Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 332
________________ NYĀYĀVATARAḤ स ह्येवं व्युत्पादितोऽपि साक्षाद् ग्राह्यग्राहकं ज्ञानविशेषं लक्षयति, तत्रैव रूढत्वात्, यथा गमनक्रियायां व्युत्पादितोऽपि गोशब्दः ककुदादिमन्तं पिण्डविशेषं गच्छन्तमगच्छन्तं वा गोचरयति, तत्रैव तस्य प्रसिद्धत्वात्, न गमन क्रियायुक्तमपि पुरुषादिकं विपर्ययादिति । ततश्च सर्वज्ञज्ञानानां यत्स्वरूप संवेदनं तदपि प्रत्यक्षमित्युक्त भवति । तत्रापि स्वरूपस्य ग्राह्यस्य साक्षात्करणसद्भावादिति । अक्षेभ्यः परतो वर्तते इति परोक्षम्, अक्षव्यापारनिरपेक्षमव्यापारेणासाक्षादर्थपरिच्छेदकं यज्ज्ञानं तत्परोक्षमिति भावः । चशब्दौ प्रत्यक्ष परोक्षयोस्तुल्यकक्षतां लक्षयतः । तेन यत्परे प्राहुः प्रत्यक्षं सकलप्रमाणज्येष्ठमित्यादि तदपास्तं भवति, द्वयोरपि प्रामाण्यं प्रत्यविशेषात्, विशदाविशदप्रतिभासविशेषस्य सतोऽपि ज्येष्ठतां प्रत्यनङ्गत्वात् । प्रत्यक्षस्य पुरःसरत्वात्परोक्षस्य कनिष्ठतेति चेत्, नायमेकान्तः, सर्वत्रान्यथानुपपन्नतावधारितोच्छ्वासनिःश्वासादिजीवलिङ्गसद्भावासद्भावाभ्यां जीवसाक्षात्कारिप्रत्यक्षक्षूणेऽपि जीवन्मृत्तप्रतीतिदर्शनात्, अन्यथा लोकव्यवहाराभावप्रसङ्गात् । क्वचित् प्रत्यक्षगृहीतसंबन्धवलात्परोक्षं प्रवर्तत इति प्रत्यक्षस्य ज्येष्ठत्वकल्पने पश्य मृगो धावतीत्य) दिशब्दवलात्कृका टिकामोटनद्वारेण मृगविषयं तथा स्मरणात्संकेतग्रहणाद्वा अपूर्वा पूर्वार्थदर्शनकुतूहलादिना वनदेवकुलादिगोचरं परोक्षपूर्वं प्रत्यक्षं दृष्टमिति परोक्षस्य ज्येष्ठता सज्येत । द्विधेति । सर्वं वाक्यं सावधारणं प्रवर्तते इति न्यायात्, अन्यथानियतार्था प्रदर्शकत्वेन तदुच्चारणवैयर्थ्यप्रसङ्गात् विपरीताकारनिराकरणचातुर्यायोगेन निरा काङ्क्ष प्रवृत्त्यसिद्ध ेः द्विधैव इत्यवधारणेन परपरिकल्पितविपरीत संख्यान्तरं 15 प्रक्षं प्रतिगतं प्रत्यक्षमिति । श्रक्षशब्दस्य नपुंसकत्वात् तत्पुरुषस्य चोत्तरपदप्रधानत्वात् नपुंसकत्वमेव प्राप्तमिति न वाच्यम्, परलिङ्गोद्वन्द्व - इत्यधिकारे प्रशीति सिद्धमलिङ्गानुशासन सूत्रेण श्रंश्येव तत्पुरुष उत्तरपदलिङ्गभाक् यथा - पिप्पल्या अर्धपिप्पलीयम् श्रर्धी जरत्या श्रधंजरतीयम् । तेनान्यत्र वाच्यलिङ्ग एव तत्पुरुषः । तत्र प्रत्यक्षो बोधः प्रत्यक्षा बुद्धिः प्रत्यक्षं ज्ञानम् ।। उज्जिहीते उत्पद्यते । विपर्ययात् पुरुषादौ गोशब्दस्यासिद्धत्वात् । तथा स्मरणादित्यादि । अपूर्वा पूर्वार्थदर्शनविषये कुतूहलेन श्रादिशब्दात्प्रयोजनादिना कृत्वा हेतुना वा वनविषयं देवकुलादिविषयं वा परोक्षपूर्वमध्यक्षमीक्षितम्, कुतूहलाद्यपि कुत इत्याह- स्मरणात्, अनुभूतमर्थं हि स्मृत्वोत्पन्न कुतूहल: पुमान् प्रवर्तते इति तथा संकेतग्रहणात्, गृहीतसंकेतो हि संकेतिते स्थाने जातदिदृक्षो द्रष्टुं प्रवर्तते ॥ द्विषेति । सवं वाक्यं सावधारणमित्यादि । श्रत्र केचिदाहुः - यथा श्रत्र द्विषेत्युक्ते द्विषैव न त्वेकधा त्रिधा वेत्येवमन्ययोगव्यवच्छेद:, तथा चैत्रो धनुर्धर इत्यादिष्वपि चैत्रस्य धनुषं रत्वमेव स्यात् न शौयौदार्यधैर्यादयः । तदयुक्तम्, यतः सर्वं वाक्यं सावधारणमिति न्यायेऽप्याशङ्कितस्यैव व्यवच्छेदः । परार्थं वाक्यमभिधीयते, यदेव च परेण व्यामोहादाशङ्कितं तस्यैव व्यवच्छेदः, चैत्रो धनुर्धर इत्यादौ चैत्रस्य धनुर्धरत्वायोग एव परेराशङ्कित इति तस्यैव व्यवच्छेदो नान्यधर्मस्य । इह तु चार्वाकनैयायिकादय ऐकध्यमनेकधा च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414