Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 186
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ दीधितिः ८ चन्द्रशेखरीयाः किञ्च खण्डप्रलयोऽपि न सर्वेषां ब्रह्मांडानां युगपदेव भवति किन्तु पृथक् पृथक् । तथा च यस्य एकस्य ब्रह्मांडस्य खंडप्रलयो भवति, तत्र खण्डप्रलयेऽपि ब्रह्मांडान्तरवर्तिदुःखस्य सत्वात् अयं अदृष्टात्मको हेतुरपि सम्यग् एव अस्ति इति नात्र अतिव्याप्तिकथनं समुचितं इति पूर्वपक्षप्रतिपादिततृतीयानुमानेऽपि नेदं लक्षणं दुष्टं भवति । ܀܀܀܀܀܀܀܀ ચન્દ્રશેખરીયાઃ બાકી ખરી વાત તો એ છે કે જેટલા બ્રહ્માંડો છે એ તમામનો એક સાથે પ્રલય=નાશ માનેલો જ નથી. એટલે જ્યારે અહીં ખંડપ્રલય થાય તેમાં અદૃષ્ટ હોય ત્યારે પણ બીજા બ્રહ્માંડવર્તિજીવના દુઃખો તો કાલિકસંબંધથી ખંડપ્રલયકાળમાં રહેવાના જ છે. જો બધા જ બ્રહ્માંડમાં એક સાથે ખંડપ્રલય થતો હોત તો વાંધો ઉભો રહેત. પણ એવું તો નથી જ. આમ જ્યાં કાલિકથી અદૃષ્ટ છે, ત્યાં સર્વત્ર કાલિકથી દુઃખ છે જ. એટલે એમ પણ આ સાચું સ્થાન છે. એટલે જ મહાપ્રલય અપ્રામાણિક હોય અને તેથી ઉપ૨ કહ્યા પ્રમાણે સાધ્યાભાવને લક્ષણઘટક બનાવવાની વાત ખોટી પડતી હોય તો પણ હવે વાંધો નથી. કેમકે આ સ્થાન સાચું જ હોવાથી અહીં બીજા અભાવને લઈને લક્ષણ સમન્વય થવો, સાધ્યાભાવ લક્ષણઘટક ન બનવો એ ઇષ્ટ જ બની રહે છે. जगदीशी -- अत आह- * यदा तस्येति * । अत्र च तदीयसुषुप्त्यादिसमये तदीयज्ञानविरहाद्व्यभिचारः स्फुट एव । * द्वयणुकत्वादेरिति * । - खण्डप्रलये केषाञ्चिद्ध्वंसस्य केषाञ्चित् प्रागभावस्य सत्त्वात् द्वयणुकत्वस्य तत्प्रतियोगितातिरिक्तवृत्तित्वेनानवच्छेदकत्वादित्यर्थः । ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ चन्द्रशेखरीयाः अतः पूर्वपक्ष: चतुर्थमनुमानं प्रतिपादयति कालिकेन चैत्रीयज्ञानवान् कालिकेन चैत्रीयादृष्टात् । अत्र च चैत्रसुषुप्तिकाले चैत्रीयादृष्टस्य कालिकेन सत्वात् चैत्रीयज्ञानस्य कालिकेनाऽसत्वात् स्फुटमेव व्यभिचारः । तथा: चात्रातिव्याप्तिः भवति । तथा हि- अदृष्टाधिकरणे सुषुप्तिकाले प्राक्तनचैत्रीयज्ञानध्वंसस्य सत्वात् न तत्र चैत्रीयज्ञानात्यन्ताभावो विद्यते । एवं प्राक्तनचैत्रीयज्ञानध्वंसस्य सत्वात् चैत्रीयज्ञानत्वावच्छिन्नचैत्रीयज्ञानाभावो न विद्यते । एवं उत्तरकालीनज्ञानप्रागभावस्य सत्वात् चैत्रीयज्ञानत्वावच्छिन्नचैत्रीयज्ञानध्वंसोऽपि न विद्यते । तथा च साध्याभावस्य लक्षणाघटकत्वात् भवति अतिव्याप्तिः इति पूर्वपक्षस्याशयः । एवं च पूर्वपक्षेण चत्वारि अनुमानानि प्रदर्शितानि । तत्र जागदीश्यां प्रथमेषु त्रयेषु अनुमानेषु अतिव्याप्तिकथनं निराकृतं । चरमे एव अनुमाने स्पष्टा अतिव्याप्तिः भवति इति दर्शितम् । किन्तु दीधित्यां तु चतुर्षु अपि अनुमानेषु अतिव्याप्तिं समन्वयति दीधितिकारः । स च इदानीं प्रदर्श्यते दीधितिग्रन्थानुसारेण । द्वयणुकवान् स्पन्दात् इत्यादि अनुमानेषु हेत्वधिकरणे प्रलये केषाञ्चित् द्वयणुकानां ध्वंसस्य सत्वात् केषाञ्चित् द्वयणुकानां प्रागभावस्य च सत्वात् द्वयणुकत्वस्य ध्वंसप्रतियोगितातिरिक्तवृत्तित्वेन प्रागभावप्रतियोगितातिरिक्तवृत्तित्वेन च न तयोः प्रतियोगितावच्छेदकत्वं संभवति इत्यतो लक्षणघटकाभावप्रतियोगितानवच्छेदकं एव द्वयणुकत्वं भवति इति दुर्वाराऽतिव्याप्तिः । ચન્દ્રશેખરીયા: પૂર્વપક્ષઃ ભલે તો પણ કાલિકેન ચૈત્રીયજ્ઞાનવાન્ કાલિકેન ચૈત્રીયાદૃષ્ટાત્ આ સ્થળ સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ♦ ૧૭૭

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252