Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 323
________________ 6 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I साहित्यम् । तथा हि-अध्यवसायो वासनाप्रबोधवशादुत्पन्नः सामान्यमनर्थरूपं विकल्पयति । प्रत्यक्षं बहिराल्लब्ध्वात्मलाभं तदाकारं तमेव साक्षात्करोतिइति भवतां दर्शनम्, तन्न विकल्पसाहित्यं प्रत्यक्षस्य कंचन विशेष पुष्णाति । तदिदं ग्राह्यग्राहकभावकारणं प्रत्यक्षेऽपि यद् भवद्भिरभ्यधायि, तद् यथा यथा विचार्यते तथा तथा विशीर्यत इत्यनपेक्षणीयम् । तद् यथाकथंचित् प्रत्यक्षस्य प्रतिपादितग्राह्यग्राहकभावलक्षणवैकल्येऽपि ग्राहकत्वम् अर्थस्य ग्राह्यत्वम्, तथा दृष्टत्वात्, अन्यथा निखिलव्यवहारोच्छेदप्रसङ्गात् भवद्भिरपि प्रत्यपादि । तथा शब्दस्य वाचकत्वमर्थस्य वाच्यत्वं प्रतिपद्यध्वं यूयम्, अत्रापि दृष्टहानेः व्यवहारोच्छेस्य समानत्वात् । अथ इत्थमाचक्षीथाः, यथा-नद्यास्तीरे गुडशकटं पर्यस्तं, धावत धावत डिम्भकाः - इत्यादिविप्रतारकपुरुषवचनश्रवणात् प्रवर्तमाना विप्रलम्भताभाजो जायन्ते, अतः सकलवचनेष्वनाश्वास इति । एवं तर्हि चिकिचिकायमानमरुमरीचिकाचक्रचुम्बि यज्जलोल्लेखि विशददर्शनमुदयपदवीं समासादयति तदलीकमवलोकितमिति, सकलाध्यक्षेष्वनाश्वास इत्यभिदध्महे । पाश्चात्यविपरीतार्थोपस्थापकप्रमाणवाधितत्वाद् मरीचिकासु जलज्ञानमप्रमाणं न शेषसत्यस्तम्भादिज्ञानानि, बाधारहितत्वादिति चेत् ; तर्हि ध्वनावप्ययं न्यायः कि काकैर्भक्षितः । न हि वयं सर्वशब्दानां प्रामाण्यं प्रतिपद्येमहि, किं तहि सुनिश्चिताप्तप्रणेतृकाणामेव । तन्न प्रामाण्यं प्रति प्रत्यक्षशब्दयोविशेषमुपलभामहे । एष तु विशेषः स्यात्, प्रत्यक्षं चक्षुरादिसामग्रीविशेषजन्यत्वात् संनिहितनियतार्थग्राहि स्पष्टप्रतिभासम्, शाब्दं तु तथाविधकारणविकलत्वाद् नियतानियतार्थग्राहि अस्पष्टप्रतिभासम् । न च एष विशेषः प्रामाण्यक्षतिकारी, इतरथानुमानस्याप्यप्रामाण्यमासज्येत, तस्याप्यविशदानियतार्थग्राहित्वात् । परमार्थतस्तु त्रिकालव्यापिनः सर्वार्थग्रहणस्वभावत्वेऽपि आवरणतिरस्कृतस्य जीवद्रव्यस्य चक्षुरादिसामग्रीसापेक्षावरणक्षयोपशमवशात् संनिहितस्पष्टार्थग्रहणपरिणामः प्रत्यक्षमि त्युच्यते । शब्दसापेक्षक्षयोपशमात्त नियतानियताविशदार्थग्रहणपरिणामस्तु शाब्दमिति । तन्न तदुत्पत्तितदाकारते प्रत्यक्षे शाब्देऽन्यस्मिन् वा ज्ञाने वास्तव्यौ स्तः । तस्मात्पारमार्थिकाभिधेयप्रयोजनसंबन्धप्रतिपादकमेतदादिवाक्य मिति स्थितम् ।। तत्राभिधेयं वाच्यं, तच्चेह प्रमाणम्, तस्यैव प्रकरणेन प्रतिपाद्यत्वात्, तत्प्रमाण इत्यवयवेन लक्षयति । प्रयोजनं द्विधा, श्रोतुः कर्तुश्च । पुनरपि द्विविधं ध्यवसायो विकल्पनम् । चिकिचिकायमानेति । चिकिचिकाशब्दो देदिप्यमानार्थः; स चानुकरणे पटपटाशब्दवद् डाजन्तः तद्वदाचरति । वास्तव्याविति । वस्तुशब्दात् वस्तुनि परमार्थे "भवे" (सि० हे० ६-३-१२३) इति भवार्थाणप्रत्ययान्तादीप्रत्ययः, पारमार्थिक्यावित्यर्थः । वास्तव्यशब्दात्तु स्त्रियामाप्रत्यये वास्तव्ये इति स्यात् । तत्रेत्यादि । तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते, तच्चाभिधेयत्वगुणेन । दयमर्थ:--तेषामभिधेयादीन मध्येऽभिधेयं किमुच्यते । पाह-वाच्यमिति । अभिधेयशब्दस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414