावग्रहणोपायाभावात् । न तावत्प्रत्यक्षात् प्रमाणान्तराभावावगतिः, तस्य स्वलक्षणविषय - त्वेनाभावग्राहिताविरोधात् । नापि स्वभावकार्यानुमानाभ्याम्, तयोर्वस्तुसाधनत्वात् । नाप्यनुपलब्धेः, तस्या अप्यत्यन्ताभावसाधनविरोधात् । सा हि चतुर्विधा वर्ण्यते मूलभेदापेक्षया, तद् यथा - विरुद्धोपलब्धिविरुद्धकार्योपलब्धिः कारणानुपलब्धिः स्वभावानुपलब्धिश्चेति । न तावद्विरुद्धोपलब्धेः प्रमाणान्तरस्यात्यन्ताभावः । दृश्यात्मनो विरुद्धस्य विधानेन इतराभावसाधनात्, संनिहितदेश एव प्रतियोग्यभावसिद्धेः । एतेन विरुद्ध कार्यानुपलब्धिरपि व्याख्याता, तस्या अपि प्रतिषेध्यविरोधिसंनिधापनद्व । रेणाभावसाधकत्वात् । कार्यानुपलब्धिरपि तद्देशाशङ्कितकार्यस्यैवाभावं साधयति न सर्वत्र, स्वयमसिद्धत्वात् । स्वभावानुपलब्धिरप्येकज्ञानसंसगिपदार्थोपलम्भरूपा तद्देश एव प्रतिद्वन्द्व्यभावं गमयति । अतः प्रमाणान्तरस्यापि क्वचिन्निषेधः स्यात् न सर्वत्र । तन्न प्रमाणान्तरबाधकं समस्ति । प्रत्यक्षानुमानयोश्च प्रामाण्यं कुत इति चिन्त्यम् । न तावत्प्रत्यक्षात् निर्विकल्पकतया सतोऽप्यसत्कल्पत्वात् । तत्पृष्ठभावी विकल्पस्तु न स्वलक्षणाम्भोधिमध्यमवगाहते, तत्कथं तत्राप्रविष्टस्तत्स्वरूपं निश्चिनुयात् । अप्रमाणभूताच्च तस्मात्प्रामाण्यनिर्णय इति निबिडजडिमाविष्करणं भवताम् । अनुमानात्प्रामाण्यनिर्णय इति चेत्, न तस्यापि स्वलक्षणाद् बहिः प्लवनात् । अप्रामाण्यव्यवच्छेदस्तेन साध्यते इति चेत्, न, व्यवच्छेदस्य व्यवच्छिन्नाव्यतिरेकात्, तस्य तदिति । प्रमाणस्य । तस्यापि प्रमाणान्तरस्य । एवमिति । श्रमुना यदित्यादिना वक्ष्यमाणप्रकारेण तद्विपरीतेति । ततो भूताद्विलक्षणम् । वैविक्त्यं राहित्यम् । तस्य भूतलस्य । तद्यथेत्यादि । विरुद्धोपलब्धिर्यथा - नात्र शीतस्पर्शः, अग्नेरिति १ । विरुद्धकार्योपलब्धिर्यथा — नात्र शीतस्पर्शः, धूमादिति २ । कारणानुपलब्धिर्यथा - नात्र धूमः, अग्न्यभावादिति ३ । स्वाभावानुपलब्धिर्यथा - नात्र धूमः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ४ । शेषास्तु सप्तादि अनुपलब्धयो धर्मबिन्दुप्रभृतिशास्त्रप्रतिपादिता एष्वेव चतुर्षु भेदेष्वन्तर्भवन्ति इति प्रतिभेदरूपत्वान्न न पृथगभिहिताः । दृश्यात्मन इति । दृश्यस्वरूपस्य विरुद्धस्य वह्नयादेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414