Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 229
________________ दीधितिः१३ दीधिति ननु प्रतियोगितावच्छेदकावच्छिन्नस्य यस्य कस्यचित्,- तत्सामान्यस्य; प्रतियोगितावच्छेदकयत्किञ्चिदवच्छिन्नस्य वा, ___ - अनधिकरणत्वमुक्तम्? आये - अव्याप्यवृत्तिसाध्यकाव्याप्तिः, एकप्रतियोग्यधिकरणस्यापि तद्वयक्त्यन्तरानधिकरणत्वात्, द्वितीये-'संयोगसामान्याभाववान्, - 'द्रव्यत्वाभाववान्,- वा सत्त्वा'दित्यादावतिव्याप्तिः, साध्याभाववतो द्रव्यस्य तत्प्रतियोगिसंयोगविशेषाभाववत्त्वात्, नित्यत्वादिविशिष्टद्रव्यत्वाभावात्मक-तत्प्रतियोगिनोऽधिकरणत्वाच्च, - स्वाभावाभावात्मकस्य, - - विशिष्टस्यापि द्रव्यत्वस्य द्रव्यत्वानतिरेकात् । जागदीशी -- *कस्य चिदिति । -'अनधिकरणत्व'मिति परेणान्वयः। *त व्यक्त्यन्तरेति । प्रतियोगिव्यक्त्यन्तरेत्यर्थः। स्वमते संयोगसामान्याभावस्य केवलान्वयित्वात्तत्साधक-सत्तादिकं सद्धेतुरेवातः साध्यान्तरमाह-*द्रव्यत्वाभावेति । चन्द्रशेखरीयाः ननु "प्रतियोगितावच्छेदकावच्छिन्नस्य यस्य कस्यचित् प्रतियोगिनोऽनधिकरणं हेत्वधिकरणं" इति यदि उच्यते, तदा तु कपिसंयोगी एतवृक्षत्वात् इति अत्र तथैवाव्याप्तिः। कपिसंयोगाभावप्रतियोगितावच्छेदककपिसंयोगत्वावच्छिन्नस्य भूतलवृत्तिकपिसंयोगस्य प्रतियोगिस्वरूपस्यानधिकरणं हेत्वधिकरणं भवत्येव एतवृक्षः इति साध्याभावस्यैव लक्षणघटकत्वात् अव्याप्तिः । तद्वारणाय यदि तादृशप्रतियोगिसामान्यस्यानधिकरणं हेत्वधिकरणं ग्राह्यं कपिसंयोगत्वावच्छिन्नस्य शाखावृत्तिकपिसंयोगस्याधिकरणं वृक्षः भवति । तथा च कपिसंयोगसामान्यस्यानधिकरणं, हेत्वधिकरणं नास्ति इति साध्याभावस्य लक्षणाघटकत्वात् नाव्याप्तिरिति उच्यते, तदा संयोगाभाववान् सत्वात् इति अत्रातिव्याप्तिः भवेत् । अत्र सत्ता द्रव्येऽपि वर्तते, तत्र तु संयोगस्य सत्वात् अयं व्यभिचारी हेतुः । किन्तु तथापि ܀ ܀܀ ܀ ܀ ܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀ સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ ૨૨૦ ܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252