________________
दीधितिः७
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
પણ પટાભાવ એ તો પટાભાવભેદ–નિરૂપક છે. અત્યન્તાભાવનિરૂપક નથી. અત્યન્તાભાવત્વનિરૂપક તો ઘટ પ્રતિયોગી જ છે. અને તે તો પર્વતમાં સંયોગથી ન હોવાથી આ ઘટાભાવ એ સ્વપ્રતિયોગિ-અસમાનાધિકરણ મળી જતાં કોઈ વાંધો ન આવે. ધૂમાભાવવાનું વહ્નિ-અભાવાત્ માં ગગનત્વાભાવ લેવાય. વહ્નિ-અભાવાધિકરણસરોવરમાં ગગનત્વ-અભાવ છે. આ અભાવના પ્રતિયોગી ગગનત્વમ્પટાભાવાદિ પણ બને. કેમકે ગગનવાભાવ એ પટાભાવભેદાદિસ્વરૂપ છે એ આગળ જોઈ ગયા છીએ. આમ અહીં ગગનત્વમ્પટાભાવાદિ પ્રતિયોગી છે? પણ પટાભાવાદિ તો પટાભાવભેદ–નિરૂપક હોવાથી તે લેવાના નથી. ગગનત્વ એ અત્યન્તાભાવત્વનિરૂપક છે. તેથી તે લેવાય. અને તે ગગનત્વ એ સાધ્યતાવચ્છેદકસંબંધથી તો સરોવરમાં રહેતું જ નથી. એટલે સરોવરવૃત્તિ-ગગનત્વાભાવ એ અત્યન્તાભાવત્વનિરૂપક- પ્રતિયોગિ-અસમાનાધિકરણ મળી જાય. આમ અહીં પણ વાંધો ન આવે.
जागदीशी -- ‘अत्यन्ताभावत्वनिरूपकप्रतियोगितानवच्छेदकत्व'विवक्षायाः फलमाह-*सर्वेषामेवेति ।। भावभेदस्या-तिरिक्ततास्वीकारादाह-*अभावसाध्यकेति ।। । तथा च ‘घटभिन्नं पटत्वादि'त्यादौ पटत्वसमानाधिकरणस्य निरुक्तप्रतियोग्यसमानाधिकरणगोत्वप्रकारकप्रमाविशेष्यत्वाद्यभावस्य घटभेदभिन्नत्वात् -तादृशभेदस्य च गोत्वप्रकारकप्रमाविशेष्यत्वाद्यभावस्वरूपत्वात्तत्प्रतियोगितावच्छेदकमेव घटभेदत्वमित्यव्याप्तिरिति भावः।
चन्द्रशेखरीयाः एवं तावत् अत्यन्तपदस्य प्रथमविवक्षायाः फलमुक्तम् । अधुना द्वितीयविवक्षायाः फलम् कथ्यते ।। यदि हि द्वितीया विवक्षा न क्रियते, तदा घटभिन्नं पटत्वात् इत्यादौ अव्याप्तिर्भवेत् । अत्र पटत्वाधिकरणे, गोत्वप्रकारकप्रमाविशेष्यताऽभावोऽस्ति । स च अत्यन्ताभावत्वनिरूपकस्वप्रतियोगितादृशविशेष्यताऽसमानाधिकरणोऽपि भवति, पटे तादृशविशेष्यतायाः अभावात् । अतः तादृशविशेष्यताऽभावो लक्षणघटकः । स च अभावो घटभेदभिन्नः, अर्थात् घटभेदभेदवान् । तथा च तादृशविशेष्यताऽभावे वर्तमानो घटभेदभेदः अभावाधिकरणकत्वात् तादृशविशेष्यताऽभावरूप एव । तथा च लक्षणघटकस्य तादृशविशेष्यताऽभावस्य प्रतियोगी घटभेदोऽपि भवति । तन्निष्ठायाः प्रतियोगिताया अवच्छेदकं घटभेदत्वमेव साध्यतावच्छेदकम् इति अव्याप्तिः भवेत् । अत्यन्तपदस्य द्वितीया विवक्षा यदि समाद्रीयते.. तदा तु न एषः दोषः । यतः तादृशविशेष्यताऽभावस्य घटभेदभेदस्वरूपस्य घटभेदनिष्ठा प्रतियोगिता घटभेदभेदत्वनिरूपिका.. न तु अत्यन्ताभावत्वनिरूपिका । अतः सा न गृह्यते । किन्तु तादृशविशेष्यताऽभावस्य विशेष्यतात्मकप्रतियोगिनिष्ठा प्रतियोगिता अत्यन्ताभावत्वनिरूपिका । अतः सैव गृह्यते । तदनवच्छेदकं घटभेदत्वं इति लक्षणघटनात् नाव्याप्तिः भवति । तादृशविशेष्यताऽभावे घटभेदस्य वर्तमानत्वात् तादृशविशेष्यताऽभावे घटभेदाभावो न वर्तते एव । अतः तादृशविशेष्यताऽभावो न घटभेदाभावरूपो भवति । अतः अत्यन्ताभावत्वनिरूपको घटभेदाभावप्रतियोगी घटभेदो नई तादृशविशेष्यताऽभावप्रतियोगी भवति इति न कोऽपि दोषः इति भावः । एवं च उक्तविवक्षाद्वयं विना तत्र तत्र दोषो।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૧૫૯
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀