________________
दीधिति: ५
܀܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
सर्वत्राव्याप्यवृत्तिसाध्यके तद्विशेषणं उपादेयमेव इति क्वचित्पदानन्तरविद्यमानस्य एवकारस्यार्थः । व्याप्यवृत्तिसाध्यके सर्वत्रैव न देयम् । अत्र "गुणत्वात्" इत्येव यदि हेतुरुच्यते तदा तु गुणत्वाधिकरणे जन्यगुणे कालिकेन संयोगस्य संयोगाभावाभावात्मकस्य विद्यमानत्वात् अव्याप्तिः भवति तद्विशेषणं विना । अतः नित्यपदोपादानं कृतं ।
ચન્દ્રશેખરીયા: "સંયોગાભાવવાન્ નિત્યગુણત્વાત્" આ સાચા સ્થળે નિત્યગુણત્વાધિકરણ નિત્યગુણોમાં સાધ્યાભાવ=સંયોગાભાવાભાવ=સંયોગ એ કાલિક, સમવાય, સંયોગ આદિ કોઈપણ સંબંધથી રહેતો જ હોવાથી સાધ્યાભાવ લેવાશે જ નહીં. એટલે અહીં પેલા વિશેષણ વિના પણ બીજા અભાવને લઈને લક્ષણ સમન્વય થઈ જ જાય છે. જ્યારે જે સાધ્યો સર્વથા વ્યાપ્યવૃત્તિ જ છે. ત્યાં તો કોઈપણ સ્થાને એ વિશેષણ લેવાનું નથી જ. અહીં નિત્યગુણત્વને બદલે જો માત્ર ગુણત્વ હેતુ લો, તો તેનું અધિકરણ જન્યગુણો પણ બને. અને તેમાં તો કાલિકસંબંધથી સંયોગાભાવાભાવ=સંયોગ ૨હેવાનો જ છે. એટલે ત્યાં તો અવ્યાપ્તિ આવે. અને પેલું વિશેષણ લેવું પડે. માટે જ "નિત્ય" પદ મુકેલ છે. નિત્યગુણોમાં કાલિકથી પણ સંયોગાદિ વિશેષણની જરૂ૨ ન પડે. આ વિવક્ષાથી એ સમજી લેવાનું કે હેત્વધિકરણમાં જે અભાવ રાખવાનો છે. એ કોઈપણ સંબંધથી *રાખવાની મંજુરી છે.
जागदीशी -- *साध्यसाधनभेदेनेति* साध्यताघटकसम्बन्धादेरप्युपलक्षकम् ।
चन्द्रशेखरीयाः ननु एवं क्वचित् प्रतियोग्यसमानाधिकरणघटितलक्षणं, क्वचिच्च तदघटितं इति व्याप्तिलक्षणभेदो भवेत् इति चेत् भवेदेव । साध्यभेदेन साधनभेदेन च व्याप्तिभेदः स्वीक्रियते एव इति इष्टापत्तिरस्माकं ।
ननु दीधित्यां साध्यसाधनभेदेन व्याप्तिभेदः प्रतिपादितः । तथा च साध्याभेदे व्याप्त्यभेदः इति अर्थात् आपतितम् । तथा च "संयोगी द्रव्यत्वात्, समवेतवान् द्रव्यत्वात्" इति द्वयोरनुमानयोः संयोग एव साध्यः इति तत्र व्याप्त्यभेदः एव मन्तव्यः । न च तदिष्टं । संयोगत्वेन संयोगसाध्यके तद्विशेषणघटितं समवेतत्वेन च संयोगसाध्यके तदघटितं लक्षणमेव समुचितं । एवं कालिकेन द्रव्यत्वसाध्यके समवायेन च द्रव्यत्वसाध्यकेऽनुमाने साध्यस्यैक्यात् व्याप्तिलक्षणं एकमेव : मन्तव्यं भवेत् । न च तदिष्टं इति प्रागेवोक्तं इति चेत् ।
न, दीधितिग्रन्थः "साध्यसाधनभेदेन व्याप्तिभेदात्" इत्याकारकः साध्यतावच्छेदकसम्बन्धभेदेन साध्यतावच्छेदकधर्मभेदेन: च व्याप्तिभेदोपलक्षको मन्तव्यः । तथा च यत्र साध्यतावच्छेदकधर्मयोः भेदः, तत्रापि व्याप्तिभेदो मन्तव्यः । यत्र च : साध्यतावच्छेदकसम्बन्धयोः भेदः, तत्रापि व्याप्तिभेदो मन्तव्यः इति न कश्चिद् दोषः ।
अत्रेदं अवधेयं । व्याप्यवृत्तिव्याख्यायां स्वाधिकरणे स्वरूपसम्बन्धेन वर्तमानोऽभावः साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताक एव ग्राह्यः, अन्यथा समवायेन द्रव्यत्वसाध्यतायां अपि द्रव्यत्वं स्वाधिकरणे द्रव्ये वर्तमानस्य गुणाद्यवच्छेदेन कालिकेन वर्तमानस्यद्रव्यत्वाभावस्य प्रतियोगि भवति इति तद् अपि समवायेन साध्यतायामपि अव्याप्यवृत्ति भवेत् । किन्तु द्रव्ये समवायावच्छिन्नप्रतियोगिताको द्रव्यत्वाभावः समवायेन न वर्तते । अतः द्रव्यत्वं द्रव्ये वर्तमानस्य गुणत्वाद्यभावस्य
܀܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૨૪
܀܀܀܀܀܀܀܀܀܀܀܀܀