Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 180
________________ दीधितिः८ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ जागदीशी -- *यदा स्पन्द इति । स्पन्दवति खण्डप्रलये सर्गान्तरीयद्वयणुकप्रागभाववत्त्वेन द्वयणुकत्वावच्छिन्न-ध्वंस विरहादतिव्याप्तिः। [न च खण्डप्रलये स्पन्दसत्त्वे मानाभावः 'ब्रह्मणो वर्षशतमायु'रित्यागमप्रसिद्धरेव मानत्वात् न हि रविक्रियां विना क्षणमुहूर्त्तादिघटितस्य वर्षस्य सम्भव इति।। चन्द्रशेखरीयाः ननु लक्षणघटकात्यन्ताभावपदस्य संसर्गाभावपरकत्वनिर्वचनेऽपि कालिकेन द्वयणुकवान् कालिकेन स्पन्दात् इति अत्र अतिव्याप्तिः भवति । अत्र खंडप्रलये सूर्यक्रियात्मकः स्पन्दः कालिकेन वर्तते । किन्तु तत्र कालिकेन द्वयणुकं नास्ति । अतः इदं व्यभिचारि स्थानं । तथापि लक्षणघटनात् अतिव्याप्तिर्भवति । तथा हि-महाप्रलयो नाम: यदुत्तरं कदापि सृष्टिकालो न भवति, तादृशः कालः । खण्डप्रलयस्तु एकसृष्टिनाशानन्तरं अपरसृष्टिसमुत्पत्तिं यावत् यः कालो भवति, स कालः । द्वयोः सृष्ट्योः मध्ये वर्तमानः कालः खण्डप्रलय इति यावत् । हेत्वधिकरणे खण्डप्रलये *च प्राक्तनद्वयणुकध्वंसानां विद्यमानत्वात् तत्र द्वयणुकात्यन्ताभावो न वर्तते । तथा उत्तरकालभाविद्वयणुकानां प्रागभावस्यात्र सत्वात् खण्डप्रलये द्वयणुकत्वावच्छिन्नद्वयणुकसामान्यध्वंसोऽपि न विद्यते । एवं प्राक्तनद्वयणुकध्वंसानां सत्वात्। द्वयणुकत्वावच्छिन्नद्वयणुकसामान्यप्रागभावोऽपि नास्ति । तथा च साध्याभावस्य लक्षणाघटकत्वात् अतिव्याप्तिः अभावान्तरमादाय भवति । न च खण्डप्रलये स्पन्दस्यैवासत्वात् हेत्वधिकरणमेव स न भवति । अन्यत्र च हेत्वधिकरणे, सृष्टिकालादौ सर्वत्र द्वयणुकस्य विद्यमानत्वात् अयं सद्धेतुरेव । तथा च लक्षणगमनमिष्टं इति वाच्यम् । शास्त्रेषु ब्रह्मणः वर्षशतं आयुः प्रतिपाद्यते । अत्र वर्षं न सर्वप्रसिद्धं ज्ञेयं । किन्तु अनेकसहस्रकोट्यादिवर्षसमूहात्मकं शास्त्रप्रतिपादितं वर्षं ज्ञेयम् । तथा च ब्रह्मणः महाप्रलयकालं यावत् वर्षशतं आयुः प्रतिपाद्यते । मध्ये च खण्डप्रलया। भवन्ति । तत्कालमादायैव इदमायुः परिगण्यते । यदि तत्र सूर्यक्रिया न मन्येत, तदा सूर्यक्रियाप्रयोज्यक्षणवर्षादिव्यवहारोऽपि न संभवेत् । तथा च खण्डप्रलयकालम् अन्तर्भाव्य ब्रह्मायुःगणना न संभवेत् । तत्र कालव्यवहारस्यैवासंभवात् । अतः ब्रह्मायुःप्रतिपादनागमप्रामाण्यात् खण्डप्रलये स्पन्दक्रिया स्वीकरणीयैव । तथा च तत्र द्वयणुकस्यासत्वात् मिथ्या अयं हेतुः । तत्र च लक्षणगमनात् अतिव्याप्तिः इति सर्वं सुस्थम् । છે ચન્દ્રશેખરીયાઃ પૂર્વપક્ષઃ ભલે તમે સંસર્ગાભાવ લક્ષણઘટક તરીકે લઈને ગોધ્વંસ દ્વારા અતિવ્યાપ્તિ દૂર કરો. તો પણ કાલિકેન યમુકવાનું કાલિકેન સ્પન્દાત્ આ સ્થાને અતિવ્યાપ્તિ આવશે. આ સ્થાન ખોટું શી રીતે? તે જોઈએ. ખંડપ્રલય એટલે સૃષ્ટિનો નાશ થયા પછી ફરીથી સૃષ્ટિ ઉત્પન્ન થવાની હોય તેની વચ્ચેનો કાળ. અને મહાપ્રલય એટલે જેના પછી કોઈપણ સૃષ્ટિ થવાની જ નથી તેવો કાળ. હવે ખંડપ્રલયમાં સૂર્યચન્દ્રની ક્રિયારૂપ સ્પદ છે અને ત્યાં દ્વયણુક નથી. આમ આ સ્થાન વ્યભિચારદોષવાળું છે. છતાં અહીં સાધ્યાભાવ લક્ષણઘટક નહીં બને. કેમકે સ્પંદવાન તરીકે સૃષ્ટિકાલ+ખંડપ્રલયકાળ બે જ આવે. મહાપ્રલય ન આવે. સૃષ્ટિકાળમાં તો કાલિકથી કયણુક છે માટે ત્યાં તેનો અભાવ ન લેવાય. અને ખંડપ્રલયકાળમાં જો કે કયણુકનો ધ્વંસ છે. પણ નવી સૃિષ્ટિમાં થનારા દ્વયણુકોનો પ્રાગભાવ પણ હોવાથી અહીં ખંડપ્રલયમાં રહેલો કયણુકવ્વસ એ દ્વયણુકત્વાવચ્છિન્ન ܀ ܀ ܀܀ ܀܀ ܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀ ܀܀ ܀܀ ܀ સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૧૭૧ ܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252