________________
दीधिति: ८
***
जगदीश ननु कार्य्यमात्रं प्रत्यदृष्टस्य हेतुत्वात् प्रलयप्राक्क्षणेऽपि तस्य सत्त्वं । तथा च तदानीमपि दुःखत्वावच्छिन्नध्वंससत्त्वान्नातिव्याप्तिः । दुःखादेः स्वसाक्षात्कारनाश्यतया तदानीमसम्भवात् [ उत्तरक्षणे साक्षात्कारासम्भवात् अविदिते प्रमाणाभावात् ]
--
चन्द्रशेखरीयाः पुनः पूर्वपक्षप्रतिपादितमनुमानं खण्डयति कश्चित् ननु कार्यमात्रं इत्यादिना - अयं भावः कार्यमात्र : प्रति अदृष्टस्य हेतुत्वात् महाप्रलयात्मककार्यपूर्वक्षणेऽपि अदृष्टं अस्ति । तत्र च दुःखत्वावच्छिन्नदुःखध्वंसो विद्यते । तथा च अदृष्टाधिकरणे महाप्रलयपूर्वक्षणे दुःखत्वावच्छिन्नदुःखध्वंसो विद्यते । तथा च अदृष्टाधिकरणे महाप्रलयपूर्वक्षणे * दुःखत्वावच्छिन्नदुःखध्वंसस्य विद्यमानत्वात् साध्याभाव एव लक्षणघटकोऽभूत् । तथा च नातिव्याप्तिः । तथाहियोग्यविभूविशेषगुणनां स्वोत्तरवर्तिगुणनाश्यत्वात् दुःखमपि स्वसाक्षात्कारनाश्यं एव ।
यदि चासत्कल्पनया चतुर्थे क्षणे महाप्रलयोत्पादो मन्यते । तदा तृतीयक्षणे यदि दुःखं मन्यते तदा तु तस्य दुःखस्योत्पत्तिः द्वितीयक्षणे भूता स्वीक्रियेत । एवं च द्वितीयक्षणे दुःखोत्पादः, तृतीयक्षणे दुःखसत्ता, दुःखसाक्षात्कारश्च भवतः । चतुर्थे क्षणे दुःखध्वंसो भवेत् । किन्तु चतुर्थे क्षणे तृतीयक्षणोत्पन्नं दुःखप्रत्यक्षं न विनष्टं भवति । ज्ञानस्य जघन्यतोऽपि द्विक्षणस्थायित्वात् । एवं च चतुर्थे क्षणे यदि दुःखप्रत्यक्षं विद्येत । तदा तु स क्षणः महाप्रलयप्रथमक्षण एव: न गण्येत । महाप्रलयक्षणे जन्यमात्रभावपदार्थस्य अविद्यमानत्वात् । अतः तृतीयक्षणे दुःखसत्ता नोचिता । किन्तु इदमेवोचितं यत् प्रथमक्षणे दुःखोत्पादः । द्वितीयक्षणे दुःखसत्ता, दुःखप्रत्यक्षं च भवतः । तृतीयक्षणे दुःखध्वंसो दुःखप्रत्यक्षसत्ता च भवतः । चतुर्थक्षणे च तत्प्रत्यक्षमपि विनश्येत्, स एव क्षणः महाप्रलयप्रथमक्षणत्वेन व्यवहर्तुं शक्यः । एवं च महाप्रलयपूर्ववर्तिक्षणे दुःखस्यासंभवात् तत्र दुःखत्वावच्छिन्नदुःखध्वंसस्य सत्वात् स एव लक्षणघटकः भवति महाप्रलयपूर्ववर्तिक्षणे च अदृष्टात्मक हेतोः विद्यमानत्वात् स हेत्वधिकरणं भवति । तत्र च दुःखत्वावच्छिन्नध्वंसो भवति इति साध्याभावस्य लक्षणघटकत्वात् नातिव्याप्तिः।
न च महाप्रलयपूर्ववर्तिक्षणे दुःखं अस्ति एव । तन्नाशकं तु न दुःखप्रत्यक्षं, किन्तु स क्षण एव । तथा च पूर्ववर्तिक्षणः एव महाप्रलयप्रथमक्षणे दुःखध्वंसं उत्पादयति । एवं च न महाप्रलयपूर्ववर्तिक्षणे दुःखत्वावच्छिन्नध्वंसो विद्यते । तथा चातिव्याप्तिः तदवस्थैव इति वाच्यम् । यतः एवं मन्यमाने तद् दुःखं प्रत्यक्षविषयमेव नाभूत् । तादृशे प्रत्यक्षविषयत्वाभाववति: दुःखे न किमपि प्रमाणं उत्पश्यामः । अर्थात् अविदिते दुःखे प्रमाणाभावात् एतत्कथनं अनुचितम् इति भावः । तथा च: अत्र तृतीयानुमानेऽपि नातिव्याप्तिः ।
ચન્દ્રશેખરીયા: પ્રશ્ન: તમામ કાર્યો પ્રત્યે અદૃષ્ટને હેતુ માનેલ છે. હવે મહાપ્રલય પણ એક કાર્ય જ છે. એટલે તેની પૂર્વની ક્ષણે પણ અદૃષ્ટ છે જ. આમ અદૃષ્ટહેતુ એ કાલિકથી મહાપ્રલયપૂર્વ ક્ષણમાં રહેલો છે. હવે ક્ષણે તો તમામે તમામ દુઃખોનો ધ્વંસ હાજ૨ હોવાથી તે ક્ષણમાં દુઃખસામાન્યધ્વંસ મળી જાય. અને તેની પ્રતિયોગિતાનો અવચ્છેદક દુઃખત્વ બની જતા અતિવ્યાપ્તિ ન આવે.
܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર ’ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૭૫
܀܀܀܀܀܀܀
܀܀܀܀܀܀܀܀