Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 434
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । ३९५ बन्धे घजन्ते उत्तरपदे अद्वयञ्जनात् परस्याः सप्तम्या लुब् वा न स्यात् । हस्तेबन्धः, हस्तबन्धः । चक्रेबन्धः, चक्रबन्धः । घजीति किम् ! अजन्ते हस्तबन्धः ॥ कालात्तनतरतमकाले ॥२४॥ अद्वयञ्जनान्तात्कालवाचिनः परस्याः सप्तम्यास्तनादिप्रत्ययेषु काले चोत्तरपदे वा लुब् न स्यात् । पूर्णवेतन, पूर्वाहतनः। पूर्वाहेतराम, पूर्गहतरे। पूर्वाहेतमाम, पूर्वाह्नतमे । पूर्वाहेकाले, पूर्वाह्नकाले। कालादिति किम् ? शुक्लतरे, शुक्लतमे। अद्वयञ्जनादित्येव ? रात्रितरायाम् ॥ शयवासिवासेष्व कालात् ॥ २५॥ अकालवाचिनोऽद्वयञ्जनात्परस्याः सप्तम्या एकूत्तरशङ्कयः, तत्र बहुलाधिकारेण प्रकृते लुबभावाप्रवृत्तेः । न चैवमप्यमूर्धमस्तकादित्यनेनालुप्स्यादिति वाच्यम् , तत्पुरुषे कृतीति यत्र न प्राप्नोति तत्रैवामूर्द्धमस्तकादित्यस्य प्रवृत्तेः ॥ कालात् , तनश्च तरच तमश्च, कालश्च तस्मिन् । प्रथमकालपदेन कालवाचिनां नाम्नां प्रहणम् , अपरकालशब्देन च तनतरादिशब्दसाहचर्यात्स्वरूपस्य ग्रहणम् । अत्रोत्तरपदस्याधिकारात् " संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणं न तदन्तस्येति" न्यायेन तनतरतमप्रत्ययानां स्वरूपस्यैव ग्रहणम् । यद्यपि तरतीति तरः, ताम्यतीति तम इत्यचि व्युत्पन्नावपि तरतमौ नामनी, तथापि ' प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणमिति न्यायेन प्रत्ययरूपावेव ग्राझो । पूर्वमहः पूर्वाह्नः 'साश सङ्घयाव्ययादि'त्यट् समासान्तः, अहन्स्थाने अह च, 'अनोऽहस्ये 'ति णत्वम् , पूर्वाहे जातो भवो वा पूर्वाह्नेतनः, पूर्वाद्वापराह्वात्तनडिति तनट् प्रत्ययः, अनेनालुप्। द्वयोर्मध्ये प्रकृष्टे पूर्वाहे इति पूर्वाहेतराम् 'द्वयोर्विभज्ये तरम्' ' किं त्याद्येऽव्ययादि' त्यन्तस्याम् । बहूनां मध्ये प्रकृष्टे पूर्वाहे पूर्वाहतमाम् । पूर्वाहे च तस्मिन्काले च पूर्वाहेकाले । शयश्च वासी च वासश्च तेषु, न कालस्तस्मात् । बिले शेते इति बिलेशयः सर्पादिकः, आधारादित्यप्रत्ययः। वने वसतीति वनेवासी,

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470