________________
܀܀܀܀܀
܀܀܀܀܀܀܀܀
दीधिति: १२ *****
सत्वात् स एव लक्षणघटकः । अतोऽव्याप्तिः इति चेत् न, केवलं शुद्धाभावे प्रतियोग्यसमानाधिकरणत्वं हेत्वधिकरणवृत्तित्वं च नोपादेयम्, किन्तु प्रतियोग्यसमानाधिकरण-विशिष्टोऽभाव एव हेत्वधिकरणवृत्तितावान् ग्राह्यः । तथा च न अव्याप्तिः ।
मूलावच्छिन्नः कपिसंयोगाभावः हेत्वधिकरणवृत्तितावान् अस्ति, किन्तु न स प्रतियोग्यसमानाधिकरणत्वविशिष्टः । अतः न स गृह्यते । गुणे वर्तमानः कपिसंयोगाभावः प्रतियोग्यसमानाधिकरणविशिष्टोऽस्ति । किन्तु तादृशो विशिष्टोऽभावः गुणे एव वर्तते । न तु वृक्षे इति स न हेत्वधिकरणवृत्तितावान् भवति इति सोऽपि न गृह्यते । इत्थं च साध्याभावस्य लक्षणाघटकत्वात् नाव्याप्तिः । अयमत्राशयः । भवतु नाम कपिसंयोगाभावः गुणावच्छेदेन स्वप्रतियोग्यसमानाधिकरणः, किन्तु प्रतियोग्यसमानाधिकरणो हेत्वधिकरणवृत्तिः प्रतियोग्यसमानाधिकरणत्वविशिष्ट एवाभावो ग्राह्यः । हेत्वधिकरणे वृक्षे च संयोगवद्वृत्तित्वविशिष्टकपिसंयोगाभावोऽस्ति । अर्थात् प्रतियोग्यसमानाधिकरणत्वविशिष्टकपिसंयोगाभावो ं नास्ति । तस्मात् नाव्याप्तिः ।
ચન્દ્રશેખરીયા: પૂર્વપક્ષ: કપિસંયોગી એતવૃક્ષત્વાત્ અહીં અતિવ્યાપ્તિ આવશે. એતવૃક્ષત્વાધિકરણ એતવૃક્ષમાં મૂલાવચ્છેદેન જે કપિસંયોગાભાવ છે. તે જ અભાવ ગુણમાં રહેલો છે. કેમકે અધિકરણો જુદા હોવા છતાં અત્યન્તાભાવ તો એક જ માનેલો છે. એટલે ગુણમાં ૨હેલો કપિસંયોગાભાવ એ પ્રતિયોગિતાવચ્છેદકસંબંધથી ગુણમાં ન રહેતો હોવાથી સ્વપ્રતિયોગિ-અસમાનાધિકરણ છે જ. અને એ જ અભાવ વૃક્ષમાં મૂલાવચ્છેદેન છે. એટલે એ સાધ્યાભાવ જ લક્ષણઘટક બની જાય છે.
ઉત્તરપક્ષ: પ્રતિયોગિ-અસમાનાધિકરણ્યથી વિશિષ્ટ એવો અભાવ જ હેત્વધિકરણવૃત્તિ તરીકે લેવાનો. ગુણમાં વૃત્તિ એવો કપિસંયોગાભાવ સ્વપ્રતિયોગિ-અસામાનાધિક૨ણ્યવિશિષ્ટ છે. પણ વૃક્ષમાં વૃત્તિ એવો કપિસંયોગાભાવ સ્વપ્રતિયોગિ-અસામાનાધિકરણ્યવિશિષ્ટ નથી. અને એટલે વૃક્ષવૃત્તિ એવો તાદ્યશવિશિષ્ટકપિસંયોગાભાવ મળતો નથી. માટે તે લક્ષણઘટક ન બને. એટલે અવ્યાપ્તિ ન આવે.
जगदीशी -- विशिष्टनिरूपिताधेयत्वमप्यतिरिक्तमित्याशयेनेदम् ।
यद्वा-' तद्विशिष्टस्ये' त्यस्य 'हेत्वधिकरणे' ऽन्वयः तत्र च षष्ठ्यर्थोऽधिकरणत्वं
तेन तद्विशिष्टस्याधिकरणं यद्धेत्वधिकरणं तद्वृत्तित्वमभावे वाच्यमित्यर्थः ।
चन्द्रशेखरीयाः ननु विशिष्टं वस्तु शुद्धादभिन्नं एव इति न्यायात् कपिसंयोगाभावः प्रतियोग्यसमानाधिकरणत्वविशिष्ट गुणवृत्ति-कपिसंयोगाभावरूप एव । तथा च यदि कपिसंयोगाभावे हेत्वधिकरणवृत्तित्वं वर्तते, तदा विशिष्टाभावेऽपि तत् वर्तते इति हेत्वधिकरणवृत्तिः विशिष्टाभावोऽपि भवति । तस्मात् अव्याप्तिस्तदवस्थैव इति चेत् न, "विशिष्टनिष्ठा वृत्तिता शुद्धनिष्ठवृत्तित्वात् भिन्नैव" इत्यभिप्रायेण इदं ज्ञेयम् । तथा च शुद्धे कपिसंयोगाभावे एव हेत्वधिकरणवृत्तिता: वर्तते, न तु विशिष्टे कपिसंयोगाभावे इति हेत्वधिकरणवृत्तिः न विशिष्टाभावो भवति । अतः साध्याभावस्यः
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૦ ૨૧૩