Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 326
________________ NYAYAVATARAḤ विनिर्लुठितक्षणक्षयपरमाणुलक्षणानि स्वलक्षणानि प्रमाणगोचरस्तात्त्विक इति बौद्धाः । सामान्यविशेषात्मकं वस्त्विति मीमांसकाः परस्परविभक्तौ सामान्यविशेषाविति नैयायिकवैशेषिकाः । त्रैगुण्यरूपं सामान्यमिति सांख्याः । भूतचतुष्टयं प्रमाणभूमीति चार्वाकाः । तथा फलेऽपि विप्रतिपद्यन्ते, अर्थाधिगतिः प्रमाणफलमिति सौगताः । पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं तु फलमिति मीमांसकादयः । तत्र तावल्लक्षणसंख्याविप्रतिपत्ती निराचिकीर्षुराह प्रमाणं स्वपराभाति ज्ञानं, बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा, मेयविनिश्चयात् ॥ १ ॥ तत्रापि पूर्वार्धन लक्षणविप्रतिपत्तिमुत्तरार्धेन तु संख्याविप्रतिपत्ति निराचष्टे । लक्षणं च पररूपेभ्यो व्यावर्तनक्षमोऽसाधारणधर्मः । लक्ष्यते परिच्छिद्यते विजातीयेभ्यो व्यावृत्तं लक्ष्यं येन तल्लक्षणमित्युच्यते । तच्चेह द्वये प्रत्याय्याः स्वदर्शनानुरक्तान्तःकरणास्तीर्थान्तरीयाः विप्रतिपन्नाः, तथा मुग्धबुद्धयो लौकिका अव्युत्पन्नाश्चेति । ततश्च यदादौ विप्रतिपन्नान् प्रति लक्षणं तदैवं लक्ष्यलक्षणभावो द्रष्टव्यः । यदिदं भवतामस्माकं च प्रमाणमिति प्रसिद्धम्, तत्स्वपराभासि ज्ञानं बाधविवर्जितम् मन्तव्यम् ; प्रसिद्ध प्रमाणमनूद्याप्रसिद्ध स्वपराभासित्वादि विधीयते । यदा तु अव्युत्पन्नमतीन् प्रतीदं लक्षणम्, तदा प्रतिप्राणि स्वपरप्रकाशिनो ज्ञानस्य बाधारहितस्य कस्यचित् सिद्धत्वात्, अन्यथा प्रतिनियतव्यवहारोच्छेदप्रसङ्गात्, एवं ते बोध्यन्ते यददो भवतां क्वचिन्नियतार्थग्राहि स्वपरप्रकाशकं बाधरहितं ज्ञानं प्रसिद्ध तत् प्रमाणमिति बुध्यन्ताम् । अत्रापि सिद्धस्यानुवादोऽसिद्धस्य विधानं योज्यम् ।। - -- पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ १ ॥ तां विदन्त्यधीयते वा सांख्याः; पूर्ववदण् । तालव्यादिरपि शाङ्खयध्वनिरस्तीति वृद्धाम्नाय : । तथाहि - शङ्खनामा कश्चिदाद्य: पुरुषविशेषः तस्यापत्यं पौत्रादिरिति गर्गादित्वाद्यप्रत्ययः । प्रत्यक्षमेवैकं प्रमाणमिति चार्वाका इति । चर्व प्रदने चर्वन्ति भक्षयन्ति तत्वतो न मन्यन्ते पुण्यपापादिकं परोक्षं वस्तुजातमिति चार्वाका:; मवाकश्यामाकेत्यादि सिद्धमोगादिदण्डकेन ( सू० ३७) निपातनात् ॥ प्रमाण संख्या संग्रहाय श्लोकश्चात्र Jain Education International चार्वाकोsध्यक्षमेकं सुगतकणभुजो सानुमानं, सशाब्दं । तद्वैतं पारमर्षः, सहितमुपमया तत्त्रयं चाक्षपादः ॥ अर्थापत्या प्रभाकृद् वदति स निखिलं मन्यते भट्ट एतत् । साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥ त्रैगुण्यरूपं सामान्यमिति । यो गुणाः सत्त्वरजस्तमांसि ततः स्वार्थे " ण्योऽनन्तादेः " इति ण्यः, त्रयो लोकास्त्रैलोक्यं षड् गुणाः षाड्गुण्यम्, ततस्त्रैगुण्यं रूपं स्वभावो यस्य सामान्यस्य तत् त्रैगुण्यरूपम् । भूतचतुष्टयमिति । पृथ्व्यप्तेजोवायुलक्षणम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414