________________
दीधितिः७
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
विशिष्टाभावभिन्नोऽभावोऽपि स्वाधिकरणस्वरूप एव मन्यते, लाघवात् । तथा च पटाभावभेदस्य अभावमात्रप्रतियोगिकत्वात् । पटाभावभेदो वयभावाभावे वलिस्वरूपे वर्तमानोऽपि वलि-अभावाभावस्वरूप एव कल्प्यते । तस्य भिन्नत्वेऽङ्गीक्रियमाणे अनन्तानामभावानां कल्पना कर्तव्या भवेत् । तथा च गौरवमेव भवेत् । एवं च वढ्यभावाभावप्रतियोगी पटाभावोऽपि भवति । स च पर्वते वर्तते । अतः वढ्यभावाभावोऽपि न स्वप्रतियोग्यसमानाधिकरणः इत्यतः प्रथमा विवक्षा समादरणीयैव । जागदीशीग्रन्थस्यार्थः-"तस्यापि वढ्यभावाभावस्यापि स्वसमानाधिकरणो योऽभावा-पटाभावः, तद्भिन्नत्वात्।
ननु "विशिष्टाभावभिन्नोऽभावमात्रप्रतियोगिकोऽभावः अधिकरणस्वरूपो मन्यते" इति उक्तं । तत्र विशिष्टाभावभिन्नपदं । *किमर्थं । अनेन तु एतदेव ज्ञायते यत्" विशिष्टाभावात्मको योऽभावमात्रप्रतियोगिकोऽभावो भवति । स अधिकरणस्वरूपो. न मन्तव्य" इति किमर्थं विशिष्टाभावोऽभावमात्रप्रतियोगिकोऽभावः अधिकरणस्वरूपो न मन्यते? इति चेत् अत्रोच्यते।। यदि हि विशिष्टाभावोऽभावमात्रप्रतियोगिकोऽभावोऽधिकरणस्वरूपो मन्यते, तदा तु लक्षणेऽत्यन्तपदनिवेशेऽपि सति कोऽपि अभावो लक्षणघटको न भवेत् । तथाहि-यदि पर्वते घटाभावो गृह्यते, तदा स घटाभावे गगनं न विद्यते अर्थात् घटाभावे गगनाभावोऽस्ति । किन्तु स गगनाभावो घटाभावभेदवान् अस्ति । अतो घटाभावे गगनाभावस्य विद्यमानत्वेऽपि घटाभावे घटाभावभेदविशिष्टो गगनाभावो न विद्यते । घटाभावे घटाभावभेदात्मकविशेषणस्यासत्वात् भेदविशिष्टो. गगनाभावोऽपि घटाभावे न भवति । एवं च घटाभावः घटाभावभेदविशिष्टगगनाभावाभाववान् इति स्थितम् ।। तादृशविशिष्टगगनाभावाभावः तादृशविशिष्टगगनाभावमात्रप्रतियोगिक एव । तथा च स गगनाभावाभावः घटाभावात्मकाधिकरणस्वरूपः मन्तव्यः । एवं च घटाभावभेदविशिष्टगगनाभावाभावप्रतियोगी तादृशविशिष्टगगनाभावः घटाभावप्रतियोगी अपि भवत्येव । तादृशविशिष्टगगनाभावश्च पर्वते वर्तते । स च विशिष्टगगनाभावः विशिष्टगगनाभावाभावनिष्ठात्यन्ताभावत्वनिरूपकोऽपि अस्ति । एवं च घटाभावः अत्यन्ताभावत्वनिरूपकविशिष्टगगनाभावात्मकप्रतियोगिसमानाधिकरण एव इति घटाभावोऽपि लक्षणघटको न भवेत् । तथा च विशिष्टाभावात्मको अभावमात्रप्रतियोगिकोऽभावो यदि अधिकरणस्वरूपो मन्यते, तदा तु प्रथमविवक्षायां अत्यन्तपदप्रतिपादितायां सत्यामपि अव्याप्त्यादिदोषो भवेदेव । तस्मात् विशिष्टाभावात्मकोऽभावमात्रप्रतियोगिकोऽभावो न अधिकरणस्वरूपो मन्तव्यः । इति एतद्द्वापनार्थमेव जागदीश्यां "विशिष्टाभावानात्मको" इति पदं निविष्टं । કે ચન્દ્રશેખરીયાઃ ઉત્તરપક્ષઃ જેમ "અભાવ એ જ માત્ર અધિકરણ છે જેનું" એવો પટાભાવાદિવૃત્તિ ઘટાભાવ એ પટાભાવ=અધિકરણ સ્વરૂપ મનાય છે. તેમ "અભાવ એ જ માત્ર પ્રતિયોગી છે. જેનો" એવો વિશિષ્ટાભાવભિન્ન અભાવ પણ અધિકરણ સ્વરૂપ જ મનાય છે. એમાં લાઘવ છે. વહ્નિમાં પટાભાવભેદ રહે છે. એનો પ્રતિયોગી માત્ર પટાભાવ જ છે. એટલે આ અભાવ એ અભાવમાત્રપ્રતિયોગિક જ ગણાય. એટલે આ પટાભાવભેદ એ સ્વાધિકરણ એવા વહ્નિસ્વરૂપ જ =વહ્નિ-અભાવાભાવ સ્વરૂપ જ મનાય છે. એટલે વહ્નિ-અભાવાભાવમાં રહેનારો પટાભાવભેદ એ વહ્નિસ્વરૂપ વહ્નિ-અભાવાભાવ સ્વરૂપ જ છે. અને તેથી પટાભાવભેદનો પ્રતિયોગી પટાભાવ એ વહ્નિ-અભાવાભાવનો પ્રતિયોગી પણ ગણાય. એટલે અહીં એ જ પટાભાવ એ પર્વતમાં છે. માટે
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા” નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૫૭
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀