Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 239
________________ दीधितिः१३ . चन्द्रशेखरीयाः न, अत्रैव ग्रन्थे दीधितिकारः-साध्यतावच्छेदकसम्बन्धसामान्ये यदभावप्रतियोगिसामान्यप्रतियोगिकत्वहेत्वधिकरणीभूतयत्किंचितव्यक्त्यनुयोगिकत्वोभयाभावो वर्तते, स एव अभावः लक्षणघटकत्वेन ग्राह्यः न तत्र प्रतियोग्यनधिकरणहेत्वधिकरण... इत्यादि विचारणा कर्तव्या-इति परिष्कारं करिष्यति । अयमेव परिष्कारः "खण्डशः प्रसिद्धः" इति उच्यते । एवं च तदनुसारेण द्रव्यत्वाभाववान् सत्वात् इति अत्रापि गगनाभाव एव लक्षणघटकत्वेन प्रतियोगिव्यधिकरणत्वेन प्रसिद्धो भवति । तथा हि- अत्र साध्यतावच्छेदकसम्बन्धः स्वरूपः, स्वरूपेण गगनस्य कुत्रापि अवर्तमानत्वात् स्वरूपसम्बन्धो गगनाभावप्रतियोगिगगनप्रतियोगिको न भवति । तथा च तत्र तादृशप्रतियोगिकत्वाभावो। विद्यते इति उभयाभावो मीलितः, एकस्यापि अभावे उभयस्यैवाभावो भवति इति कृत्वा । इत्थं च गगनाभाव एव लक्षणघटकः मीलितः । तथा चातिव्याप्तिः अप्रतिबद्धप्रसरा । ननु परमाणौ नित्यत्वं गगनाभावश्च वर्तते । अतो गगनाभावः सामानाधिकरण्येन नित्यत्वविशिष्टो भवति ।। तादृशो नित्यत्वविशिष्टो गगनाभावो घटे न वर्तते, घटस्यानित्यत्वात् । तस्मात् घटे स्वरूपेण गगनाभावस्य विद्यमानत्वेऽपि नित्यत्वविशिष्टगगनाभावस्य अभावः स्वरूपेणैव वर्तते । विशिष्टगगनाभावाभावश्च गगनाभावाभावाभावस्य इंगगनाभावस्वरूपस्य प्रतियोगी भवति । इत्थं च स्वरूपसम्बन्धे गगनाभावप्रतियोगिविशिष्टगगनाभावाभावप्रतियोगिकत्वं सत्ताधिकरणघटाद्यनुयोगिकत्वं च वर्तते इति उभयस्यैव विद्यमानत्वात् न गगनाभावो लक्षणघटकः । अत्र साध्यतावच्छेदकसम्बन्धे यदभावप्रतियोगिसामान्यप्रतियोगिकत्वं कथितं । तथा च स्वरूपसम्बन्धे गगनाभावप्रतियोगिगगनप्रतियोगिकत्वस्याविद्यमानत्वेऽपि गगनाभावप्रतियोगिविशिष्टगगनाभावाभावप्रतियोगिकत्वं विद्यते एव इत्यतो स्वरूपसम्बन्धे. प्रतियोगिसामान्यप्रतियोगिकत्वस्याभावो न विद्यते । यत्किंचित्प्रतियोगिकत्वस्यैवाभावो विद्यते । तस्मात् न स्वरूपे सम्बन्धे तादृशप्रतियोगिसामान्यप्रतियोगिकत्वस्याभावः संभवतीति ध्येयम् । तथा च नातिव्याप्तिः इति चेत् । * न, यः नित्यत्वविशिष्ट-गगनाभावस्याभावः, तस्याभावो न नित्यत्वविशिष्टगगनाभावः । यतो गगनाभावाभावाभावो । गगनाभावस्वरूपः केवलान्वयी अस्ति । गगनस्य कुत्रापि अवर्तमानत्वात् सर्वत्रैव गगनाभावो वर्तते । यदि च नित्यवृत्तित्वविशिष्टगगनाभावाभावाभावो नित्यत्वविशिष्टगगनाभावरूपो मन्यते, तदा तु नित्यत्वविशिष्टगगनाभावः। शुद्धगगनाभावरूप एव । एवं च नित्यवृत्तित्वविशिष्टगगनाभावो, नित्यत्वविशिष्टगगनाभावाभावाभावः, शुद्धगगनाभावः, शुद्धगगनाभावाभावाभावः च एते सर्वे परस्परमभिन्ना एव भूताः । तथा च गगनाभावस्य केवलान्वयित्वात् एते सर्वे केवलान्वयिनः एव मन्तव्याः । तथा च "घटे नित्यवृत्तित्वविशिष्टस्य गगनाभावस्याभावो नास्ति" इति नित्यवृत्तित्वविशिष्टगगनाभावाभावाभावस्य गगनाभावरूपस्य केवलान्वयिनः प्रतीतिः आपद्येत । न च सा भवति । तस्मात् तादृशगगनाभावाभावाभावो नित्यत्वादिरूप एव मन्तव्यः, एवं च न स गगनाभावरूपः । तथा च घटे "गगनाभावस्याभावो, नास्ति" इति प्रतीतिवत् न घटे "नित्यवृत्तित्वविशिष्टगगनाभावस्याभावो नास्ति" इति प्रतीत्यापत्तिरिति भावः । तथा *च गगनाभावाभावाभावस्य गगनाभावरूपस्य प्रतियोगि गगनं गगनाभावाभावश्च भवति । स च न कुत्रापि स्वरूपेण, वर्तते । अतः स्वरूपसम्बन्धे गगनाभावप्रतियोगिप्रतियोगिकत्वाभावात् उभयाभावो मीलितः । तथा च गगनाभाव સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા” નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૨૩૦

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252