Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 336
________________ NYAYĀVATĀRAH 19 पुंसः स्मरणानुपपत्तेरिति । ऊहोऽपि प्रत्यक्षानुमानासंवेद्यसाध्यार्थान्यथानुपपन्नत्वलक्षणलिङ्गसंबन्धग्रहणप्रवणः प्रमाणान्तरमिति कथयिष्यते। अर्थापत्तिस्तु प्रत्यक्षादिगोचरीकृते स्फोटादिपदार्थान्यथानुपपत्त्या दहनशक्त्यादिकं पावका देरर्थान्तरं पूर्वदर्शनगोचरात् समधिकमव्यभिचरितं परिकल्पयतीति प्रमाणतां स्वीकरोत्येव तल्लक्षणयोगात् । एवमन्यदपि प्रत्यक्षगोचराधिक्यसंपादकं निराकाङ्क्षतया व्यवहारकारि यत्संवेदनं तत्तत्प्रमाणमिति समर्थनीयम्, स्वपरप्रकाशिनिधित्वात्, पूर्वापरसोपानपद्धतिदर्शनोत्तरकालभावि तत्संख्यासंवेदनवत् । सर्वेषां चैतेषांपरोक्षेऽन्तर्भावः, अन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थसंवेदनचतुरत्वादिति । किंचिद्विशेषात्तु प्रमाणान्तरपरिकल्पने प्रमाणेयत्ता विशीर्येत, आनन्त्यप्राप्तेः, आवरणक्षयोपशमविचित्रतया ज्ञानप्रवृत्तेविचित्रत्वादिति । ननु चैवं सति यत्परोक्षस्य द्वैविध्यं वक्ष्यमाणमनुमानशाब्दभेदेन तदपि कथमुपपत्स्यते, तत्रापि ह्याप्तप्रणीतवचनप्रभवज्ञानस्यार्थान्यथानुपपन्नत्वेनानुमानान्तभावो न दुरुपपादः । ततश्चानुमानमेवैकमवशिष्यते तदेव परोक्षशब्देन यद्युच्येत युक्तमास्ते, विदुषामभिधानं प्रत्यनादरात्; सत्यमेतत्, एवं तु मन्यते तद् यद्यपि कयाचित्प्रकिययानुमानान्तभवयितुं शक्यं शाब्दम्, तथापि तत्प्रति विप्रतिपद्यन्ते परे। अतस्तस्याहत्य प्रामाण्यं समर्थनीयम् । न चापृथग्भूतस्य तद्विविक्त वक्तुं शक्यम्, अतः पार्थक्येनोपन्यासः । अनेन चैतदुपलक्षयति-अन्येषामपि परोक्षविशेषाणाम दभ्यासादिपरिग्रहः । तथा च न्यायशास्त्रम्-प्रणिधाननिबन्धाभ्यासलिङ्गसादृश्यपरिग्रहाश्रयाश्रितसंबन्धानन्तर्यवियोगककार्याविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषक्रियाथित्वरागधर्माधर्मनिमित्तेभ्य (गौ० ३-२-४३) इति । एतद्व्याख्या च तत एव न्यायशास्त्रादवगन्तव्या, इह तु नोच्यते, सुगमत्वात् ग्रन्थगौरवभयाच्च । अनुभूतो विषयो येन तदनुभूतविषयं ज्ञानं तस्यासंप्रमोषोऽभ्रंशो ज्ञानानुवृत्तिरिति यावत्, स एव लक्षणं यस्य तत्तथा। ऊहोपीत्यादि । प्रत्यक्षानुमानाभ्यामसंवेद्यः साध्यार्थान्यथानुपपन्नत्वस्वरूपो यो लिङ्गस्य साध्येन सार्ध संबन्धस्तस्यादाने सज्जस्तत्पर इति यावत् । तल्लक्षरणयोगादिति । प्रमारणलक्षणोपपत्तेः । सर्वेषामित्यादि । एतेषामुपमानादीनाम् । तथा हि-एवमुपमानेऽन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थवेदनचतुरत्वं स्मर्य माणदृश्यमानयोर्गोगवयपिण्डयोरविलक्षणविषाणाद्यवयवयोगित्वमन्यथा नोपपद्यते, यदि तयोः किंचित्सारूप्यं न स्यात् । एवं प्रत्यभिज्ञाने इदानीं दृश्यमानः पर्यायोऽन्यथा नोपपद्यते, यदि पूर्वानुभूतः परंपरया एतस्य कारणभूतो द्रव्यरूपतयतदात्मा पर्यायो न स्यात् तथा स्मरणेऽपि संस्कारोऽन्यथा नोपपद्यते, यदि पूर्वानुभवो न भवति । संस्कारप्रबोधश्च पूर्वानुभवस्मारकः क्वचित्तादृशदर्शनेन, क्वचिच्चाभोगादिभिरिति प्रागेवाभिहितम् । एवमूहेऽपि कतिपयधूमधूमध्वजव्यक्तीनामव्यभिचरितं साहचर्य प्रत्यक्षेणोपलभ्यमानमन्यथा न जाघटीति, यदि सर्वत्र धूमाग्निव्यक्त्योरन्यथानुपपन्नत्वलक्षण: संबन्धो न स्यात् । अर्थापत्तौ तु वह्निसंयोगात्करतलगतं स्फोटलक्षणं कार्य प्रत्यक्षेणोपलक्ष्यमाणमन्यथा नोपपद्यते, यदि वह्नः काचिद्दाहिका शक्तिर्न स्यात् । पूर्वापरसोपानपद्धतिदर्शनोत्तरकालभाविशतादिसंख्यासंवेदने तु पर्यन्तसोपानानुभवः पूर्वानुभूतनवनवत्यादिसोपानसंस्मरणसंवलितोऽन्यथा न संगच्छते, यदि शतादिसंख्या सोपानानां न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414