Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 184
________________ दीधिति: ८ *** जगदीश ननु कार्य्यमात्रं प्रत्यदृष्टस्य हेतुत्वात् प्रलयप्राक्क्षणेऽपि तस्य सत्त्वं । तथा च तदानीमपि दुःखत्वावच्छिन्नध्वंससत्त्वान्नातिव्याप्तिः । दुःखादेः स्वसाक्षात्कारनाश्यतया तदानीमसम्भवात् [ उत्तरक्षणे साक्षात्कारासम्भवात् अविदिते प्रमाणाभावात् ] -- चन्द्रशेखरीयाः पुनः पूर्वपक्षप्रतिपादितमनुमानं खण्डयति कश्चित् ननु कार्यमात्रं इत्यादिना - अयं भावः कार्यमात्र : प्रति अदृष्टस्य हेतुत्वात् महाप्रलयात्मककार्यपूर्वक्षणेऽपि अदृष्टं अस्ति । तत्र च दुःखत्वावच्छिन्नदुःखध्वंसो विद्यते । तथा च अदृष्टाधिकरणे महाप्रलयपूर्वक्षणे दुःखत्वावच्छिन्नदुःखध्वंसो विद्यते । तथा च अदृष्टाधिकरणे महाप्रलयपूर्वक्षणे * दुःखत्वावच्छिन्नदुःखध्वंसस्य विद्यमानत्वात् साध्याभाव एव लक्षणघटकोऽभूत् । तथा च नातिव्याप्तिः । तथाहियोग्यविभूविशेषगुणनां स्वोत्तरवर्तिगुणनाश्यत्वात् दुःखमपि स्वसाक्षात्कारनाश्यं एव । यदि चासत्कल्पनया चतुर्थे क्षणे महाप्रलयोत्पादो मन्यते । तदा तृतीयक्षणे यदि दुःखं मन्यते तदा तु तस्य दुःखस्योत्पत्तिः द्वितीयक्षणे भूता स्वीक्रियेत । एवं च द्वितीयक्षणे दुःखोत्पादः, तृतीयक्षणे दुःखसत्ता, दुःखसाक्षात्कारश्च भवतः । चतुर्थे क्षणे दुःखध्वंसो भवेत् । किन्तु चतुर्थे क्षणे तृतीयक्षणोत्पन्नं दुःखप्रत्यक्षं न विनष्टं भवति । ज्ञानस्य जघन्यतोऽपि द्विक्षणस्थायित्वात् । एवं च चतुर्थे क्षणे यदि दुःखप्रत्यक्षं विद्येत । तदा तु स क्षणः महाप्रलयप्रथमक्षण एव: न गण्येत । महाप्रलयक्षणे जन्यमात्रभावपदार्थस्य अविद्यमानत्वात् । अतः तृतीयक्षणे दुःखसत्ता नोचिता । किन्तु इदमेवोचितं यत् प्रथमक्षणे दुःखोत्पादः । द्वितीयक्षणे दुःखसत्ता, दुःखप्रत्यक्षं च भवतः । तृतीयक्षणे दुःखध्वंसो दुःखप्रत्यक्षसत्ता च भवतः । चतुर्थक्षणे च तत्प्रत्यक्षमपि विनश्येत्, स एव क्षणः महाप्रलयप्रथमक्षणत्वेन व्यवहर्तुं शक्यः । एवं च महाप्रलयपूर्ववर्तिक्षणे दुःखस्यासंभवात् तत्र दुःखत्वावच्छिन्नदुःखध्वंसस्य सत्वात् स एव लक्षणघटकः भवति महाप्रलयपूर्ववर्तिक्षणे च अदृष्टात्मक हेतोः विद्यमानत्वात् स हेत्वधिकरणं भवति । तत्र च दुःखत्वावच्छिन्नध्वंसो भवति इति साध्याभावस्य लक्षणघटकत्वात् नातिव्याप्तिः। न च महाप्रलयपूर्ववर्तिक्षणे दुःखं अस्ति एव । तन्नाशकं तु न दुःखप्रत्यक्षं, किन्तु स क्षण एव । तथा च पूर्ववर्तिक्षणः एव महाप्रलयप्रथमक्षणे दुःखध्वंसं उत्पादयति । एवं च न महाप्रलयपूर्ववर्तिक्षणे दुःखत्वावच्छिन्नध्वंसो विद्यते । तथा चातिव्याप्तिः तदवस्थैव इति वाच्यम् । यतः एवं मन्यमाने तद् दुःखं प्रत्यक्षविषयमेव नाभूत् । तादृशे प्रत्यक्षविषयत्वाभाववति: दुःखे न किमपि प्रमाणं उत्पश्यामः । अर्थात् अविदिते दुःखे प्रमाणाभावात् एतत्कथनं अनुचितम् इति भावः । तथा च: अत्र तृतीयानुमानेऽपि नातिव्याप्तिः । ચન્દ્રશેખરીયા: પ્રશ્ન: તમામ કાર્યો પ્રત્યે અદૃષ્ટને હેતુ માનેલ છે. હવે મહાપ્રલય પણ એક કાર્ય જ છે. એટલે તેની પૂર્વની ક્ષણે પણ અદૃષ્ટ છે જ. આમ અદૃષ્ટહેતુ એ કાલિકથી મહાપ્રલયપૂર્વ ક્ષણમાં રહેલો છે. હવે ક્ષણે તો તમામે તમામ દુઃખોનો ધ્વંસ હાજ૨ હોવાથી તે ક્ષણમાં દુઃખસામાન્યધ્વંસ મળી જાય. અને તેની પ્રતિયોગિતાનો અવચ્છેદક દુઃખત્વ બની જતા અતિવ્યાપ્તિ ન આવે. ܀܀܀܀܀܀܀܀܀܀܀܀܀ સિદ્ધાન્તલક્ષણ ઉપર ’ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૭૫ ܀܀܀܀܀܀܀ ܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252