Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 364
________________ प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ३२५ उपदशाः ॥ एकार्थश्चानेकञ्च ॥ २२ ॥ एकमनेकञ्चैकार्थ समानाधिकरणमन्ययञ्च नाम्ना द्वितीयाघन्तान्यपदस्यार्थे समस्यते, स च सङ्ख्यापरः । योगविभाग उत्तरत्राऽनुवृत्त्यर्थः ॥ एकोऽर्थो यस्य तदे. कार्थ, च, न एकं अनेकम् , च ।। द्वितीयाचन्यार्थे बहुव्रीहिरित्यनुवर्तते । एक: . समानोऽर्थोऽधिकरणं यस्य तदेकार्थमव्ययं वा नाम्ना सह द्वितीयाद्यन्यपदस्यार्थे समस्यते । स च समासो बहुव्रीहिरित्यर्थः । ययोः पदयोर्भिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थविशेष्यकप्रतीतिजनकत्वं तयोः पदयोः परस्परं सामानाधिकरण्यं भवति । उच्चैर्मुखमस्येत्युच्चैमुखः, कर्तुं कामोऽस्येति कर्तुकाम इत्यादौ व्यधिकरणत्वादव्ययस्य बहुब्रीहिन प्राप्नोतीति, चशब्देनाव्ययस्यानुकर्षः। द्वितीयेन चकारेण 'चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोतीति न्यायेनानेकसजातीयस्यैकस्य समुच्चयः। आरूढो वानरो यं स आरूढवानरो वृक्षः, कर्तरि क्तः । अत्र लौकिकविग्रहवाक्येन यत्कर्मकाऽऽरोहणकर्ता वानर इति बोधः, समासनश्च वानरकर्तृकाऽऽरोहणकर्म इति बोधः, लौकिके वाक्य आरूढस्य वानरस्य प्राधान्येऽपि वृत्तौ विशेष्यविशेषणभाव. व्यत्यासः, एवमेव शिष्टानां ततो बोधात् । ननु बहुव्रीहिसमासेनाऽन्यपदार्थस्याभिधान आरूढवानरो वृक्ष इत्याद्यनुप्रयोगाऽनुपपत्तिः, वृक्षादिईन्यपदार्थः स चाऽऽरूढवानरपदार्थेनैव गतार्थः, अभिहिते शब्दप्रयोगाभावात् , यथा चार्थे द्वन्द्वविधानाद् द्वन्द्वे च. शब्दस्य प्रयोगो न भवतीति चेन्न, वृत्तितः सामान्यस्याभिधानेऽपि विशेषानभिधानात् , यमिति सामान्येनान्यपदार्थ उक्तो न तु वृक्षमित्यादिविशेषरूपेण । ततश्च विशेषजिज्ञासायामवश्यं विशेषोऽनुप्रयोक्तव्यः, यथाऽऽरूढवानरः क इति जिज्ञासायां वृक्ष इति । सूक्ष्मा जटा येषान्ते सूक्ष्मजटाः, 'परतः स्त्री पुंवदिति हूस्वः, सुशोभनाः सूक्ष्मजटाः केशा यस्य स सुक्ष्मजटकेशः, अनेकमित्यस्योदाहरणमिदम् ।

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470