Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 433
________________ ३९४ सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य अविकटोरणः ॥ तत्पुरुषे कृति ॥ २० ॥ अव्यञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे तत्पुरुषे लुब् न स्यात् । स्तम्बेरमः, भस्मनिहुतम् । तत्पुरुष इति किम् ! धन्वकारकः । अद्वयञ्जनादित्येव ! कुरुचरः ॥ मध्यान्तादुरौ ॥ २१ ॥ आभ्यां परस्याः सप्तम्या गुरावुत्तरपदे लुब् न स्यात् । मध्येगुरुः, अन्तेगुरुः ॥ अमूर्द्धमस्तकात्स्वाङ्गादकामे ॥ २२ ॥ मूर्द्धमस्तकवर्जात्स्वाङ्गवाचिनोऽद्वयञ्जनात्परस्याः सप्तम्याः कामवर्जे उत्तरपदे लुब् न स्यात् । कण्ठेकालः । अमूर्द्धमस्तकादिति किम् ? मूर्द्धशिखः मस्तकशिखः । अकाम इति किम् ? मुखकामः ।। बन्धे घजि नवा ।। २३ ।। बन्धे सङ्घातः · अवेः सङ्घातविस्तारे कटपटमि 'ति कटप्रत्ययः । उरणो मेषः । पूर्वेणैव सिद्ध नियमार्थोऽयं योगः, नियमश्चात्र त्रिविधः, प्राचामेव, कारस्यैव नाम्नि, व्यञ्जनादावेवेति । तत्पुरुषे, कृति । नाम्नीति निवृत्तम् । कृतीत्यनुवर्तमानस्योत्तरपदस्य विशेषणात्तदन्तविधिः । स्तम्बे रमत इति स्तम्बेरमः । ' शोकापनुदे 'ति कप्रत्ययः, ङस्युक्तं कृतेति समासः, अनेन लुब्न । बहुलाधिकारात् कचिल्लुप् । भस्मनि हुतमित्र भस्मनिहुतम् , क्तेनेति समासः । उदाहरणद्वयमिदमदन्ताद्वयञ्जनान्ताञ्च परस्याः सप्तम्या अलुपि । धन्वनि मरुदेशे कारका यस्य सः धन्वकारकः । नायं तत्पुरुषसमासः ॥ मध्यश्चान्तश्च मध्यान्तं. तस्मात् , गुरौ । स्पष्टम् ।। मूर्द्धा च मस्तकश्च, न मूर्द्धमस्तकं तस्मात् , स्वञ्च तदङ्गश्च तस्मात् , न कामस्तस्मिन् । कण्ठे कालोऽस्य कण्ठे कालः । बन्धे, घजि, नवा। हस्ते बन्धो यस्यासौ हस्तेबन्धः हस्तबन्धः इति वा समासः । बन्धनं बन्धः, 'भावाकोंर्घम्,' स्वानादस्वाङ्गाच्चायं विकल्पः । अत एवोदाहरणद्वयम् , हस्ते बध्नातीति हस्तबन्धः, अत्र बन्धशब्दोऽन्प्रत्ययान्तः । न चात्र तत्पुरुषे कृतीति लुबभाव.

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470