________________
दीधितिः८
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
जागदीशी -- *यदा स्पन्द इति । स्पन्दवति खण्डप्रलये सर्गान्तरीयद्वयणुकप्रागभाववत्त्वेन द्वयणुकत्वावच्छिन्न-ध्वंस विरहादतिव्याप्तिः। [न च खण्डप्रलये स्पन्दसत्त्वे मानाभावः 'ब्रह्मणो वर्षशतमायु'रित्यागमप्रसिद्धरेव मानत्वात् न हि रविक्रियां विना क्षणमुहूर्त्तादिघटितस्य वर्षस्य सम्भव इति।।
चन्द्रशेखरीयाः ननु लक्षणघटकात्यन्ताभावपदस्य संसर्गाभावपरकत्वनिर्वचनेऽपि कालिकेन द्वयणुकवान् कालिकेन स्पन्दात् इति अत्र अतिव्याप्तिः भवति । अत्र खंडप्रलये सूर्यक्रियात्मकः स्पन्दः कालिकेन वर्तते । किन्तु तत्र कालिकेन द्वयणुकं नास्ति । अतः इदं व्यभिचारि स्थानं । तथापि लक्षणघटनात् अतिव्याप्तिर्भवति । तथा हि-महाप्रलयो नाम: यदुत्तरं कदापि सृष्टिकालो न भवति, तादृशः कालः । खण्डप्रलयस्तु एकसृष्टिनाशानन्तरं अपरसृष्टिसमुत्पत्तिं यावत् यः कालो भवति, स कालः । द्वयोः सृष्ट्योः मध्ये वर्तमानः कालः खण्डप्रलय इति यावत् । हेत्वधिकरणे खण्डप्रलये *च प्राक्तनद्वयणुकध्वंसानां विद्यमानत्वात् तत्र द्वयणुकात्यन्ताभावो न वर्तते । तथा उत्तरकालभाविद्वयणुकानां प्रागभावस्यात्र सत्वात् खण्डप्रलये द्वयणुकत्वावच्छिन्नद्वयणुकसामान्यध्वंसोऽपि न विद्यते । एवं प्राक्तनद्वयणुकध्वंसानां सत्वात्। द्वयणुकत्वावच्छिन्नद्वयणुकसामान्यप्रागभावोऽपि नास्ति । तथा च साध्याभावस्य लक्षणाघटकत्वात् अतिव्याप्तिः अभावान्तरमादाय भवति । न च खण्डप्रलये स्पन्दस्यैवासत्वात् हेत्वधिकरणमेव स न भवति । अन्यत्र च हेत्वधिकरणे, सृष्टिकालादौ सर्वत्र द्वयणुकस्य विद्यमानत्वात् अयं सद्धेतुरेव । तथा च लक्षणगमनमिष्टं इति वाच्यम् ।
शास्त्रेषु ब्रह्मणः वर्षशतं आयुः प्रतिपाद्यते । अत्र वर्षं न सर्वप्रसिद्धं ज्ञेयं । किन्तु अनेकसहस्रकोट्यादिवर्षसमूहात्मकं शास्त्रप्रतिपादितं वर्षं ज्ञेयम् । तथा च ब्रह्मणः महाप्रलयकालं यावत् वर्षशतं आयुः प्रतिपाद्यते । मध्ये च खण्डप्रलया। भवन्ति । तत्कालमादायैव इदमायुः परिगण्यते । यदि तत्र सूर्यक्रिया न मन्येत, तदा सूर्यक्रियाप्रयोज्यक्षणवर्षादिव्यवहारोऽपि न संभवेत् । तथा च खण्डप्रलयकालम् अन्तर्भाव्य ब्रह्मायुःगणना न संभवेत् । तत्र कालव्यवहारस्यैवासंभवात् । अतः ब्रह्मायुःप्रतिपादनागमप्रामाण्यात् खण्डप्रलये स्पन्दक्रिया स्वीकरणीयैव । तथा च तत्र द्वयणुकस्यासत्वात् मिथ्या अयं हेतुः । तत्र च लक्षणगमनात् अतिव्याप्तिः इति सर्वं सुस्थम् । છે ચન્દ્રશેખરીયાઃ પૂર્વપક્ષઃ ભલે તમે સંસર્ગાભાવ લક્ષણઘટક તરીકે લઈને ગોધ્વંસ દ્વારા અતિવ્યાપ્તિ દૂર કરો. તો પણ કાલિકેન યમુકવાનું કાલિકેન સ્પન્દાત્ આ સ્થાને અતિવ્યાપ્તિ આવશે. આ સ્થાન ખોટું શી રીતે? તે જોઈએ. ખંડપ્રલય એટલે સૃષ્ટિનો નાશ થયા પછી ફરીથી સૃષ્ટિ ઉત્પન્ન થવાની હોય તેની વચ્ચેનો કાળ. અને મહાપ્રલય એટલે જેના પછી કોઈપણ સૃષ્ટિ થવાની જ નથી તેવો કાળ. હવે ખંડપ્રલયમાં સૂર્યચન્દ્રની ક્રિયારૂપ સ્પદ છે અને ત્યાં દ્વયણુક નથી. આમ આ સ્થાન વ્યભિચારદોષવાળું છે. છતાં અહીં સાધ્યાભાવ લક્ષણઘટક નહીં બને. કેમકે સ્પંદવાન તરીકે સૃષ્ટિકાલ+ખંડપ્રલયકાળ બે જ આવે. મહાપ્રલય ન આવે. સૃષ્ટિકાળમાં તો કાલિકથી કયણુક છે માટે ત્યાં તેનો અભાવ ન લેવાય. અને ખંડપ્રલયકાળમાં જો કે કયણુકનો ધ્વંસ છે. પણ નવી સૃિષ્ટિમાં થનારા દ્વયણુકોનો પ્રાગભાવ પણ હોવાથી અહીં ખંડપ્રલયમાં રહેલો કયણુકવ્વસ એ દ્વયણુકત્વાવચ્છિન્ન
܀
܀
܀܀
܀܀
܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀
܀܀
܀܀
܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૧૭૧
܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀