Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 237
________________ दीधिति: १३ सार्द्धं सामानाधिकरण्यात् । चन्द्रशेखरीयाः ननु मा भवतु अत्र साध्याभावो लक्षणघटकः तथापि लक्षणसमन्वयार्थं कोऽभावो लक्षणघटको भविष्यति? घटाभाव इति चेत् न, द्रव्यत्वाभाववान् सत्वात् इति अत्र सत्वाधिकरणे गुणादौ घटाभावः वर्तते । स एव घटाभावः पर्वतादौ वर्तते । गुणे तु पर्वतवृत्तित्वविशिष्टो घटाभावः न वर्तते । तस्य पर्वते एव वर्तमानत्वात् । तथा च गुणे तादृशविशिष्टघटाभावो वर्तते, विशिष्टघटाभावाभावो विशिष्टघटाभावाभावाभावस्य विशिष्टघटाभावरूपस्य प्रतियोगी भवति इति विशिष्टघटाभावाभावो विशिष्टघटाभावस्य शुद्धघटाभावरूपस्य प्रतियोगी भवति । स च प्रतियोगी गुणे वर्तते । अतः गुणः न घटाभावप्रतियोगिसामान्यानधिकरणं । एवं पर्वतेऽपि गुणवृत्तित्वविशिष्टघटाभावस्याभाव एव वर्तते । अतः पर्वतोऽपि हेत्वधिकरणीभूतो न घटाभावप्रतियोगिसामान्यानधिकरणं । एवं च किमपि हेत्वधिकरणं स्वस्मिन् वर्तमानस्य कस्यापि घटाद्यभावस्य स्वाश्रयव्यक्तिवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोगिनोऽधिकरणमेव भवति । यथा हेत्वधिकरणं गुणः घटाभावाश्रयपर्वतवृत्तित्वविशिष्टघटाभावस्याभावात्मकप्रतियोगिनोऽधिकरणं भवतीति । एवं च अभावमात्रस्य लक्षणाघटकत्वात् नातिव्याप्तिः इति चेत् न, एकस्मिन्नेव नीलघटे वर्तमानं यत् तन्नीलरूपंः तन्नीलाभावाभावस्वरूपं । तस्यैव लक्षणघटकत्वसंभवात् । तथाहि सत्वाधिकरणं नीलघटः, तस्मिन् तन्नीलरूपाभावाभावो वर्तते । तस्य प्रतियोगी तन्नीलरूपाभावः । तस्य अनधिकरणमेव नीलो घटः । तन्नीलरूपाभावाभावः तु तस्मिन् एकस्मिन्नेव नीलघटे वर्तते। अतः पटवृत्तित्वविशिष्टः तन्नीलरूपाभावाभावो न भवति, येन तादृशविशिष्टनीलरूपस्याभावो तन्नीलरूपाभावाभावप्रतियोगिरूपो घटे भवेत् । तथा चात्र हेत्वधिकरणं घटः तन्नीलरूपाभावाभावप्रतियोगिसामान्यानधिकरणमेवेति तन्नीलरूपाभावाभावस्यैव लक्षणघटकत्वात् अतिव्याप्तिः भवति । ननु एतादृशः एकव्यक्तिमात्रे वर्तमानो गुणरूपो योऽभावः भवता गृहीतः, सोऽपि पूर्वक्षणवृत्तित्वविशिष्टस्य स्वस्याभावात्मकप्रतियोगिना सम समानाधिकरण एव । तथा हि-घटे तन्नीलरूपाभावाभावो द्वितीयक्षणे वर्तते । तृतीयक्षणे द्वितीयक्षणवृत्तित्वविशिष्टस्य तन्नीलरूपाभावाभावस्य अभावः तन्नीलरूपाभावरूपः तन्नीलरूपाभावाभावप्रतियोगिरूपो वर्तते एव । तथा च हेत्वधिकरणं घटः तन्नीलरूपाभावाभावप्रतियोगि-द्वितीयक्षणवृत्तित्वविशिष्टतन्नीलरूपाभावाधिकरणमेव इति न घटः प्रतियोगिसामान्यानधिकरणं । तथा च तस्यापि तन्नीलरूपाभावाभावस्य लक्षणाघटकत्वात् न भवति अतिव्याप्तिः इति चेत् । I ચન્દ્રશેખરીયા: પ્રશ્નઃ તો પણ અતિવ્યાપ્તિ નહીં આવે. કેમકે સત્વાધિકરણ દ્રવ્યાદિમાં તમારે કોઈક અભાવ તો એવો શોધવો પડશે ને? કે જેના તમામે તમામ પ્રતિયોગિઓનું અનધિકરણ એવું હેત્વધિકરણ બનતું હોય. એવો અભાવ જ નહીં મળે. કેમકે ધારો કે ઘટાભાવ લો તો ઘટાભાવાશ્રય તરીકે પર્વતાદિ બને. તે પર્વતનિરૂપિતવૃત્તિત્વવિશિષ્ટ એવો આ ઘટાભાવ બને. અને તેનો અભાવ=પર્વતવૃત્તિત્વવિશિષ્ટઘટાભાવાભાવ એ આ ઘટાભાવનો= ઘટાભાવાભાવાભાવનો પ્રતિયોગી બને છે. હવે ગુણાદિમાં પર્વતવૃત્તિત્વવિશિષ્ટઘટાભાવ એ તો ૨હેવાનો જ નથી. એટલે ગુણમાં રહેનારો ઘટાભાવ તો ગુણવૃત્તિત્વવિશિષ્ટ જ બને. એટલે ગુણમાં પર્વતવૃત્તિત્વવિશિષ્ટ ઘટાભાવનો અભાવ મળી જાય. અને એ તો ઘટાભાવનો પ્રતિયોગી છે. એટલે કોઈપણ સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૨૨૮ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252